मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २२४

3
नागरखण्डः · 224

श्राद्धविधिवर्णनम्

आनर्तउवाच

श्रुता मया महाभाग श्राद्धार्हा ब्राह्मणाश्च ये ॥

ये च त्याज्यास्तथा पुत्रा बहवश्चैव सुव्रत

॥१॥

सांप्रतं कथयाऽस्माकं मन्त्रपूर्वश्च यो विधिः ॥

गृहस्थेन सदा कार्यः पितॄणां परितुष्टये

॥२॥

भर्तृयज्ञ उवाच

प्रणम्यामंत्रिता ये च श्राद्रार्थं ब्राह्मणोत्तमाः ॥

आनीय कुतपे काले तान्सर्वान्प्रार्थयेदि दम्

॥३॥

आगच्छंतु महाभागा विश्वेदेवा महाबलाः ॥

ये यत्र विहिताः श्राद्धे सावधाना भवंतु ते

॥४॥

एवमभ्यर्च्य तान्सर्वांस्ततः कृत्वा प्रदक्षिणाम् ॥

जानुनी भूतले न्यस्य ततश्चार्घं प्रदापयेत्

॥५॥

मंत्रेणानेन राजेंद्र सपुष्पाक्षतचंदनैः ॥

अर्घमेनं प्रगृह्णंतु मया दत्तं द्विजोत्तमाः ॥

पादप्रक्षालनार्थाय प्रकुर्वंतु मम प्रियम्

॥६॥

एवमुक्त्वा महीपृष्ठे अनुलिप्ते ततः परम् ॥

साक्षतान्प्रक्षिपेद्दर्भान्विश्वेदेवान्प्रकीर्तयन्

॥७॥

अपसव्यं ततः कृत्वा दर्भांस्तिलसमन्वितान् ॥

द्विगुणान्प्रक्षिपेद्भूमौ पितॄनुद्दिश्य चात्मनः

॥८॥

एवं सर्वाः क्रियाः कार्या दैविका सव्यपूर्विकाः ॥

पैतृकाश्चापसव्येन मुक्त्वा नांदीमुखान्पितॄन्

॥९॥

सर्वे पूर्वामुखाः स्थाप्या युग्माश्च शक्तितो नृप ॥

पितरो मातृपक्षीयाः स्थाप्याश्चोदङ्मुखास्तथा

॥१०॥

एकैकं वा त्रयो वाऽपि स्युरेकैकं वा पृथक्पृथक ॥

पैतृकान्स्थाप्प चक्रेण पितॄणां परितुष्टये

॥११॥

षष्ठ्या विभक्त्या तु तेषामासनं च प्रदापयेत् ॥

ऋजुभिः साक्षतैर्दर्भैः सोदकैर्दक्षिणांगतः

॥१२॥

विषमौ द्विगुणैर्दर्भैः सतिलैर्वामपार्श्वतः ॥

पाणौ तोयं परिक्षिप्य न दर्भांस्तु कथं चन

॥१३॥

यो हस्ते चासनं दद्याच्चेद्दार्भं बुद्धिवर्जितः ॥

पितरो नासने तत्र प्रकुर्वंति निवेशनम्

॥१४॥

आवाहनं प्रकर्तव्यं विभक्त्या च द्वितीयया ॥

येनागच्छंति ते सर्वे समाहूताः पृथक्पृथक्

॥१५॥

अन्यया च विभक्त्या चेत्पितॄनावाहयेत्क्वचित् ॥

नागच्छंति महाभागा यद्यपि स्युर्बुभुक्षिताः

॥१६॥

विश्वेदेवास आगत मंत्रेणानेन पार्थिव ॥

तेषामावाहनं कार्यमक्षतैश्च शिरोंऽतिकात्

॥१७॥

उशंतस्त्वेति च तिलैः पितॄनावाहयेत्ततः ॥

आयंतु न इति जपेत्ततः पार्थिवसत्तम

॥१८॥

शन्नो देवीति मंत्रेण स्वाहाकारसमन्वितम् ॥

पितॄणामर्घपात्रेषु तथैव च जलं क्षिपेत्

॥१९॥

यवोऽसि यवयास्मद्द्वेत्यक्षतांस्तत्र निक्षिपेत् ॥

चंदनं गंधपुष्पाणि धूपं दद्याद्यथाक्रमम् ॥

सपवित्रेषु हस्तेषु दद्यादर्घ्यं समाहितः

॥२०॥

या दिव्या इति मन्त्रेण स्वाहाकारसमन्वितम् ॥

पितॄणामर्घपात्रेषु तथैव च जलं क्षिपेत्

॥२१॥

तिलोऽसि सोमदैवत्यो गोसवे देवनिर्मितः ॥

प्रत्नवद्भिः पृक्तः स्वधया पितॄनिमाँल्लोकान्प्रीणाहि नः स्वधेति प्रक्षिपेत्तिलान्

