मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २३

3
नागरखण्डः · 23

तस्यैव पश्चिमे भागे मृगतीर्थमनुत्तमम्

सूत उवाच

तस्यैव पश्चिमे भागे मृगतीर्थमनुत्तमम् ॥

अस्ति पुण्यतमं ख्यातं समस्ते धरणीतले ॥

तत्र ये मानवास्तीर्थे सम्यक्छ्रद्धासमन्विताः ॥

चैत्रशुक्लचतुर्दश्यां स्नानं कुर्वंतिभास्करे

॥२॥

मध्ये स्थिते न ते यांति तिर्यग्योनौ कथंचन ॥

अपि पापसमोपेता दोषैः सर्वैः समन्विताः

॥३॥

कृतघ्ना नास्तिकाश्चौरा मर्यादाभेदकास्तथा ॥

स्नाता ये तत्र सत्तीर्थे ते यांति परमां गतिम् ॥

विमानवरमारूढाः स्तूयमानाश्च किंनरैः

॥४॥

ऋषय ऊचुः

मृगतीर्थं कथं तत्र संजातं सूतनंदन ॥

किं प्रभावं समाचक्ष्व परं कौतूहलं हि नः

॥५॥

सूत उवाच

पूर्वं तत्र महारण्ये नानामृगगणावृते ॥

नानाविहंगसंघुष्टे नानावृक्षसमाकुले

॥६॥

समायाता महारौद्रा लुब्ध काश्चापपाणयः ॥

कृष्णांगा भ्रममाणास्ते यमदूता इवाऽपरे

॥७॥

एतस्मिन्नंतरे दृष्टं मृगयूथं तरोरधः ॥

उपविष्टं सुविश्रब्धं तैस्तदा द्विज सत्तमाः

॥८॥

अथ ताँल्लुब्धकान्दृष्ट्वा दूरतोऽपि भयातुराः ॥

पलायनपराः सर्वे मृगा जग्मुर्द्रुतं ततः

॥९॥

अथ ते सन्निधौ दृष्ट्वा गंभीरं सलिलाशयम् ॥

प्रविष्टा हरिणाः सर्वे भयार्ताः शरपीडिताः

॥१०॥

ततस्तत्सलिलस्यांतस्ते मृगाः सर्व एव हि ॥

मानुषत्वमनुप्राप्तास्तत्प्रभावा द्द्विजोत्तमाः

॥११॥

अथ तान्मानुषीभूतान्पप्रच्छुर्लुब्धका मृगान् ॥

मृगयूथं समायातं मार्गेणानेन सांप्रतम् ॥

केन मार्गेण निर्यातं तस्माद्वदत मा चिरम्

॥१२॥

मानुषा ऊचुः

वयं ते हरिणाः सर्वे मानुषत्वं सुदुर्लभम् ॥

तीर्थस्याऽस्य प्रभावेन प्राप्ताः सत्यं न संशयः

॥१३॥

तच्छ्रुत्वा विस्मयाविष्टास्ततस्ते लुब्धका द्रुतम् ॥

त्यक्त्वा धनूंषि बाणांश्च स्नानं तत्र प्रचक्रिरे

॥४॥

स्नानमात्रात्ततः सर्वे दिव्यमाल्यानुलेपनाः ॥

दिव्यगात्रधरा सर्वे संजाताः पार्थिवोत्तमाः

॥१५॥

ऋषय ऊचुः

अत्याश्चर्यमिदं सूत यत्त्वया परिकीर्तितम् ॥

स्नानमात्रेण ते प्राप्ता लुब्धकास्तादृशं वपुः

॥१६॥

तथा मानुष्यमापन्ना मृगास्तोयावगाहनात् ॥

तत्कथं मेदिनीपृष्ठे तत्तीर्थं संबभूव ह

॥१७॥

सूत उवाच

लिंगभेदोद्भवं तोयं यत्पुरा वः प्रकीर्तितम् ॥

आच्छन्नं पांसुभिः कृत्स्नं वायुना शक्रशासनात्

॥१८॥

वल्मीकरंध्रमासाद्य तन्निष्क्रांतं पुनर्द्विजाः ॥

कालेन महता तत्र प्रदेशे स्वल्पमेव हि

॥१९॥

यत्र स्नातः पुरा सद्यस्त्रिशंकुः पृथिवीपतिः ॥

दिव्यं वपुः पुनः प्राप्त श्चंडालत्वेन संस्थितः

॥२०॥

एतस्मात्कारणात्तत्र स्नाताः सारंगलुब्धकाः ॥

सर्वे पापविनिर्मुक्ताः संप्राप्ताः परमं वपुः

॥२१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मृगतीर्थमाहात्म्यवर्णनंनामत्रयोविंशोऽध्यायः ॥ २३ ॥