एवं राज्यं परित्यज्य विश्वामित्रो द्विजोत्तमाः
सूत उवाच
एवं राज्यं परित्यज्य विश्वामित्रो द्विजोत्तमाः ॥
हिमवन्तं नगं प्राप्य तपश्चक्रे सुदारुणम्
॥१॥वर्षास्वाकाशशायी च हेमंते सलिलाशयः ॥
पञ्चाग्निसाधको ग्रीष्मे स्थितो वर्षशतत्रयम्
॥२॥फलमूलकृताहारस्ततो वर्षशतत्रयम् ॥
ध्यायमानः परं ब्रह्म स्थितो ब्राह्मणसत्तमाः ॥
शीर्णपर्णाशनः पश्चात्तावत्कालं व्यवस्थितः
॥३॥ततश्चैव जलाहारस्तावन्मात्रं व्यवस्थितः ॥
कालं स वायुभक्षश्च ततश्चैवायुतं समाः ॥
सूत उवाच ॥
अथ दृष्ट्वा तपःशक्तिं तस्य तां त्रिदशाधिपः।
पातायष्यति मां नूनमेष स्थानान्नृपोत्तमः
॥५॥ततः प्रोवाच संगत्य साम्ना परमवल्गुना ॥
विश्वामित्रं नृपश्रेष्ठं भयेन महताऽन्वितः
॥६॥इंद्र उवाच
विश्वामित्र प्रतुष्टोऽस्मि तपसानेन पार्थिव ॥
वरं वरय भद्रं ते यदभीष्टं हृदिस्थितम्
॥७॥विश्वामित्र उवाच
ब्राह्मण्यं देहि मे शक्र यदि तुष्टोऽसि सांप्रतम् ॥
तदर्थं तपसश्चर्यां जानीहि त्वं पुरंदर
॥९॥इंद्र उवाच
अनेनैव शरीरेण क्षत्रियः स्यात्कथं द्विजः ॥
चतुर्विंशतिसंस्कारैर्द्विगुणैर्यःप्रजायते ॥
तदन्यत्प्रार्थय क्षिप्रं यत्तेऽभीष्टतरं स्थितम्
॥९॥विश्वामित्र उवाच
न ब्राह्मण्यात्परं किंचित्प्रार्थयामि सुरेश्वर
॥१०॥अपि त्रैलोक्यराज्यं ते वस्तुष्वन्येषु का कथा ॥
तस्माद्गच्छ सुरश्रेष्ठ स्वराज्यं परिपालय
॥११॥परित्यक्ष्याम्यहं देहं यास्ये वाऽहं द्विजन्मताम् ॥
तच्छ्रुत्वा वचनं तस्य देवराजो दिवं गतः
॥१२॥तस्य तं निश्चयं ज्ञात्वा सर्वदेवसमावृतः ॥
विश्वामित्रोऽपि तद्रूपं चकार दुश्चरं तपः
॥१३॥अथ वर्षसहस्रे तु व्यतिक्रान्ते द्विजोत्तमाः ॥
अन्यस्मिन्वायुभक्षस्य विश्वामित्रस्य भूपतेः
॥१४॥आजगाम स्वयं ब्रह्मा पुण्यैर्देवर्षिभिः सह ॥
अब्रवीत्तं महीपालं तपसा दग्धकिल्बिषम्
॥१५॥श्रीब्रह्मोवाच
विश्वामित्र प्रतुष्टोऽस्मि तपसानेन सत्तम ॥
वरं वरय भद्रं ते प्रदास्याम्यपि दुर्लभम्
॥१६॥विश्वामित्र उवाच
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
ब्राह्मण्यं देहि मे देव नान्यदिष्टतमं महत्
॥१७॥ब्रह्मोवाच
क्षत्रियेण प्रजातस्य द्विजत्वं जायते कथम् ॥
