मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २१२

3
नागरखण्डः · 212

रत्नादित्यमाहात्म्यवर्णनम्

ऋषय ऊचुः

श्रुतं तीर्थत्रयं पुण्यं हाटकेश्वरसंज्ञिते ॥

क्षेत्रेऽत्र यत्त्वया प्रोक्तमस्माकं सूतनंदन

॥१॥

विश्वामित्रीयमाहात्म्यं श्रोतुमिच्छामहे वयम् ॥

सांप्रतं तत्समाचक्ष्व परं कौतूहलं हि नः

॥२॥

सूत उवाच

समुद्रस्यापि पारोऽत्र लक्ष्यते च क्षितेरपि ॥

तारकाणां मुनेस्तस्य न गुणानां द्विजोत्तमाः

॥३॥

लक्ष्यते केनचित्पारो गाधेः पुत्रस्य धीमतः ॥

क्षत्रियोऽपि द्विजत्वं यः संप्राप्तो द्विजसत्तमाः ॥

४ अंत्यजत्वं गतस्यापि त्रिशंकोः पृथिवीपतेः ॥

यज्ञभागभुजो देवाः प्रत्यक्षेण विनिर्मिताः

॥५॥

ब्रह्मणः स्पर्धया येन पुरा सृष्टिर्द्विजोत्तमाः ॥

प्रारब्धा च ततो देवैः प्रणिपत्य निवारितः

॥६॥

तस्य तीर्थस्य माहात्म्यं साप्रतं वदतो मम ॥

श्रूयतां ब्राह्मणश्रेष्ठाः सर्वपातकनाश नम्

॥७॥

तेन तत्र कृतं कुण्डं स्वहस्तेन महात्मना ॥

शस्त्रं विनापि भूपृष्ठं प्रविदार्य समंततः

॥८॥

तत्र ध्यात्वा समानीता पातालाज्जाह्नवी नदी ॥

मर्त्यलोके समायातं यस्यास्तोयं सुनिर्मलम्

॥९॥

सुस्वादु च तथा स्नानात्सर्वपातकनाशनम् ॥

तेनापि स्थापितस्तत्र भास्करो वारितस्करः

॥१०॥

यः सप्तम्यां सूर्यवारे स्नात्वा तस्य हृदे शुभे ॥

माघमासे सिते पक्षे नमस्यति दिवाकरम् ॥

स कुष्ठैर्मुच्यते सर्वैस्तथा पापैर्द्विजो त्तमाः

॥११॥

पश्चिमोत्तरदिग्भागे तस्यास्ति जलसंभवा ॥

धन्वंतरिकृता वापी सर्वरोगविनाशिनी

॥१२॥

तत्र पूर्वं तपस्तेपे धन्वं तरिरुदारधीः ॥

ववन्दे तपसा युक्तो ध्यायमानः समाहितः

॥१३॥

ततः कालेन महता संतुष्टस्तस्य भास्करः ॥

उवाच वरदोऽस्मीति प्रार्थयस्व महामते

॥१४॥

धन्वंतरिरुवाच

अत्र कुण्डे नरो भक्त्या यः स्नानं कुरुते विभो ॥

तस्य स्यात्सर्वरोगाणां संक्षयः सुरसत्तम

॥१५॥

श्रीभगवानुवाच

अद्य शस्ते दिने योऽत्र सप्तम्यां रविवासरे ॥

सूर्योदये नरः स्नानं करिष्यति समाहितः ॥

व्याधिग्रस्तः स नीरोगस्तत्क्षणात्संभविष्यति

॥१६॥

नीरोगश्चेप्सितान्कामान्निष्कामो मोक्षमेष्यति ।

एवमुक्त्वा सुरश्रे ष्ठोंऽतर्धानं स गतो रविः ॥

धन्वन्तरिः प्रहृष्टात्मा स्वस्थानं च गतस्ततः

