मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ८१

3
नागरखण्डः · 81

ममास्ति दयितं मित्रं ब्राह्मणो भृगुवंशजः

श्रीगरुड उवाच

ममास्ति दयितं मित्रं ब्राह्मणो भृगुवंशजः ॥

तस्यास्ति माधवीनाम कन्या कमललोचना

॥१॥

न तस्याः सदृशः कांतः प्राप्तस्तेन महात्मना ॥

यतस्ततोऽहमादिष्टः कांतमस्यास्त्वमानय ॥

अनुरूपं द्विजश्रेष्ठ यद्यहं संमतस्तव

॥२॥

ततो मयाऽखिला भूमिस्तद्वरार्थं विलोकिता ॥

न तदर्थं वरो लब्धः सर्वैः समुचितो गुणैः

॥३॥

ततस्त्वं पुण्डरीकाक्ष मम चित्ते व्यवस्थितः ॥

अनुरूपः पतिस्तस्याः सर्वैरेव गुणैर्युतः

॥४॥

तस्मात्पाणिग्रहं तस्याः स्वीकुरुष्व सुरेश्वर ॥

अत्यन्तरूपयुक्ताया मम वाक्यप्रणोदितः

॥५॥

भगवानुवाच

अत्रानय द्विजश्रेष्ठ तां कन्यां कमलेक्षणाम् ॥

येन दृष्ट्वा स्वयं पश्चात्प्रकरोमि यथोदितम्

॥६॥

गरुड उवाच

तव तेजोभयादेव सा कन्या जनकान्विता ॥

मया दूरे विनिर्मुक्ता तत्कथं तामिहानये

॥७॥

श्रीभगवानुवाच

अत्र तां मम तत्तेजो जनकेन समन्विताम् ॥

न हि धक्ष्यति तस्मात्त्वं शीघ्रं द्विजवराऽऽनय

॥८॥

एवमुक्तस्ततस्तेन विष्णुना प्रभविष्णुना ॥

तां कन्या मानयामास तं च विप्रभृगूद्वहम्

॥९॥

अथासौ प्रणिपत्योच्चैर्ब्राह्मणो मधुसूदनम् ॥

लक्ष्मीवन्न्यविशत्पार्श्वे गरुडस्य समीपतः

॥१०॥

सापि कन्या वरारोहा बाल्यभावादनिन्दिता ॥

शय्यैकांते समाविष्टा दक्षिणे मुरविद्विषः

॥११॥

अथ कोपपरीतांगी महिष्याधर्ममाश्रिता ॥

लक्ष्मीः शशाप तां कन्यां सपत्नीति विचिन्त्य च

॥१२॥

यस्मान्मे पुरतः पापे कांतस्य मम हर्षिता ॥

शय्यायां त्वं समाविष्टा लज्जां त्यक्त्वा सुदूरतः ॥

तस्मादश्वमुखी नूनं विकृता त्वं भविष्यसि

॥१३॥

एवं शापे श्रिया दत्ते हाहाकारो महानभूत् ॥

सर्वेषां तत्र संस्थानां कोपश्चापि द्विजन्मनः

॥१४॥

ब्राह्मण उवाच

सहस्रं याच्यते कन्या करोत्येकः करग्रहम् ॥

वाङ्मात्रेण न तस्याः स्यात्पत्नीभावः कथंचन

॥१९॥

यावन्नाग्निद्विजातीनां प्रत्यक्षं गुरुसंनिधौ ॥

ससंकल्पं स्वयं दत्ता गृह्योक्तविधिना जनैः

॥१६॥

तस्मात्तद्दोषनिर्मुक्ता सपत्न्येषा समा त्वया ॥

कृता वाजिमुखी पापे त्वं गजास्या भविष्यसि

॥७॥

एवमुक्त्वा स विप्रेंद्रस्ततः प्रोवाच केशवम् ॥

आतिथ्यं विहितं ह्येतत्तव पत्न्या यथोचितम् ॥

तस्मात्तत्र प्रयास्यामि यत्र स्यात्तादृशी सुता

॥१८॥

श्रीभगवानुवाच

न सन्तापस्त्वया कार्यः कृत्येस्मिन्द्विजसत्तम ॥

ममांतिके प्रयातानां नाशुभं जायते क्वचित्

॥१९॥

तस्मान्नाश्वमुखी ह्येषा जन्मन्यस्मिन्भविष्यति ॥

