मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १९४

3
नागरखण्डः · 194

कुमारिकातीर्थद्वयगर्तक्षेत्रस्थपादुकामाहात्म्यवर्णनम्

सूत उवाच

एवं सा तान्वरान्दत्त्वा सर्वेषां शापभागिनाम् ॥

मौनव्रतपरा भूत्वा निविष्टाऽथ धरातले

॥१॥

ततो देवगणाः सर्वे तापसाश्च महर्षयः ॥

साधुसाध्विति तां प्रोच्य ततः प्रोचुरिदं वचः

॥२॥

एतां देवीप्रसादेन ब्राह्मणानां विशेषतः ॥

पूजयिष्यंति मर्त्येऽत्र सर्वे लोकाः समाहिताः

॥३॥

ब्रह्माणं पूजयित्वा तु पश्चादेनां सुरेश्वरीम् ॥

पूजयिष्यंति ये मर्त्यास्ते तु यांति परां गतिम्

॥४॥

या कन्या पतिसंयोगं संप्राप्यात्र समाहिता ॥

ततः पादप्रणामं च गायत्र्याश्च करिष्यति ॥

पतिं प्रजापतिं प्राप्य सा भविष्यत्यसंशयम्

॥५॥

सर्वकामसुखोपेता धनधान्यसमन्विता ॥

या नारी दुर्भगा वंध्या भविष्यति च शोभना

॥६॥

ऋषय ऊचुः

यदेतद्भवता प्रोक्तं गते पंचोत्तरे शते ॥

पद्मजानां हरः प्रादादेतत्कथमनुत्त मम्

॥७॥

ब्राह्मणेभ्यः स संतुष्टः किंवाऽन्योऽस्ति महेश्वरः ॥

एतं नः संशयं भूयो यथावद्वक्तुमर्हसि

॥८॥

आयुष्यं शंकरस्यापि यत्प्रमाणं तथा हरेः ॥

ब्रह्मणोऽपि समाचक्ष्व परं कौतूहलं हि नः

॥९॥

सूत उवाच

अहं वः कीर्तयिष्यामि विस्तरेण द्विजोत्तमाः ॥

त्रयाणामपि चायुष्यं यत्प्रमाणं व्यवस्थितम्

॥१०॥

निमेषस्य चतुर्भागस्त्रुटिः स्यात्तद्द्वयं लवः ॥

लवद्वयं कला प्रोक्ता काष्ठा तु दशपंचभिः

॥११॥

त्रिंशत्काष्ठां कलामाहुः क्षणस्त्रिंशत्कलो मतः ॥

मुहूर्तमानं मौहूर्ता वदंति द्वादशक्षणम्

॥१२॥

त्रिंशन्मुहूर्तमुद्दिष्टमहोरात्रं मनीषिभिः ॥

मासस्त्रिंशदहोरात्रैर्द्वौ मासावृतुसंज्ञितः

॥१३॥

ऋतुत्रयं चायनं च अयने द्वे तु वत्सरम् ॥

दैविकं च भवेत्तच्च ह्यहोरात्रं द्विजोत्तमाः

॥१४॥

उत्तरं चायनं तत्र दिनं रात्रिस्तथाऽपरम् ॥

लक्षैः सप्तदशाख्यैस्तु मनुष्याणां च वत्सरैः

॥१५॥

अष्टाविंशतिभिश्चैव सहस्रैस्तु तथा परैः ॥

आद्यं कृतयुगं चैव तद्भ विष्यति सद्द्विजाः

॥१६॥

ततो द्वादशभिर्लक्षैः षोडशानां सहस्रकैः ॥

त्रेतायुगं समादिष्टं द्वितीयं द्विजसत्तमाः

॥१७॥

द्वापरं चाष्टभिर्लक्षैस्तृ तीयं परिकीर्तितम् ॥

चतुःषष्टिसहस्रैस्तु यथावत्परिसंख्यया

॥१८॥

चतुर्लक्षं समादिष्टं युगं कलिसमुद्भवम् ॥

द्वात्रिंशता सहस्रैस्तु चतुर्थं तद्विदुर्बुधाः

॥१९॥

चतुर्युगसहस्रेण दिनं पैतामहं भवेत् ॥

तेषां त्रिंशद्दिनैर्मासो मासैर्द्वादशभिर्वत्सरो भवेत्

॥२॥

ब्रह्मा तेषां शतं यावत्स जीवति पितामहः ॥

