मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २२०

3
नागरखण्डः · 220

गजच्छायामाहात्म्यवर्णनम्

आनर्त उवाच

त्रयोदश्यां कृते श्राद्धे कस्माद्वंशक्षयो भवेत् ॥

एतन्मे सर्वमाचक्ष्व विस्तरात्त्वं महा मुने ॥

भर्तृयज्ञ उवाच ॥

एषा मेध्यतमा राजन्युगादिः कलिसंभवा ॥

स्नाने दाने जपे होमे श्राद्धे ज्ञेया तथाऽक्षया

॥२॥

अस्यां चेत्तु गजच्छाया तिथौ राजन्प्रजायते ॥

तदाऽक्षयं मघायोगे श्राद्धं संजायते ध्रुवम्

॥३॥

यः क्षीरं मधुना युक्तं तस्मिन्नहनि यच्छति ॥

पितॄनुद्दिश्य यो मांसं दद्याद्वाध्रीणसं च यः

॥४॥

वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥

त्रिःपिबंत्विंद्रियक्षीणं श्वेतं वृद्धमजापतिम्

॥५॥

तं तु वाध्रीणसं विद्यात्सर्वयूथाधिपं तथा ॥

खड्गमांसं च वा दद्यात्तृप्तिर्द्वादशवार्षिकी ॥

संजायते न संदेहस्तेषां वाक्यं न मे मृषा

॥६॥

आसीद्रथंतरे कल्पे पूर्वं पार्थिवसत्तमः ॥

सिताश्वो नाम पांचालदेशीयःपितृभक्तिमान्

॥७॥

मधुना कालशाकेन खड्गमांसेन केवलम् ॥

स हि श्राद्धं त्रयोदश्यां कुरु ते पायसेन च

॥८॥

सोमवंशं समुद्दिश्य श्राद्धं यच्छति भक्तितः

॥९॥

अथ तैर्बाह्मणैः सर्वैः स भूयः कौतुकान्वितैः ॥

कस्यचित्त्वथ कालस्य पृष्टो भुक्त्वा यथेच्छया

॥१०॥

श्राद्धादनंतरं राजन्दृष्ट्वा तं श्रद्धयाऽन्वितम् ॥

पादावमर्द्दनपरं प्रणिपातपुरः सरम्

॥११॥

ब्राह्मणा ऊचुः

कृत्वा श्राद्धं महाराज प्रदातव्याऽथ दक्षिणा ॥

ब्राह्मणेभ्यस्ततः श्राद्धं पितॄणां चोपतिष्ठति

॥१२॥

सा त्वया कल्पिताऽस्माकं वितीर्णाद्यापि नो नृप।

कुप्याकुप्यं परित्यज्य तां देहि नृप मा चिरम्

॥१३॥

भर्तृयज्ञ उवाच

तच्छ्रुत्वा च नृपः प्राह संप्रहृष्टेन चेतसा ॥

धन्योऽस्म्यनुगृहीतोऽस्मि विप्रैरद्य न संशयः

॥१४॥

ये वांछंति ममाभीष्टं श्राद्धे भुक्त्वाऽथ पैतृके १।

तस्माद्ब्रूत महाभागा युष्मभ्यं किं ददाम्यहम्

॥१५॥

वर न्नागान्मदोन्मत्तान्भद्रजातिसमुद्भवान् ॥

किं वा सप्तिप्रधानांश्च मनोमारुतरंहसः

॥१६॥

किं वा स्थानानि चित्राणि ग्रामाणि नगराणि च ॥

पितॄनुद्दिश्य यत्किंचिन्नादेयं विद्यते यतः

॥१७॥

ब्राह्मणा ऊचुः

नास्माकं वाजिभिः कार्यं न रत्नैर्न च हस्तिभिः ॥

न देशैर्ग्राममुख्यैर्वा नान्येनापि च केनचित्