गृहीत्वेमां गृहं गच्छ प्रयच्छ स्वेप्सिताय च

॥२०॥

शयने वामदिग्भागः कलत्राणामुदाहृतः ॥

दक्षिणे बन्धुलोकानां तत्कालोचितशायिनाम्

॥२॥

सेयं तव सुता विप्र बंधुस्थानं समाश्रिता ॥

भविष्यति ततो जामिः कनिष्ठा मेऽन्यजन्मनि

॥२२॥

अवतीर्णस्य भूपृष्ठे देवकार्येण केनचित् ॥

वाजिवक्त्रधरा प्रोक्ता यद्येषा मम कांतया

॥२३॥

ततोऽहं सुमहत्कृत्वा तपश्चैवानया सह ॥

करिष्यामि शुभास्यां च तथा लक्ष्मीमपि द्विज

॥२४॥

एवं स भगवान्विप्रं तं सन्तोष्य तदा गिरा ॥

गरुडेन समं चक्रे कथाश्चित्रा मनोरमाः

॥२५॥

अथ तस्मिन्कथांते स गरुडः पुरुषोत्तमम् ॥

प्रोवाच तां स्त्रियं दृष्ट्वा वृद्धां तेजःसमन्विताम्

॥२६॥

अपूर्वेयं सुरश्रेष्ठ स्त्री वृद्धा तव पार्श्वगा ॥

किमर्थं केयमाख्याहि कुतः प्राप्ता जनार्दन

॥२७॥

श्रीभगवानुवाच

एषा ख्याता खगश्रेष्ठ लोकेऽस्मिन्वृद्धकन्यका ॥

शांडिलीनाम सर्वज्ञा ब्रह्मचर्यपरायणा

॥२८॥

तपोवीर्यसमोपेता सर्वदेवाभिवंदिता ॥

नास्ति वै चेदृशी नारी खगेन्द्रात्र जगत्त्रये

॥२९॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा विहस्य विहगाधिपः ॥

प्रोवाच वासुदेवं च तां विलोक्य चिरं द्विजाः

॥३०॥

गरुड उवाच

नैतच्चित्रं तपो यच्च क्रियते सुमहत्तरम् ॥

यथा च दीयते दानं यच्च तत्रास्ति चाद्भुतम् ॥

तथा च क्रियते युद्धं संग्रामे युद्धशालिभिः

॥३१॥

नाश्चर्यं चित्रमेतच्च ब्रह्मचर्यं तदद्भुतम् ॥

विशेषाद्यौवनावस्थां संप्राप्य पुरुषोत्तम

॥३२॥

विशेषेण च नारीभिरत्र न श्रद्दधाम्यहम् ॥

अवश्यं यौवनस्थेन तिर्यग्योनिगतेन च

॥३३॥

विकारः खलु कर्तव्यो नाधि काराय यौवनम् ॥

यदि न प्राप्नुवंत्येताः पुरुषं योषितः क्वचित्

॥३४॥

अन्योन्यं मैथुनं चक्रुः कामबाणप्रपीडिताः ॥

कुष्ठिनं व्याधितं वापि स्थविरं व्यंगमेव च ॥

अप्येताः पुरुषाभावे मन्यंते पंचसायकम्

॥३५॥

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ॥

नांतकः सर्वभूतानां न पुंसां वामलोचना

॥३६॥

न परत्र भयादेता मर्यादां विदधुः स्त्रियः ॥

मुक्त्वा भूपभयं चैकमथवा गुरुजं भयम्

॥३७॥

सूत उवाच

एवं तस्य वचः श्रुत्वा शांडिली ब्रह्मचारिणी ॥

मौनव्रतधराऽप्येवं हृदि कोपं दधार सा

॥३८॥

एतस्मिन्नंतरे तस्य पक्षिनाथस्य तत्क्षणात् ॥

उभौ पक्षौ गतौ नाशं रुण्डाकारोऽत्र सोऽभवत्

॥३९॥

मांसपिंडमयो रौद्रः सर्वरोगविवर्जितः ॥

अशक्तश्च तथा गन्तुं पदमात्रमपि क्वचित्

॥४०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णपक्षपातवर्णनंनामैकाशीतितमोऽध्यायः ॥ ८१ ॥