॥२२॥

यादिव्येति च मन्त्रेण ततो ह्यर्घ्यं प्रदापयेत् ॥

पितृपात्रे समादाय अर्घ्यपात्राणि कृत्स्नशः

॥२३॥

अधोमुखं च तत्पात्रं मन्त्रवत्स्थापयेत्ततः ॥

आयुष्कामस्तु तत्तोयं लोचनाभ्यां न वीक्षयेत्

॥२४॥

ततस्तु चन्दनादीनि दीपांतानि समाददेत् ॥

ततः पाकं समादाय पृच्छेद्विप्रान्द्विजो त्तमान्

॥२५॥

अहमग्नौ करिष्यामि होमं पितृसमुद्भवम् ॥

अनुज्ञा दीयतां मह्यमपसव्याश्रितस्य भोः

॥२६॥

कुरुष्वेति च तैः प्रोक्ते गत्वाग्नि शरणं ततः ॥

अग्नये कव्यवाहनाय स्वाहेति प्रथमाहुतिः

॥२७॥

सोमाय पितृमते स्वधेति च ततः परम् ॥

हुतमन्नं च शेषं च श्राद्धार्हेभ्यः प्रदीयते

॥२८॥

इष्टमन्नं ततो दत्त्वा पात्रमालभ्य संजपेत् ॥

विप्रांगुष्ठं समादाय पाकमध्ये निधाय च

॥२९॥

पृथिवी ते पात्रमादाय वैष्ण व्या च ऋचा तथा ॥

स्वहस्तेन न वै दद्यात्प्रत्यक्षं लवणं तथा

॥३०॥

स्वहस्तेन च यद्दत्तं प्रत्यक्षलवणं नृप ॥

तच्छ्राद्धं व्यर्थतां याति धृते दत्तेर्द्धभुक्तके ॥

तृप्ताञ्ज्ञात्वा ततो विप्रानग्रे त्वन्नं परिक्षिपेत्

॥३१॥

अग्निदग्धाश्च ये जीवा येप्यदग्धाः कुले मम ॥

भूमौ दत्तेन तृप्यंतु तृप्ता यांतु परां गतिम्

॥३२॥

सकृत्सकृज्जलं दत्त्वा गायत्रीत्रितयं जपेत् ॥

मधुवातेति संकीर्त्य ततः पृच्छेद्द्विजोत्तमान्

॥३३॥

तृप्ताः स्थ इति राजेन्द्र अनुज्ञां प्रार्थयेत्ततः ॥

बन्धूनां भोजनार्थाय शेषस्यान्नस्य भक्तिमान्

॥३४॥

उच्छिष्टसन्निधौ पश्चात्पितृवेदिं समाचरेत् ॥

पितृविप्रासनस्थानां नोच्छिष्टं द्विजसन्निधौ

॥३५॥

ततो वेदिं समाधाय पैतृकीं दक्षिणाप्लवाम् ॥

तस्यां दर्भान्समाधाय कुर्याच्चैवावनेजनम्

॥३६॥

विभक्त्या पूर्वया पश्चात्पिंडान्दद्याद्यथाक्रमम् ॥

भूयोऽप्यत्र जलं दद्यात्पितृतीर्थेन पार्थिव ॥

सूत्रं च प्रतिपिण्डे वै दयात्तेषु पृथक्पृथक्

॥३७॥

यः सूत्रं पूर्वपिण्डेषु सततं विनियोजयेत् ॥

स विरोधं चरेत्तेषां त्रोटनाच्च परस्परम्

॥३८॥

ततः संपूजयेत्सर्वान्पिंडान्यद्वद्द्विजोत्तमान् ॥

आचम्य प्रक्षाल्य तथा हस्तौ पादौ च पार्थिव

॥३९॥

नमस्कृत्य पितॄन्पश्चात्सुप्रोक्षितं ततः परम् ॥

कृत्वा सव्येन राजेन्द्र याचयित्वा वराशिषः

॥४०॥

अक्षय्यसलिलं देयं षष्ठ्या चैव ततः परम् ॥

पवित्राणि समादाय ऊर्ध्वं स्वधेति कीर्तयेत् ॥

अस्तु स्वधेति तैरुक्ते पिंडोपरि परिक्षिपेत्

॥४१॥

ततो मधु समादाय पायसं च तिलोदकम् ॥

ऊर्जस्वेति च मन्त्रेण पितॄणामुपरिक्षिपेत् ओ

॥४२॥

उत्तानमर्घपात्रं तु कृत्वा दद्याच्च दक्षिणाम् ॥

हिरण्यं देवतानां च पितॄणां रजतं तथा

॥४३॥

ततः स्वस्त्युदकं दद्यात्पितृपूर्वं च सव्यतः ॥

न स्त्रीभिर्न च बालेन नान्ये नैव च केनचित्

॥४४॥

श्राद्धीयविप्रपात्रं च स्वयमेव प्रचालयेत्

॥४५॥

ततः कृतांजलिर्भूत्वा प्रार्थयेत्पार्थिवोत्तम ॥

अघोराः पितरः सन्तु अस्मद्गोत्रं विवर्द्धताम्

॥४६॥

दातारो नोऽभिवर्धंतां वेदाः सन्ततिरेव नः ॥

श्रद्धा च नो मा व्यगमद्बहुधेयं च नोऽस्त्विति

॥४७॥

अन्नं च नो बहु भवेदतिथींश्च लभेमद्दि ॥

याचितारश्च नः सन्तु मा च याचिष्म कश्चन

॥४८॥

एता एवाशिषः सन्तु विश्वेदेवाः प्रीयंतां ततः ॥

स्वस्त्यर्थमुदकं दद्यात्पितृपूर्वं च सव्यतः

॥४९॥

वाजेवाजेति च ऋचा विसृजेच्च ततः परम् ॥

आमा वाजस्येति प्रदक्षिणीकृत्योपवेशयेत्

॥५॥

पादावमर्दनं कृत्वा आसीमांतमनुव्रजेत् ॥

बलिं च निक्षिपेत्तस्माद्भोजनं च समाचरेत्

॥५१॥

मौनेन दृश्यते सूर्यो यावत्तावन्नराधिप

॥५२॥

यश्चैवास्तमिते सूर्ये भुंक्ते च श्राद्धकृन्नरः ॥

व्यर्थतां याति तच्छ्राद्धं तस्माद्भुंजीत नो निशि

॥५३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धविधिवर्णनंनाम चतुर्विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२४ ॥