मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २२

3
नागरखण्डः · 22

बालमण्डनतीर्थमाहात्म्यवर्णनम्

ऋषय ऊचुः

यदेतद्भवता प्रोक्तं तीर्थे शक्रसमुद्रवम् ॥

स्वामिद्रोहकृतात्पापान्निर्मुक्तो यत्र लक्ष्मणः

॥१॥

कथं तत्र पुरा शक्रः स्वामिद्रोहसमुद्भवात् ॥

पातकादेव निर्मुक्तः कस्मिन्काले च सूतज

॥२॥

कस्माद्दितेर्महेन्द्रेण कृतं कृत्यं तथाविधम् ॥

येन संसूदितो गर्भः सर्वं विस्तरतो वद

॥३॥

सूत उवाच

ब्रह्मणो दक्षिणांगुष्ठाज्जज्ञे दक्षः प्रजापतिः ॥

स च संजनयामास पचाशत्कन्यकाः शुभाः

॥४॥

ददौ च दश धर्माय कश्यपाय त्रयोदश ॥

दिव्येन विधिना दक्षः सप्तविंशतिमिंदवे

॥५॥

अदितिश्च दितिश्चैव द्वे भार्ये मुख्यतां गते ॥

कश्यपस्य द्विजश्रेष्ठाः प्राणेभ्योऽपि प्रिये सदा

॥६॥

ततः स जनयामास देवाञ्च्छक्रपुरःसरान् ॥

अदित्यां चैव दैत्यांश्च दित्यां स बलवत्तरान्

॥७॥

तेषां त्रैलोक्यराज्यार्थं मिथो जज्ञे महाहवः ॥

तत्र शक्रेण ते दैत्याः संग्रामे विनिपातिताः

॥८॥

ततः शोकपरा चक्रे दितिर्व्रतमनुत्तमम् ॥

पुत्रार्थं नियमोपेता क्षेत्रेऽत्रैव समाहिता

॥९॥

ततो वर्षसहस्रांते तस्यास्तुष्टो महेश्वरः ॥

उवाच परितुष्टोऽस्मि वरं प्रार्थय वांछितम्

॥१०॥

साऽब्रवीद्यदि मे तुष्टस्त्वं देव शशिशेखर ॥

तत्पुत्रं देहि देवानां सर्वेषां बलवत्तरम् ॥

यज्ञभागप्रभोक्तारं देवानां दर्पनाशनम्

॥११॥

अवध्यं संगरे पूर्वैः सर्वैदेवैः सवासवैः ॥

स तथेति प्रतिज्ञाय जगामादर्शनं हरः

॥१२॥

दितिश्चैवाऽदधाद्गर्भं कश्यपान्मुनिपुंगवात् ॥

ततः शक्रो भयं चक्रे ज्ञात्वा तं गर्भसंभवम् ॥

वदतो मुनिमुख्यस्य नारदस्य महात्मनः

॥१३॥

ततो दुष्टां मतिं कृत्वा तस्य गर्भस्य नाशने ॥

चक्रे तस्याः स शुश्रूषां दिवारात्रमतंद्रितः

॥१४॥

छिद्रमन्वेषमाणस्तु सुसूक्ष्ममपि च द्विजाः ॥

न तस्या लभते क्वाऽपि गता मासा नवैव तु

॥१५॥

ततश्च दशमे मासि संप्राप्ते प्रसवोद्भवे ॥

गर्भालसा निशावक्त्रे सुप्ता सा दक्षिणामुखी

॥१६॥

निद्रावशं तु संप्राप्ता विसंज्ञा समपद्यत ॥

शक्रहस्तावमर्दोत्थपादसौख्येन निश्चला

॥१७॥

तां विसंज्ञामथो वीक्ष्य त्यक्त्वा पादौ शतक्रतुः ॥

प्रविवेशोदरं तस्यास्तीक्ष्णं शस्त्रं करे दधत् ॥

तेनाऽसौ सप्तधा चके गर्भं शस्त्रेण देवपः

॥१८॥

अथाऽपश्यत्क्षणात्सप्त वालकान्पूर्णविग्रहान् ॥