॥१८॥

कस्यचित्त्वथ कालस्य रत्नाक्षोऽथ महीपतिः ॥

अयोध्याधि पतिः ख्यातः सूर्यवंशसमुद्भवः

॥१९॥

कृतज्ञश्च वदान्यश्च स्वदारनिरतः सदा ॥

शूरः परमतेजस्वी सर्वशत्रुनिषूदनः

॥२०॥

पूर्वकर्मविपाकेन तस्य भूमिपतेर्द्विजाः ॥

कुष्ठव्याधिरभूद्रौद्रो दुश्चिकित्स्यो जगत्त्रये

॥२१॥

तदस्ति नौषधं लोके यत्तेन न कृतं द्विजाः ॥

कुष्ठग्रस्तेन वा दानं यत्र दत्तं महात्मना

॥२२॥

यथायथौषधान्येव स करोति ददाति च ॥

तथातथा तस्य कायो व्याधिना क्षामितो भृशम्

॥२३॥

ततो वैराग्यमापन्नः स नृपो द्विजसत्तमाः ॥

पुत्रं राज्येऽथ संस्थाप्य वांछयामास पावकम् ॥

निषिद्धोऽपि हि तैः सर्वैः कलत्रैराप्तसेवकैः

॥२४॥

दत्त्वा दानानि विप्रेभ्यः पूजयित्वा सुरोत्तमान् ॥

संभाष्य च सुहृद्वर्गं शासयित्वा निजं सुतम्

॥२५॥

एतस्मिन्नेव काले तु भ्रममाणे यदृच्छया ॥

कश्चित्कार्पटिकः प्राप्तो दिव्यरूपवपुर्धरः

॥२६॥

अथासौ व्याकुलं दृष्ट्वा तत्सर्वं नृपतेः पुरम् ॥

अपृच्छद्विस्मयाविष्टो दृष्ट्वा कञ्चिन्नरं द्विजाः

॥२७॥

कार्पटिक उवाच

किमेषा व्याकुला भद्रे सर्वा जाता महापुरी ॥

निरानन्दाऽश्रुपूर्णाक्षैर्बालवृद्धैर्निषेविता

॥२८॥

सोऽब्रवीन्नृपतिश्चायं कुष्ठव्याधिसमन्वितः ॥

साधयिष्यति सन्दीप्तं सुनिर्विण्णो हुताशनम्

॥२९॥

तेनेयं नगरी कृत्स्ना परं दुःखमुपागता ॥

गुणैरस्य समाविष्टा नूनं मृत्युं प्रयास्यति

॥३०॥

तच्छ्रुत्वा सत्वरं गत्वा नृपं कार्पटिकोऽब्रवीत्

॥३१॥

सर्वं जनं नरेन्द्रस्य मृतं जीवापयन्निव ॥

मा नृपानेन दुःखेन व्याधिजेन हुताशनम् ॥

प्रविश त्वं स्थिते तीर्थे सर्वव्याधिक्षयावहे

॥३२॥

मदीयो भूपते देह ईदृगासीद्यथा तव ॥

तत्र स्नातस्य सद्योऽथ जात ईदृक्पुनः प्रभो

॥३३॥

सप्तम्यां सूर्यवारेण भास्करस्योदयं प्रति ॥

यस्तत्र कुरुते स्नानं व्याधिग्रस्तो नरो भुवि

॥३४॥

स व्याधिना विनि र्मुक्तस्तत्क्षणात्कल्पतां व्रजेत् ॥

तथा पापविनिर्मुक्तो यथाहं नृपसत्तम

॥३५॥

राजोवाच

कस्मिन्देशे महातीर्थं तादृशं वद मे द्रुतम्

॥३६॥

कार्पटिकउवाच

अस्ति भूमितले ख्यातं नागरं क्षेत्रमुत्तमम् ॥

कुष्ठव्याधिसमाक्रांतो गतोऽहं तत्र भूपते

॥३७॥

तस्य सन्दर्शनार्थाय तीर्थयात्रापरायणः ॥

