व्रतमहिमवर्णनम्
नारद उवाच
कदा विधिनिषेधौ च कर्तव्यौ विष्णुसन्निधौ ॥
युष्मद्वाक्यामृतं पीत्वा तृप्तिर्मम न विद्यते
॥१॥ब्रह्मोवाच
कर्कसंक्रांतिदिवसे विष्णुं संपूज्य भक्तितः ॥
फलैरर्घ्यः प्रदातव्यः शस्तजंबूफलैः शुभैः
॥२॥जंबूद्वीपस्य संज्ञेयं फलेन च विजायते ॥
मन्त्रेणानेन विप्रेंद्र श्रद्धाधर्मसुसंयतैः
॥३॥षण्मासाभ्यंतरे मृत्युर्यत्र क्वापि भवेन्मम ॥
तन्मया वासुदेवाय स्वयमात्मा निवेदितः
॥४॥इति मंत्रेणार्घ्यम् ॥
ततो विधिनिषेधौ च ग्राह्यौ भक्त्या हरेः पुरः ॥
चातुर्मास्ये समायाते सर्वलोकमहासुखे
॥५॥विधिर्वेदविधिः कार्यो निषेधो नियमो मतः ॥
विधिश्चैव निषेधश्च द्वावेतौ विष्णुरेव हि
॥६॥तस्मात्सर्वप्रयत्नेन सेव्य एव जनार्दनः ॥
विष्णोः कथा विष्णुपूजा ध्यानं विष्णोर्नतिस्तथा
॥७॥सर्वमेव हरिप्रीत्या यः करोति स मुक्तिभाक् ॥
वर्णाश्रमविधेर्मूर्तिः सत्यो विष्णुः सनातनः
॥८॥चातुर्मास्ये विशेषेण जन्मकष्टादिनाशनम् ॥
हरिरेव व्रताद्ग्राह्यो व्रतं देहेन कारयेत् ॥
देहोऽयं तपसा शोध्यः सुप्ते देवे तपोनिधौ
॥२९॥नारद उवाच
किं व्रतं किं तपः प्रोक्तं ब्रह्मन्ब्रूहि सविस्तरम् ॥
सुप्ते देवे मया कार्यं कृतं यच्च महाफलम्
॥१०॥ब्रह्मोवाच
व्रतं विष्णुव्रतं विद्धि विष्णुभक्तिसमन्वितम् ॥
तपश्च धर्मवर्तित्वं कृच्छ्रादिकमथापि वा
॥११॥शृणु व्रतस्य माहात्म्यं वक्ष्यामि प्रथमं तव ॥
ब्रह्मचर्यव्रतं सारं व्रतानामुत्तमं व्रतम्
॥१२॥ब्रह्मचर्यं तपः सारं ब्रह्मचर्यं महत्फलम् ॥
क्रियासु सकलास्वेव ब्रह्मचर्यं विवर्द्धयेत्
॥१३॥ब्रह्मचर्यप्रभावेण तप उग्रं प्रवर्त्तते ॥
ब्रह्मचर्यात्परं नास्ति धर्मसाधन मुत्तमम्
॥१४॥चातुर्मास्ये विशेषेण सुप्ते देवे गुणोत्तरम् ॥
महाव्रतमिदं लोके तन्निबोध सदा द्विज
॥१५॥नारायणमिदं कर्म यः करोति न लिप्यते ॥
शतत्रयं षष्टियुतं दिनमाहुश्च वत्सरे
॥१६॥तत्र नारायणो देवः पूज्यते व्रतकारिभिः ॥
सत्क्रियाममुकीं देव कारयिष्यामि निश्चयः
॥१७॥कुरुते तद्व्रतं प्राहुः सुप्ते देवे गुणोत्तरम् ॥
वह्निहोमो विप्रभक्तिः श्रद्धा धर्मे मतिः शुभा
॥१८॥सत्संगो विष्णुपूजा च सत्यवादो दया हृदि ॥
आर्जवं मधुरा वाणी सच्चरित्रे सदा रतिः
॥१९॥वेदपाठस्तथाऽस्तेयमहिंसा ह्रीः क्षमा दमः ॥
निर्लोभताऽक्रोधता च निर्मोहोऽममताऽर तिः
॥२०॥श्रुतिक्रियापरं ज्ञानं कृष्णार्पितमनोगतिः ॥
एतानि यस्य तिष्ठंति व्रतानि ब्रह्मवित्तम
॥२१॥जीवन्मुक्तो नरः प्रोक्तो नैव लिप्य ति पातकैः ॥
व्रतं कृतं सकृदपि सदैव हि महाफलम्
॥२२॥चातुर्मास्ये विशेषेण ब्रह्मचर्यादिसेवनम् ॥
अव्रतेन गतं येषां चातुर्मास्यं सदा नृणाम्
॥२३॥धर्मस्तेषां वृथा सद्भिस्तत्त्वज्ञैः परिकीर्तितः ॥
सर्वेषामेव वर्णानां व्रतचर्या महाफलम्
॥२४॥स्वल्पापि विहिता वत्स चातुर्मा स्ये सुखप्रदा ॥
सर्वत्र दृश्यते विष्णुर्व्रतसेवापरैर्नृभिः
॥२५॥चातुर्मास्ये समायाते पालयेत्तत्प्रयत्नतः
॥२६॥भजस्व विष्णुं द्विजवह्नितीर्थवेदप्रभेदमयमूर्तिमजं विराजम् ॥
यत्प्रसादाद्भवति मोक्षमहातरुस्थस्तापं न यास्यति भवार्कसमुद्भवं तम्
॥२७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये व्रतमहिमवर्णनंनाम सप्तत्रिं शदुत्तरद्विशततमोऽध्यायः ॥ २३७ ॥