सांप्रतं चाष्टवर्षीयः षण्मासश्चैव संस्थितः

॥२१॥

प्रतिपद्दिवसस्यास्य प्रथमस्य तथा गतम् ॥

यामद्वयं शुक्रवारे वर्तमाने महात्मनः

॥२२॥

ब्रह्मणो वर्षमात्रेण दिनं वैष्णवमुच्यते

॥२३॥

सोपि वर्षशतंयावदात्ममानेन जीवति ॥

पंचपचाशदादिष्टास्तस्य जातस्य वत्सराः

॥२४॥

तिथयः पंच यामार्द्धं सोमवारेण संगतम् ॥

वैष्णवेन तु वर्षेण दिनं माहेश्वरं भवेत्

॥२५॥

शिवो वर्षशतं यावत्तेन रूपेण च स्थितः ॥

यावदुच्छ्वसितं वक्त्रं सदाशिवसमुद्भवम्

॥२६॥

पश्चाच्छक्तिं समभ्येति यावन्निश्वसितं भवेत् ॥

निश्वासोच्छ्वसितानां च सर्वेषामेव देहिनाम्

॥२७॥

ब्रह्मविष्णुशिवानां च गन्धर्वोरगरक्षसाम् ॥

एकविंशत्सहस्राणि शतैः षड्भिः शतानि च

॥२८॥

अहोरात्रेण चोक्तानि प्रमाणे द्विज सत्तमाः ॥

षड्भिरुच्छ्वासनिश्वासैः पलमेकं प्रवर्तते

॥२९॥

नाडी षष्टिपला प्रोक्ता तासां षष्ट्या दिनं निशा ॥

निश्वासोच्छ्वसितानां च परिसंख्या न विद्यते ॥

सदाशिवसमुत्थानामेतस्मात्सोऽक्षयः स्मृतः

॥३०॥

अन्येऽपि ये प्रगच्छंति ब्रह्मज्ञानसमन्विताः ॥

अक्षयास्तेऽपि जायंते सत्यमेतन्मयोदितम्

॥३१॥

ऋषय ऊचुः

यद्येवं सूतपुत्रात्र ब्रह्मविष्णुमहेश्वराः ॥

आत्मवर्षशते पूर्णे यांति नाशमसंशयम्

॥३२॥

तत्कथं मानुषाणां च मर्त्यलोकेल्पजीविनाम् ॥

कथयंति च ये मुक्तिं विद्वांसश्चैव सूतज

॥३३॥

नूनं तेषां मृषा वादो मोक्षमार्गसमु द्भवः

॥३४॥

सूत उवाच

अनादिनिधनः कालः संख्यया परिवर्जितः ॥

असंख्याता गता मोक्षं ब्रह्मविष्णुमहेश्वराः

॥३५॥

निजे वर्षशते पूर्णे वालुकारेणवो यथा ॥

निजमानेन या श्रद्धा ब्रह्मज्ञानसमुद्भवा ॥

तेषां चेन्मानुषाणां च तन्मुक्तिः स्यादसंशयम्

॥३६॥

यथैते दंशमशका मानुषाणां च कीटकाः ॥

जायंते च म्रियंते च गण्यंते नैव कुत्रचित् ॥

इन्द्रादीनां तथा मर्त्याः संभाव्या जगतीतले

॥३७॥

देवानां च यथा मर्त्याः कीटस्थाने च संस्थिताः ॥

तथा देवा अपि ज्ञेया ब्रह्मणोऽव्यक्तजन्मनः

॥३८॥

ब्रह्मणस्तु यथा देवाः कीटस्थाने व्यवस्थिताः ॥

तथा ब्रह्मापि विष्णोश्च कीटस्थाने व्यवस्थितः

॥३९॥

पितामहो यथा विष्णोः कीटस्थाने व्यवस्थितः ॥

तथा स शिवशक्तिभ्यां परिज्ञेयो द्विजोत्तमाः

॥४०॥

यथा विष्णुः कृमिर्ज्ञेयस्ताभ्यामेव द्विजोत्तमाः ॥

सदाशिवस्य विज्ञेयौ तथा तौ कृमिरूपकौ

॥४१॥

एवं च विविधैर्यज्ञैः श्रद्धा पूतेन चेतसा ॥

ब्रह्मज्ञानात्परं यांति सदाशिवसमुद्भवम्

॥४२॥

अग्निष्टोमादिभिर्यज्ञैः कृतैः संपूर्णदक्षिणैः ॥