श्रुतिस्मृतिविरुद्धं हि किमेवं वदसीप्सितम्
॥१८९॥यन्न जातं धरापृष्ठे न भविष्यति कर्हिचित्
॥१९॥विश्वामित्र उवाच
गच्छ त्वं देवदेवेश ब्रह्मलोकमनुत्तमम् ॥
अहं त्यक्ष्यामि वा प्राणान्संप्राप्स्ये वा द्विजन्मताम्
॥२०॥अथ देवर्षिमध्यस्थ ऋचीको वाक्यमब्रवीत् ॥
अस्य जन्मकृते देव ब्राह्म्यैर्मंत्रैर्मया चरुः
॥२१॥अभितो ब्रह्मसर्वस्वं तत्र सयोजितं मया ।
तेनैव क्षत्रजन्माऽयं ब्राह्मणश्चतुरानन
॥२२॥ब्रह्मर्षिकीर्तयस्वैनं तस्मात्त्वं प्रपितामह ॥
राज्यस्थोऽपि द्विजार्हाणि सत्कृत्यान्य करोदसौ
॥२३॥ब्राह्ममन्त्रप्रभावेन तस्माद्ब्रह्मर्षिमाह्वय ॥
येन कीर्तामहे सर्वे विश्वामित्रं द्विजोत्तमम् ॥
अथ ब्रह्मा चिरं ध्यात्वा ब्राह्म्यै र्मंत्रैश्च तेजसा ॥
समुत्पन्नं ततः प्राह ब्राह्मणस्त्वं मया कृतः
॥२५॥त्यजेदं दुष्करं घोरं तपो मद्वचनाद्द्रुतम् ॥
स यदा ब्रह्मणा प्रोक्तो ब्रह्मर्षि स्त्वमसंशयम्
॥२६॥ऋचीकाद्यैस्ततः सर्वैः प्रोक्तो देवर्षिभिस्तथा
॥२७॥अथ तेषां मध्यगतो वसिष्ठो मुनिसत्तमः ॥
सोऽब्रवीत्कोपसंयुक्तो नाहं वक्ष्यामि कर्हिचित्
॥२८॥ब्राह्मणं क्षत्रियाज्जातं जानन्नपि पितामह ॥
ऋचीकस्य च दाक्षिण्यात्तथा त्वं वदसि प्रभो
॥२९॥प्रोच्यमानो ऽपि बहुधा वसिष्ठो मुनिसत्तमः ॥
पितामहेन मुनिभिर्नारदाद्यैरनेकधा ॥
जगामाथ परित्यज्य तान्सर्वान्द्विजसत्तमान्
॥३०॥स चागत्य मुनि श्रेष्ठो देशं चानर्तसंज्ञितम् ॥
हाटकेश्वरजे क्षेत्रे शंखतीर्थसमीपतः
॥३१॥यत्र ब्रह्मशिला पुण्या श्वेतद्वीपसमन्विता ॥
सरस्वती स्थिता यत्र नदी पापहरा शुभा
॥३२॥तत्राश्रमपदं कृत्वा चकार विपुलं तपः ॥
विश्वामित्रोऽपि सामर्षस्तद्वधार्थं समागतः
॥३३॥तस्याश्रमस्य दूरे स याम्यां दिशि समाश्रितः ॥
कृत्वाश्रमपदं तत्र तस्य च्छिद्राणि चिन्तयन्
॥३४॥संस्थितः सुचिरं कालं न च पश्यति किंचन ॥
अथाभिचारिकं तेन प्रारब्धं तस्य चोपरि
॥३५॥यदुक्तं सामविधिना सामवेदे वधात्मकम् ॥
तस्य तैर्दारुणैर्मंत्रैर्जुह्वतो जातवेदसम्
॥३६॥निष्क्रांता दारुणा शक्तिर्मुक्तकेशी भयानका ॥
वानरस्कंधमारूढा कुर्वाणा किल्किलाध्वनिम्
॥३७॥नानायुधसमोपेता यमजिह्वा यथा परा ॥
साब्रवीद्वद विप्रेंद्र किं ते कृत्यं करोम्यहम्