॥१८॥

यदर्थेन महाराज पृष्टोस्माभिर्यतो भवान् ॥

तस्मान्नो दक्षिणां देहि संदेहघ्नां तपोत्तम

॥१९॥

यां पृच्छामो वयं सर्वे कौतूहलसमाहिताः

॥२०॥

राजोवाच

उपदेशाधिकारोऽस्ति ब्राह्मणानां महात्मनाम् ॥

दातुं नैव ग्रहीतुं च नी चजात्यस्य वैदिकाः

॥२१॥

सोऽहं राजा न सर्वज्ञो यो यच्छामि द्विजोत्तमाः ॥

उपदेशं हि युष्मभ्यं सर्वज्ञेभ्यो विचक्षणाः

॥२२॥

ब्राह्मणा ऊचुः

गुरुशिष्यसमुत्थोऽयमुपदेशो महीपते ॥

प्रार्थयामो वयं किंचिन्मा भयं त्वं समाविश

॥२३॥

वयं च प्रश्नमेकं हि पृच्छामो यदि भूपते ॥

ब्रूषे कौतुकयुक्तानां सर्वेषां च द्विजन्मनाम्

॥२४॥

तस्माद्वद महाभाग यदि जानासि तत्त्वतः ॥

न चेद्गुह्यतमं किंचित्पृच्छामस्त्वां कुतूहलात्

॥२५॥

राजोवाच

यदि वः संशयो विप्रा युष्मत्प्रश्नमसंशयम् ॥

कथयिष्याभि चेद्गुह्यं तद्वद्ध्वं गप्ल? ज्वराः

॥२६॥

ब्राह्मणा ऊचुः

अन्नेषु च विचित्रेषु लेह्येषु विविधेषु च ॥

अमृतेष्वेषु सर्वेषु तथा पेयेषु पार्थिव

॥२७॥

तस्मादद्य दिने ब्रूहि मधु यच्छसि गर्हितम् ॥

वर्तते च यथाऽभक्ष्यं ब्राह्मणानां विशेषतः

॥२८॥

तथा विचित्र मासेषु संस्थितेषु नराधिप ॥

खङ्गमांसं निरास्वादं कस्माद्यच्छसि केवलम्

॥२९॥

संति शाकानि राजेन्द्र पावनीयानि सर्वशः ॥

सुष्ठु स्वादु कराण्यत्र व्यञ्जनार्थं महीपते

॥३०॥

कालशाकं सकटुकं मुखाऽऽधिजनकं महत् ॥

कस्माद्यच्छसि चास्माकं भक्त्या परमया युतः ॥

न श्राद्धे प्रतिषेधश्च प्रकर्तव्यः कथंचन

॥३१॥

न च त्याज्यं समुच्छिष्टं तेन भुंजामहे ततः ॥

तदत्र कारणेनैव गुरुणा भाव्यमेव हि ॥

येन त्वं यच्छसि प्राय एतत्सिद्धिर्भवेत्स्थिता

॥३२॥

तस्मात्कथय नः सर्वं परं कौतूहलं हि नः ॥

निःस्वादितं यथा दद्यादीदृक्छ्राद्धे विगर्हितम्

॥३३॥

यथा त्वं नृपशार्दूल श्रद्धया संप्रयच्छसि

॥३४॥

तच्छ्रुत्वा वचनं तेषां ब्राह्मणानां महात्मनाम् ॥

स वैलक्ष्यस्मितं प्राह सलज्जं पृथिवीपतिः

॥३५॥

गुह्यमेतन्महाभागा अस्माकं यदि संस्थितम् ॥

अवाच्यमपि वक्ष्यामि शृणुध्वं सुसमाहिताः

॥३६॥

अहमासं पुरा पापो लुब्धकश्चान्य जन्मनि ॥

निहंता सर्वजंतूनां तथा भक्षयिता पुनः

॥३७॥

पर्यटामि तदारण्ये धनुषा मृगयारतः ॥