ततस्तानपि सप्तैव सप्तधा कृतवान्हरिः

॥१९॥

जाता एकोनपञ्चाशदथ तत्रैव बालकाः ॥

तान्दृष्ट्वा वृद्धिमापन्नांस्ततो भीतः शतक्रतुः ॥

निश्चक्रामोदरातूर्णं दित्या यावन्न लक्षितः

॥२०॥

ततः प्रभाते विमले प्रोद्गते रविमंडले ॥

दितिः संजनयामास सप्तधा सप्त बालकान्

॥२१॥

ततोऽभ्येत्य सहस्राक्षो दुर्गंधेन समावृतः ॥

निस्तेजा म्लानवक्त्रश्च लज्जयाऽ धोमुखः स्थितः

॥२२॥

तं दृष्ट्वा तादृशं शक्रं दितिः प्रोवाच सादरम् ॥

प्रणतं संस्थितं पार्श्वे भयव्याकुलचेतसम्

॥२३॥

किं त्वं शक्र निरु त्साहस्तेजोद्युतिविवर्जितः ॥

शरीरात्तव दुर्गन्धः कस्मादीदृक्प्रजायते

॥२४॥

किं त्वया निहतो विप्रोगुरुर्वाबालकोऽथवा ॥

नारी वा येन ते नष्टं तेजो गात्रसमुद्भवम्

॥२५॥

हतो नखांभसा वा त्वं घृष्टः शूर्पानिलेन च ॥

अजामार्जनिकोत्थैश्चरजोभिर्वा समाश्रितः

॥२६॥

शक्र उवाच

सत्यमेतन्महाभागे यत्त्वयोक्तोऽस्मि सांप्रतम् ॥

रात्रौ प्रविष्टः सुप्ताया जठरे तव पापकृत्

॥२७॥

कृन्तश्चैकोनपञ्चाशत्कृत्वो गर्भो मया शुभे ॥

तावन्मात्रास्ततो जाता बालकाः सर्व एव ते

॥२८॥

ततो भीत्या विनिष्क्रान्तस्त्वया देवि न लक्षितः ॥

एतस्मात्कारणाज्जाता तेजोहानिरनिन्दिते

॥२९॥

दितिरुवाच

यस्मात्सत्यं त्वया प्रोक्तं पुरतो मम देवप ॥

तस्मात्प्रार्थय मत्तस्त्वं वरं यन्मनसेप्सि तम्

॥३०॥

शक्र उवाच

एते तव सुता देवि च्छिद्यमाना मयासिना ॥

रुदन्तो वारिता मन्दं मा रुदन्तु मुहुर्मुहुः

॥३१॥

मरुतो नामविख्यातास्तस्मात्संतुजगत्रये ॥

दैत्यभावविनिर्मुक्ता मद्विधेया मम प्रियाः

॥३२॥

यज्ञभागभुजः सर्वे भविष्यंति मया सह ॥

यस्मादेतन्मया तीर्थं बालकैस्तव मंडितम्

॥३३॥

बहुभिर्यास्यति ख्यातिं बालमंडनमित्यतः ॥

या च स्त्री गर्भसंयुक्ता स्नानं भक्त्या करिष्यीत ॥

न भविष्यंति छिद्राणि तस्या गर्भे कथंचन

॥३४॥

प्राप्ते प्रसवकाले तु या जलं प्राशयिष्यति ॥

तीर्थस्यास्य सुखेनैव प्रसविष्यति सा सुतम्

॥३५॥

दितिरुवाच

तवोच्छेदाय देवेश याचितः प्राङ्मया हरः ॥

एकं देव सुतं देहि सर्वदेवनिबर्हणम्

॥३६॥

त्वया चैकोनपंचाशत्प्रकारः स विनिर्मितः ॥

यस्मादृतं त्वया प्रोक्तं तस्मादेतद्भविष्यति

॥३७॥

सूत उवाच

ततः प्रभृति ते जाता मरुतो विबुधैः समम् ॥

यज्ञभागस्य भोक्तारो दितेः शक्रस्य शासनात्