॥३८॥त्रैलोक्यमपि कृत्स्नं च संहरामि तवाज्ञया
॥३९॥विश्वामित्र उवाच
मम शत्रुर्मान्यो त्र वसिष्ठः कुमुनिः स्थितः।
तं त्वं जहि द्रुतं गत्वा तदर्थं च मया कृता
॥४०॥एवमुक्ता तु सा तेन विश्वामित्रेण धीमता।
वसिष्ठाश्रममुद्दिश्य प्रस्थिता चोत्तरामुखी
॥४१॥एतस्मिन्नेव काले तु वसिष्ठस्याश्रमे द्विजाः।
दुर्निमित्तानि जातानि प्रभूतानि महांति च
॥४२॥पपात महती चोल्का निहत्य रविमण्डलम् ॥
तथा रुधिरवृष्टिश्च अस्थिमिश्रा व्यजायत
॥४३॥दीप्तां दिशं समासाद्य रुरोद च तथा शिवा।
तां दृष्ट्वा सुमहोत्पातान्वसिष्ठो मुनिपुंगवः
॥४४॥यावदालोकते रूपं ज्वालामालासमाकुलम् ॥
ततः सम्यक्परिज्ञाय सर्वं दिव्येन चक्षुषा
॥४५॥विश्वामित्रप्रयुक्तेयं शक्तिर्मम वधाय च ॥
कृत्या रूपा सुमंत्रैश्च सामवेदसमुद्भवैः
॥४६॥तिष्ठतिष्ठेति तेनोक्ता ततः सा निश्चलाभवत् ॥
निजमंत्रैश्च सा तेन स्तंभिताथर्वणोद्भवैः
॥४७॥ततः स्त्रीरूपमादाय प्रोवाच मुनिपुंगवम् ॥
सामवेदस्तु वेदानां प्राधान्येन व्यवस्थितः ॥
. विधिना तेन संसृष्टा विश्वामित्रेण धीमता ॥
मा कुरुत्वप्रमाणंतु प्रहारं सह मे मुने ॥
रक्षयिष्यामि ते प्राणान्स्वल्पस्पर्शेन ते मुने
॥४९॥वसिष्ठ उवाच
यद्येवं कुरु मे स्पर्शं न मर्म स्पर्शनं शुभे ॥
मया चाथर्वणा मंत्राः संहृताः कृपया तव
॥५०॥ततः सा दारुणा शक्तिर्विश्वामित्रप्रयोजिता ॥
तस्यांगदेशं स्पृष्ट्वाथ निपपात धरातले
॥५१॥ततस्तुष्टो वसिष्ठस्तु तामाह मधुरं वचः ॥
अद्यप्रभृति ते पूजां करिष्यंति समाहिताः ॥
जनाः सर्वे महाभागे भक्त्या परमया युताः
॥५२॥चैत्रमासे सिते पक्षे अष्टमीदिवसे स्थिते ॥
ये ते पूजां करिष्यंति श्रद्धया परया युताः
॥५३॥ते सर्वे वत्सरंयावद्भवि ष्यंति निरामयाः ॥
तस्मादत्रैव स्थातव्यं सदैव मम वाक्यतः
॥५४॥सूत उवाच
एवमुक्ता च सा तेन वसिष्ठेन महात्मना ॥
स्थिता तत्रैव सा देवी तस्य वाक्येन तत्क्षणात्
॥५५॥प्राप्नोति परमां पूजां विशेषान्नागरैः कृताम् ॥
धारानामेति विख्याता भक्तलोकसुख प्रदा
॥५६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये धारोत्पत्तिमाहात्म्यवर्णनंनामाष्ट षष्ट्युत्तरशततमोऽध्यायः ॥ १६८ ॥