सिंहो व्याघ्रो गजेन्द्रो वा शरभो वा द्विजो त्तमाः

॥३८॥

मद्बाणगोचरं प्राप्तो न जीवत्यपि कर्हिचित् ॥

कस्यचित्त्वथ कालस्य भ्रममाणो महीतले

॥३९॥

संप्राप्तोऽहं महाभागा अग्नि वेशस्य सन्मुनेः ॥

आश्रमे समनुप्राप्तो निशीथे क्षुत्पिपासितः

॥४०॥

तावत्तत्र सशिष्याणां श्राद्धकर्मविधिं वदन् ॥

संस्थितो वेष्टितः शिष्यैः समन्ताद्द्विजसत्तमाः

॥४१॥

अग्निवेश उवाच

ऋक्षे पित्र्ये यदा चन्द्रो हंसश्चापि करे व्रजेत् ॥

त्रयोदशी तु सा च्छाया विज्ञेया कुञ्जरोद्भवा

॥४२॥

पित्र्ये यदास्थितश्चेन्दुर्हंसश्चापि करे स्थितः ॥

तिथिर्वैश्रवणी या च सा च्छाया कुञ्जरस्य च

॥४३॥

सैंहिकेयो यदा चंद्रं ग्रसते पर्वसंधिषु ॥

हस्तिच्छाया तु सा ज्ञेया तस्यां श्राद्धं समाचरेत्

॥४४॥

तस्यां यः कुरुते श्राद्धं जलैरपि प्रभक्तितः ॥

यावद्द्वादश वर्षाणि पितरस्तस्य तर्पिताः

॥४५॥

वनस्पतिगते सोमे या च्छाया पूर्वतोमुखी ॥

गजच्छाया तु सा ज्ञेया पितॄणां दत्तमक्षयम्

॥४६॥

सा भवेच्च न सन्देहः पुण्यदा पैतृकी तिथिः ॥

तस्यां श्राद्धं प्रकर्तव्यं संभाराः संभृताश्च ये

॥४७॥

प्रभाते तु न सन्देहः पितॄणां परितृप्तये ॥

शाकैस्तथैंगुदैर्बिल्वैर्बदरैश्चिर्भटैरपि ॥

यदन्नं पुरुषोऽश्नाति तदन्नास्तस्य देवताः ॥

बाढमित्येव ते प्रोच्य गताः स्वंस्वं निकेतनम्

॥४९॥

सर्वे शिष्या महाभागाः नारायणपुरोगमाः ॥

अग्निवेश्योऽपि सुष्वाप समामन्त्र्य द्विजोत्तमान्

॥५०॥

तेन संकथ्यमानं च रात्रौ तच्च श्रुतं मया ॥

अहं चापि करिष्यामि प्रातः श्राद्धमसंशयम्

॥५१॥

निहत्य खड्गमादाय तस्य मांसं सुपुष्कलम् ॥

तथा मधु समादाय कालशाकं विशेषतः

॥५२॥

स्वजातीयेभ्य आदाय तर्पयिष्यामि तान्पितॄन्

॥५३॥

एवं निश्चित्य मनसा प्रसुप्तोऽहं द्विजोत्तमाः ॥

ततः प्रभाते विमले प्रोद्गते रविमण्डले

॥५४॥

मधुजालानि भूरीणि गृहीतानि मया ततः ॥

कालशाकं तथा लब्धं स्वेच्छया द्विजसत्तमाः

॥५५॥

ततः सर्वं समादाय श्रपितं तत्क्षणान्मया ॥

स्नात्वा च निजवर्गाणां पितॄनुद्दिश्य चात्मनः ॥

प्रदत्तं लुब्धकानां च भक्तिपूर्वं द्विजोत्तमाः

॥५६॥

एवं मया पुरा दत्तं पितॄ नुद्दिश्य तान्निजान् ॥

नान्यत्किंचिन्मया दत्तं कदाचित्कस्यचिद्विजाः

॥५७॥

ततः कालेन महता मृत्युं प्राप्तोऽस्म्यहं द्विजाः ॥