तदर्थं ते दिवं यांति भुक्त्वा भोगान्पृथग्विधान्

॥४३॥

क्षये च पुनरायांति सुकृतस्य महीतले ॥

ब्रह्मज्ञानात्परं प्राप्य पुनर्जन्म न विद्यते

॥४४॥

तस्मात्सर्वप्रयत्नेन तत्राभ्यासं समा चरेत् ॥

जन्मभिर्बहुभिः पश्चाच्छनैर्मुक्तिमवाप्नुयात्

॥४५॥

एकजन्मनि संप्राप्तो लेशो ज्ञानस्य तस्य च ॥

द्वितीये द्विगुणस्तस्य तृतीये त्रिगु णो भवेत्

॥४६॥

एकोत्तरो भवेदेवं सदा जन्मनिजन्मनि

॥४७॥

ऋषय ऊचुः

ब्रह्मज्ञानस्य संप्राप्तिर्मर्त्यानां जायते कथम् ॥

एतन्नः सर्वमाचक्ष्व यदि त्वं वेत्सि सूतज

॥४८॥

सूत उवाच

का शक्तिर्मम वक्तव्ये ज्ञाने मर्त्यसमुद्भवे ॥

स्वयमेव न यो वेत्ति स परस्य वदेत्कथम्

॥४९॥

उपदेशः परं यो मे पित्रा दत्तो द्विजोत्तमाः ॥

तमहं वः प्रवक्ष्यामि ब्रह्मज्ञानसमुद्भवम्

॥५०॥

हाटकेश्वरजे क्षेत्रे ह्यस्ति तीर्थद्वयं शुभम् ॥

कुमारिकाभ्यां विहितं ब्रह्मज्ञानप्रदं नृणाम्

॥५१॥

ब्राह्मण्या चैव शूद्र्या च कुमारीभ्यां विनिर्मितम् ॥

अष्टम्यां च चतुर्दश्यां यस्ताभ्यां स्नानमाचरेत्

॥५२॥

पश्चात्पूजयते भक्त्त्या प्रसिद्धे सिद्धिपादुके ॥

सुगुप्ते गर्तमध्यस्थे कुमार्या परिपूजिते

॥५३॥

तस्य संवत्सरस्यान्ते ब्रह्मज्ञानं प्रजायते ॥

शक्त्या विनिहिते ते च स्वदर्शनविवृद्धये

॥५४॥

लोकानां मुक्तिकामानां ब्रह्मज्ञानसुखावहे ॥

मम तातो गतस्तत्र ततश्च ज्ञानवान्स्थितः

॥५५॥

तस्यादेशादहं तत्र गतः संवत्सरं स्थितः ॥

पादुके पूजयामास ततो ज्ञानं च संस्थितम्

॥५६॥

यत्किञ्चिद्वा श्रुतं लोके पुराणाग्र्यं व्यवस्थितम् ॥

वर्तमानं भविष्यच्च तदहं वेद्मि भो द्विजाः

॥५७॥

तत्प्रसादादसंदिग्धं प्रमाणं चात्र संस्थितम् ॥

मुक्त्वैकं वेदपठनं सूतत्वं च यतो मयि

॥५८॥

तस्यापि वेद्मि सर्वार्थं भर्तृयज्ञो यथा मुनिः ॥

अस्मादत्रैव गच्छध्वं यदि मुक्तेः प्रयोजनम्

॥५९॥

किमेतैः स्वर्गदैः सत्रैः पुनरावृत्तिकारकैः ॥

आराधयध्वं ते गत्वा पादुके सिद्धिदे नृणाम् ॥

येन संवत्सरस्यान्ते ब्रह्मज्ञानं प्रजायते

॥६०॥

ऋषय ऊचुः

साधुसाधु महाभाग ह्युपदेशः कृतो महान् ॥

तेन संतारिताः सर्वे वयं संसारसागरात्

॥६१॥

यास्यामोऽपि वयं तत्र सत्रे द्वादशवार्षिके ॥

समाप्तेऽस्मिन्न संदेहः सर्वे च कृतनिश्चयाः

॥६२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मज्ञानप्राप्त्यर्थं कुमारिकातीर्थद्वयगर्तक्षेत्रस्थपादुकामाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरशततमोऽध्यायः ॥ १९४ ॥