॥३८॥

अथ प्राह सहस्राक्षो देवाचार्यं बृहस्पतिम् ॥

मातुर्द्रोहकृतं पापं कथं यास्यति संक्ष यम्

॥३९॥

बृहस्पतिरुवाच

अत्रैव कुरु देवेन्द्र तपः पापविशुद्धये ॥

तीर्थे यत्र कृतं पापं सर्वपातकनाशने

॥४॥

न यज्ञैर्न च दानेन नान्यैस्तीर्थसमाश्रयैः ॥

मातुर्द्रोहकृतं पापं नाशं याति पुरंदर ॥

एवमेतत्परित्यज्य तीर्थं मातुस्तवाऽऽश्रयम्

॥४॥

सूत उवाच

ततस्तूर्णं सह साक्षः सहस्राक्षेशसंज्ञितम् ॥

लिंगं संस्थापयामास स्वयमेव द्विजोत्तमाः

॥४२॥

त्रिकालं पूजयामासपुष्पधूपानुलेपनैः ॥

तथान्यैर्बलिसत्का रैर्गीतैर्नृत्यैःपृथग्विधैः

॥४३॥

ततो वर्षसहस्रांते तुष्टस्तस्य महेश्वरः ॥

प्रोवाच वरदोऽस्मीति शक्र प्रार्थय वांछितम्

॥४४॥

शक्र उवाच

मातुर्द्रोहकृतं पापं यातु मे त्रिपुरांतक ॥

तथाऽन्येषां मनुष्याणां येऽत्र त्वां श्रद्धयान्विताः ॥

पूजयिष्यंति सद्भक्त्या स्नानं कृत्वा समाहिताः

॥४५॥

सूत उवाच

स तथेति प्रतिज्ञाय जगामादर्शनं हरः ॥

शक्रोऽपि रहितः पापैर्जगाम त्रिदशालयम्

॥४६॥

एवं तत्र समुत्पन्नं तीर्थं तद्बालमंडनम् ॥

स्वामिद्रोहकृतात्पापान्मुच्यंते यत्र मानवाः

॥४७॥

एतद्वः सर्वमाख्यातं बालमंडनसंभवम् ॥

माहात्म्यं तु द्विज श्रेष्ठाः शृणुध्वमथ सादरम्

॥४८॥

आश्विनस्य सिते पक्षे दशम्यादि यथाक्रमम् ॥

यस्तत्र कुरुते श्राद्धं यावत्पंचदशी तिथिः

॥४९॥

तीर्थानां स हि सर्वेषां स्नानजं लभते फलम् ॥

श्राद्धस्य करणाद्वापि वाजिमेधफलं द्विजाः

॥५०॥

तस्मिन्काले सहस्राक्षः समागच्छति भूतले ॥

भागानां मर्त्यजातानां सेवनाय सदैव हि

॥५१॥

यावद्भूमितले शक्रस्तिष्ठत्येवं द्विजोत्तमाः ॥

तीर्थे तीर्थानि सर्वाणि तावत्तिष्ठन्ति तत्र वै

॥५२॥

तस्मात्सर्वप्रयत्नेन तस्मिन्काले विशेषतः ॥

स्नात्वा तत्र शुभे तीर्थै शक्रेश्वरमथाऽर्चयेत्

॥५३॥

अत्र श्लोकौ पुरा गीतौ नारदैन सुर षिंणा ॥

शृण्वंतु मुनयः सर्वे कीर्त्यमानौ मया हि तौ

॥५४॥

बालमंडनके स्नात्वा शक्रेश्वरमथेक्षयेत् ॥

यः पुमानाश्विने मासि प्राप्ते श्रवण पञ्चके ॥

स पापैर्मुच्यते सर्वैराजन्ममरणाद्भुवि

॥५५॥

प्रभावात्तस्य तीर्थस्य सत्यमेतद्द्विजोत्तमाः

॥५६॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये बालमण्डनतीर्थमाहात्म्यवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