तत्र मां दीनमालोक्य व्याधिग्रस्तं सुदुःखितम् ॥

कश्चित्तत्राश्रयः प्राह तपस्वी कृपयान्वितः

॥३८॥

पश्चिमोत्तरदिग्भागे देवस्य जलशायिनः ॥

तीर्थमस्ति महापुण्यं विश्वामित्रजलावहम्

॥३९॥

तत्र गत्वा कुरु स्नानं सप्तम्यां रविवासरे ॥

माघमासे तु संप्राप्ते शुक्लपक्षे विशेषतः

॥४०॥

येन निर्याति ते कुष्ठो भास्करस्योदयं प्रति ॥

तच्छ्रुत्वाऽहं च तत्प्राप्तः सप्तम्यां सूर्यसंयुजि ॥

ततश्च कृतवान्स्नानं निर्झरे तत्र शांभवे

॥४१॥

ततस्तस्माद्विनिष्क्रांतो यावत्पश्याम्यहं तनुम् ॥

तावन्नृपेदृशी जाता सत्यमेतत्तवोदितम्

॥४२॥

तस्मात्त्वमपि राजेंद्र तत्र स्नानं समाचर ॥

सप्तम्यां सूर्यवारेण भास्करस्योदयं प्रति

॥४३॥

येन ते नश्यति व्याधिर्विशेषमपि पातकम् ॥

तच्छ्रुत्वा स नृपस्तूर्णं तेनैव सहितो ययौ

॥४४॥

चकार स तथा स्नानं सप्तम्यां सूर्यवासरे ॥

माघमासे तु संप्राप्ते विश्वामित्रजले शुभे

॥४५॥

ततः कुष्ठविनिर्मुक्तस्तत्क्षणात्समपद्यत ॥

दिव्यरूपवपुर्द्धारी कामदेव इवापरः

॥४६॥

अथ तुष्टो नरेंद्रस्तु तस्मै कार्पटिकाय च ॥

ददौ कोटित्रयं हेम्नः प्रोवाच स ततो वचः

॥४७॥

त्वत्प्रसादाद्विमुक्तोऽस्मि रोगादस्मात्सुदारुणात् ॥

तस्मात्त्वं गच्छ गेहं स्वं स्थास्येऽहं चात्र निर्भरम्

॥४८॥

करिष्यामि तपो नित्यं स्वकलत्रसम न्वितः ॥

राज्ये संस्थापितः पुत्रः समर्थो राज्यकर्मणि

॥४९॥

इत्युक्त्वा प्रेरयामास तं तथान्यान्समागतान् ॥

सेवकास्वगृहायैव स्वयं तत्रैव संस्थितः

॥५०॥

कृत्वाऽऽश्रमपदं रम्यं स्वकलत्रसमन्वितः ॥

संप्राप्तश्च परां सिद्धिं कालेन द्विजसत्तमाः

॥५१॥

तस्य नाम्ना ततः ख्यातं तीर्थ मेतत्त्रिविष्टपे ॥

सर्वव्याधिहरं रम्यं सर्वपातकनाशनम्

॥५२॥

तेन संस्थापितस्तत्र देवदेवो दिवाकरः ॥

रत्नादित्य इति ख्यातो निजनाम्ना महा त्मना

॥५३॥

सप्तम्यां सूर्यवारेण तत्र स्नात्वा प्रपश्यति ॥

यस्तु पापविनिर्मुक्तः सूर्यलोकं स गच्छति

॥५४॥

यदन्यत्तत्र संवृत्तं क्षेत्रजातं द्विजो त्तमाः ॥

तदहं कीर्तयिष्यामि शृणुध्वं सुसमाहिताः

॥५५॥

आसीत्तत्र पुमान्कश्चिद्देशे ग्राम्यो जरात्मकः ॥

कुष्ठी तथापि नित्यं स करोति पशु रक्षणम्

॥५६॥

एकदा रक्षतस्तस्य पशूंस्तत्र गिरेरधः ॥

