श्राद्धार्हानर्हब्राह्मणादिवर्णनम्
भर्तृयज्ञ उवाच
श्राद्धार्हैर्ब्राह्मणैः कार्यं श्राद्धं दर्शे तु पार्वणम् ॥
विपरीतं न कर्तव्यं श्राद्धमेकं कथंचन
॥१॥जारजातापविद्धाद्यैर्यो नरः श्राद्धमाचरेत् ॥
ब्राह्मणैस्तु न संदेहस्तच्छ्राद्धं व्यर्थतां व्रजेत्
॥२॥आनर्त उवाच
भयं मे सुमहज्जातमत्र यत्परिकीर्तितम् ॥
जारजातापविद्धैस्तु यच्छ्राद्धं व्यर्थतां व्रजेत्
॥३॥मनुना द्वादश प्रोक्ताः किल पुत्रा महामते ॥
अपुत्राणां च पुत्रत्वं ये कुर्वंति सदैव हि
॥४॥औरसः क्षेत्रजश्चैव क्रयक्रीतश्च पालितः ॥
प्रतिपन्नः सहोढश्च कानीनश्चापि सत्तम
॥५॥तथान्यौ कुण्डगोलौ च पुत्रावपि प्रकीर्तितौ
॥६॥शिष्यश्च रक्षितो मृत्योस्तथाश्वत्थो वनांतिगः ॥
किमेते नैव कथिता यत्त्वमेवं प्रजल्पसि
॥७॥भर्तृयज्ञ उवाच
सत्यमेतन्महाभाग सर्वे ते धर्मतः सुताः ॥
परं युगत्रये प्रोक्ता न कलौ कलुषापहाः
॥८॥तदर्थं तेषु सन्तानं तावन्मात्रं युगेयुगे ॥
सत्त्वाढ्यानां च लोकानां न कलौ चाल्पमेधसाम्
॥९॥कलावेव समाख्यातो व्यवहारः प्रपा तदः ॥
अल्पसत्त्वा यतो लोकास्तेन चैष विधिः स्मृतः
॥१०॥अत्र यः संकरं कुर्याद्योनेस्तस्य फलं शृणु ॥
ब्राह्मण्यां ब्राह्मणात्पुत्रो ब्रह्मघ्नः संप्रजायते
॥११॥सर्वाधमानामधमो यो वारड इति स्मृतः
॥१२॥क्षत्रियाच्च तथा सूतो वैश्यान्मागध एव च ॥
शूद्रात्तथांत्यजः प्रोक्तस्तेनैते वर्जिताः सुताः
॥१३॥एतेषामपि निर्दिष्टाः सप्त राजन्सुपुत्रकाः ॥
पंच वंशविनाशाय पूर्वेषां पातनाय च
॥१४॥औरसः प्रतिपन्नश्च क्रीतः पालित एव च ॥
शिष्यश्च दत्तजीवश्च तथाश्वत्थश्च सप्तमः
॥१५॥पुंनाम्नो नरकाद्घोराद्रक्षंति च सदा हि ते ॥
पतन्तं पुरुषं तत्र तेन ते शोभनाः स्मृताः
॥१६॥क्षेत्रजश्च सहोढश्च कानीनः कुण्डगोलकौ ॥
पंचैते पातयंतिस्म पितॄन्स्वर्गगतानपि
॥१७॥एतस्मात्कारणाच्छ्राद्धं जारजातस्य तद्वृथा
॥१८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे श्राद्धार्हानर्हब्राह्मणादिवर्णनंनाम त्रयोविंशत्युत्तरशततमोऽध्यायः ॥ २२३ । ॥