तद्दानस्य प्रभावेन पार्थिवीं योनिमाश्रितः

॥५८॥

एवं जातिस्मरत्वं च सञ्जातं मे द्विजोत्तमाः ॥

ते च मे तर्पितास्तेन खड्गमांसेन माक्षिकैः

॥५९॥

संप्राप्ताः परमां प्रीतिं ततो द्वाशवार्षिकीम् ॥

एतस्मात्कारणाच्छ्राद्धं प्रकरोमि द्विजोत्तमाः

॥६०॥

खड्गमांसेन मधुना कालशाकेन भूरिशः ॥

विधिहीनं द्विजैर्हीनं तिलदर्भैर्विवर्जितम्

॥६१॥

मया तद्विहितं श्राद्धं तस्यैतत्फलमागतम् ॥

सांप्रतं विधिना सम्यग्ब्राह्मणैर्वेदपारगैः

॥६२॥

उपविष्टैः करोम्येव यच्छ्राद्धं श्रद्धयान्वितः ॥

दर्भैस्तिलैः समोपेतं मन्त्रवच्च द्विजोत्तमाः

॥६३॥

नो जानामि फलं किं वा सांप्रतं च भविष्यति ॥

तस्मादेवं परिज्ञाय यूयं चैव द्विजोत्तमाः

॥६४॥

संतर्पयध्वं च पितॄन्निजान्गजदिने स्थिते ॥

छायायां चैव जातायां कुञ्जरस्य द्विजोत्तमाः

॥६५॥

येन संजायते तृप्तिः पितॄणां द्वादशाब्दिकी ॥

युष्माकं च गतिः श्रेष्ठा यथा जाता ममाधुना

॥६६॥

भर्तृयज्ञ उवाच

तस्य तद्वचनं श्रुत्वा सर्वे ते ब्राह्मणोत्तमाः ॥

संतुष्टाः साधुवादांश्च ददुस्तस्य महीपतेः

॥६७॥

ततःप्रभृति चक्रुस्ते श्राद्धानि द्विजसत्तमाः ॥

त्रयोदश्यां नभस्यस्य कृष्णायां भक्तितत्पराः

॥६८॥

मधुना कालशाकेन खड्गमांसेन तर्पिताः ॥

प्राप्नुवंति परां सिद्धिं विमानवरमास्थिताः

॥६९॥

स्पर्धंते सहिता दैवैः पितरश्च विशेषतः ॥

वंशजेन प्रदत्तस्य प्रभावात्सुरसत्तमाः

॥७०॥

श्राद्धार्थं संपरिज्ञाय मन्त्रं चक्रुः परस्परम् ॥

आदित्या वसवो रुद्रा नासत्यावपि पार्थिव

॥७१॥

यथा न भवति श्राद्धं तस्मिन्नहनि भूतले ॥

यत्प्रभावाद्वयं सर्वे मानुषैः श्राद्धमाश्रितैः ॥

न यामोऽभिभवस्थानं तस्माच्छप्स्यामहे च तान् ॥

१ अद्यप्रभृति यः श्राद्धं त्रयोदश्यां करिष्यति ॥

कन्यासंस्थे सहस्रांशौ तस्य स्याद्वंशसंक्षयः

॥७३॥

इति शापेन देवानां निर्दग्धेयं महातिथिः

॥७४॥

ततःप्रभृति नैतस्या क्रियते श्राद्धमुत्तमम् ॥

यः प्रमादेन कुरुते तस्य स्याद्वंश संक्षयः

॥७६॥

येन भीता न कुर्वंति च्छायायां कुञ्जरस्य च ॥

विशेषेण गजच्छाये तत्र पिण्डोऽयमाहृतः

॥७३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे गजच्छायामाहात्म्यवर्णनंनाम विंशत्युत्तरद्विशत तमोऽध्यायः ॥ २२० ॥