मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ९२

3
नागरखण्डः · 92

अग्नितीर्थस्य माहात्म्यमेतद्वः परिकीर्तितम्

सूत उवाच

अग्नितीर्थस्य माहात्म्यमेतद्वः परिकीर्तितम् ॥

ब्रह्मकुंडसमुत्पत्तिरधुना श्रूयतां द्विजाः

॥१॥

यदा संस्थापितो ब्रह्मा मार्कंडेन महात्मना ॥

तदा विनिर्मितं तत्र कुण्डं शुचिजलान्वितम्

॥२॥

प्रोक्तं च कार्तिके मासि कृत्तिकास्थे निशाकरे ॥

सम्यग्भीष्मव्रतं कृत्वा स्नात्वात्र सलिले शुभे

॥३॥

पूजयिष्यति यो देवं पद्मयोनिं ततः परम् ॥

स शूद्रोऽपि तनुं त्यक्त्वा ब्रह्मयोनौ प्रयास्यति

॥४॥

ब्राह्मणोऽपि यदि स्नानं तत्र कुण्डे करिष्यति ॥

कृत्वा भीष्मव्रतं सम्यग्ब्रह्मलोकं प्रयास्यति

॥५॥

एवं प्रवदतस्तस्य मार्कंडेयस्य सन्मुनेः ॥

श्रुतं तत्सकलं वाक्यं पशुपालेन केनचित्

॥६॥

ततः श्रद्धाप्रयुक्तेन तेन तद्भीष्मपंचकम् ॥

यथावद्विहितं सम्यक्कार्तिके मासि संस्थिते

॥७॥

ततश्च कृत्तिकायोगे पूर्णिमायां यथाविधि ॥

संपूज्य पद्मजं पश्चात्पूजितः पुरुषोत्तमः

॥८॥

ततः कालविपाकेन स पंचत्वमुपागतः ॥

ब्राह्मणस्य गृहे जातः पुरेऽत्रैव द्विजोत्तमाः ॥

जातिस्मरः प्रभायुक्तः पितृमातृप्रतुष्टिदः

॥९॥

एवं प्रगच्छतस्तस्य वृद्धिं तत्र पुरोत्तमे ॥

पितृमातृसमुद्भूतो यादृक्स्नेहो व्यवस्थितः

॥१०॥

अन्यदेहोद्भवे वापि तस्य शूद्रेपरिस्थितः ॥

स तस्य धनसंपन्नः सदैव कुरुते द्विजः

॥११॥

उपकारप्रदानं च यत्किंचित्तस्य संमतम् ॥

अन्यस्मिन्दिवसे शूद्रः स पिता पूर्वजन्मनः ॥

तस्य पञ्चत्वमापन्नः संप्राप्ते चायुषः क्षये

॥१२॥

अथ तस्य महाशोकं स कृत्वा तदनंतरम् ॥

चकार प्रेतकार्याणि निःशेषाणि प्रभक्तितः

॥१३॥

अथ तस्य समालोक्य तादृशं तद्विचेष्टितम् ॥

पृष्टः स कौतुकाविष्टैः पितृमातृसुतादिभिः

॥१४॥

कस्मात्त्वमस्य नीचस्य पशुपालस्य सर्वदा ॥

अतिस्नेहसमायुक्तो निःस्पृहस्यापि शंस नः

॥१५॥

तस्यापि प्रेतकार्याणि मृतस्यापि करोषि किम् ॥

एतन्नः सर्वमाचक्ष्व न चेद्गुह्यं व्यवस्थितम्

॥१६॥

तेषां तद्वचनं श्रुत्वा किंचिल्लज्जासमन्वितः ॥

तानब्रवीच्छृणुध्वं च कथयिष्याम्यसंशयम्

॥१७॥

अहमस्यान्यदेहत्वे पुत्र आसं सुसंमतः ॥

पशुपालनकर्मज्ञः प्राणेभ्यो वल्लभः सदा

॥१८॥

कस्यचित्त्वथ कालस्य मार्कंडस्य महामुनेः ॥

श्रुतं प्रवदतो वाक्यं ब्रह्मकुण्डसमुद्भवम्

॥१९॥

कार्तिक्यां कृत्तिकायोगे भीष्मपञ्चककृन्नरः ॥

सम्यक्छ्रद्धासमुत्पन्नो योऽत्र स्नानं करिष्यति

॥२०॥

दृष्ट्वा पितामहं देवं पूजयित्वा जनार्दनम् ॥

स भविष्यति शूद्रोऽपि ब्राह्मणश्चान्यजन्मनि

॥२१॥

तन्मया विहितं सम्यक्स्नात्वा तत्र शुभावहे ॥

सुकुण्डे कार्तिके मासि तेन जातोऽस्मि सद्द्विजः

॥२२॥

चन्द्रोदयस्य विप्रर्षेरन्वये भुवि विश्रुते ॥

संस्मरन्पूर्विकां जाति तेन स्नेहो मम स्थितः ॥

तस्योपरि महान्नित्यं शूद्रस्यापि निरर्गलः

॥२३॥

अतोऽहं कृत्तिकायोगे कार्तिक्यां भक्तिसंयुतः ॥

ज्ञात्वा करोमि भीष्मस्य पंचकं व्रतमुत्तमम्

॥२४॥

सूत उवाच

एवं तस्य वचः श्रुत्वा ते चान्ये च द्विजोत्तमाः ॥

भीष्मस्य पञ्चकं चक्रुः सम्यक्छ्रद्धासमन्विताः

॥२५॥

ततःप्रभृति तत्कुण्डं विख्यातं धरणीतले ॥

स्थितमुत्तरदिग्भागे ब्रह्मकुण्डमिति स्मृतम्

॥२६॥

यः स्नानं सर्वदा तत्र ब्राह्मणः प्रकरोति वै ॥

स संभवति विप्रेंद्रो जायमानः पुनः पुनः

॥२७॥

इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ब्रह्मकुण्डमाहात्म्यवर्णनंनाम द्विनवतितमोध्यायः ॥ ९२ ॥