एकः पशुर्विनिष्क्रांतः सत्पथात्तृणलोभतः

॥५७॥

सप्तम्यां रविवारेण पतितस्तस्य निर्झरे ॥

न च संलक्षितस्तेन गच्छमानः कथंचन

॥५८॥

अथ यावद्गृहे सोऽथ भोजनाथं समुद्यतः ॥

तावत्तस्य पशोः स्वामी भर्त्सयन्समुपागतः

॥५९॥

नायातः स पशुः कस्मान्मदीयो मामके गृहे ॥

तस्मादानय तं शीघ्रं नो चेत्प्राणान्हरामि ते

॥६०॥

सूत उवाच

तच्छ्रुत्वा भय संत्रस्तः स कुष्ठी सत्वरं ययौ ॥

तेन मार्गेण येनैव दिवा भ्रांतो महीतले

॥६१॥

अथ दूरात्स शुश्राव तस्य रावं पशोस्तदा ॥

पतितस्य महागर्ते निशांते तमसि स्थिते

॥६२॥

ततो गत्वाऽथ तं गर्तं प्रविश्य जलमध्यतः ॥

चकर्ष तं पशुं कृच्छ्रात्पंकमध्यात्सुदारुणात् ॥

समादायाथ तं हर्म्यं प्रजगाम शनैःशनैः

॥६३॥

अर्पयित्वाथ तं तस्य स्वकीयं त्वाश्रमं गतः

॥६४॥

ततः सुप्तो महाभागाः स प्रबुद्धः पुनर्यदा ॥

प्रभाते वीक्षते गात्रं यावत्कुष्ठविवर्जितम्

॥६५॥

शोभया परया युक्तं विस्मयोत्फुल्ललोचनः ॥

चिंतयामास किं ह्येतदकस्माद्रोगसंक्षयः

॥६६॥

नूनं तस्य प्रभावोऽयं तीर्थस्याद्य निशागमे ॥

मयावगाहितं यच्च पशोरर्थं सुकर्द्दमम्

॥६७॥

ततश्च वीक्षयामास तेन गत्वा सुकौतुकात् ॥

यावत्कंडूविनिर्मुक्तस्तेजसा परिवारितः

॥६८॥

तत्र स्थाने स्वयं गत्वा ज्ञात्वा च तीर्थमुत्तमम् ॥

तपस्तेपे स तत्रैव ध्यायमानो दिवाकरम्

॥६९॥

अरण्यवासिनं सम्यग्दिवारात्रमतंद्रितः ॥

गतश्च परमां सिद्धिं दुर्लभां त्रिदशैरपि

॥७०॥

तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत्

॥७१॥

पूजयेच्चापि तं देवं भास्करं वारितस्करम् ॥

अद्यापि कलिकालेऽपि तत्र स्नातो नरः शुचिः

॥७२॥

तत्र पुण्यजले कुण्डे सप्तम्यां सूर्यवासरे ॥

यस्तं पूजयते भक्त्या सोऽपि पापैः प्रमुच्यते

॥७३॥

गायत्र्यष्टसहस्रं यो जपेत्तत्पुरतः स्थितः ॥

सोऽपि रोगविनिर्मुक्तो मुच्यते सर्वपातकैः

॥७४॥

तस्योद्देशेन यो दद्याद्धेनुं श्रद्धासमन्वितः ॥

न तस्यान्वयजातोऽपि व्याधिना परिगृह्यते

॥७८५॥

एतद्वः सर्वमाख्यातं मयादित्यस्य संभवम् ॥

माहात्म्यं श्रवणाद्यस्य नरः पापाद्विमुच्यते

॥७६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये रत्नादित्यमाहात्म्यवर्णनंनाम द्वादशोत्तरद्विशततमोऽध्यायः ॥ २१२ ॥