मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ८२

3
नागरखण्डः · 82

सुपर्णेश्वराख्यमाहात्म्यवर्णनम्

सूत उवाच

तद्दृष्ट्वा पुंडरीकाक्षो गरुडस्य विचेष्टितम् ॥

विस्मितश्चिंतयामास किमिदं सांप्रतं स्थितम्

॥१॥

अपि वज्रप्रहारेण यस्य रोमापि न च्युतम् ॥

तौ पक्षौ सहसा चास्य कथं निपतितौ भुवि

॥२॥

नूनमेतेन या स्त्रीणां कृता निंदा महात्मना ॥

दूषितं ब्रह्मचर्यं यच्छांडिलीं समवेक्ष्य च

॥३॥

अनया पातितौ पक्षौ तपःशक्तिप्रभावतः ॥

नान्यस्य विद्यते शक्तिरीदृशी भुवनत्रये

॥४॥

ततः प्रसादयामास शांडिलीं गरुडध्वजः ॥

तदर्थं विनयोपेतः स्मितं कृत्वा द्विजोत्तमाः

॥५॥

श्रीभगवानुवाच

सामान्यवचनं प्रोक्तं सर्वस्त्रीणामनेन हि ॥

तत्किमर्थं महाभागे त्वया चैवेदृशः कृतः

॥६॥

शांडिल्युवाच

मम वक्त्रं समालोक्य स्मितं चक्रे जनार्दन ॥

स्त्रीनिंदा विहितानेन स्वमत्यापि जगद्गुरो

॥७॥

एतस्मात्कारणादस्य निग्रहोऽयं मया कृतः ॥

मनसा न च वाक्येन न च केशव कर्मणा

॥८॥

श्रीभगवानुवाच

तथापि कुरु चास्य त्वं प्रसादं गतकल्मषे ॥

मम वाक्यानुरोधेन यदिमां मन्यसे शुभे

॥९॥

शांडिल्युवाच

मनसापि मया ध्यातं शुभं वा यदिवाऽशुभम् ॥

नान्यथा जायते देव विशेषात्कोपयुक्तया

॥१०॥

तस्मादेष ममादेशादाराध यतु शंकरम् ॥

पक्षलाभाय नान्यस्य शक्तिर्दातुं व्यवस्थिता

॥११॥

अथवा पुंडरीकाक्ष रूपमीदृग्व्यवस्थितः ॥

एष संस्थास्यते लोके सत्यमेतद्ब्रवीम्यहम्

॥१२॥

सूत उवाच

तस्यास्तद्वचनं श्रुत्वा तं प्रोवाच जनार्दनः ॥

गरुडं दैन्यसंयुक्तं भासपिंडोपमं स्थितम्

॥१३॥

एष एव वरश्चास्या द्विपदेश्या द्विजोत्तम ॥

पक्षलाभाय यत्प्रोक्तं तव शंभुप्रसादनम्

॥१४॥

तस्मादाराधय क्षिप्रं त्वं देवं शशिशेखरम् ॥

अव्यग्रं चित्तमास्थाय दिवारात्रमतंद्रितः

॥१५॥

येन ते तत्प्रभावेन भूयः स्यात्तादृशं वपुः ॥

तस्य देवस्य माहात्म्यादचिरादपि काश्यप

॥१६॥

तच्छ्रुत्वा गरुडस्तूर्णं धृतपाशुपतव्रतः ॥

संस्थाप्य देवमीशानं ततस्तं तोषमानयत्

॥१७॥

चांद्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥

प्राजापत्यानि चक्रेऽथ पाराकाणि तदग्रतः

॥१८॥

स्नात्वा त्रिषवणं पश्चाद्भस्मस्नान परायणः ॥

जपन्रुद्रशिरो रुद्रान्नीलरुद्रांस्तथापरान्

॥१९॥

चक्रे पूजां स्वयं तस्य स्नापयित्वा यथाविधि ॥

बलिपूजोपहारांश्च विधानेन प्रयच्छति

॥२०॥

एवं तस्य व्रतस्थस्य जपपूजापरस्य च ॥

ततो वर्षसहस्रांते गतस्तुष्टिं महेश्वरः ॥

अब्रवीद्वरदोऽस्मीति वृणुष्वेष्टं द्विजोत्तम

॥२१॥

गरुड उवाच

पश्यावस्थां ममेशान शांडिल्या या विनिर्मिता ॥

पक्षपातः कृतोऽस्माकं तमहं प्रार्थयामि वै

॥२२॥

त्वयात्रैव सदा लिंगे स्थेयं हर ममाधुना ॥

मम वाक्यादसंदिग्धं यदि चेष्टं प्रयच्छसि

॥२३॥

भगवानुवाच

अद्यप्रभृति मे चात्र लिंगे वासो भविष्यति ॥

त्वं च तद्रूपसंपन्नो विशेषाद्बलवेगभाक्

॥२४॥

भविष्यसि न संदेहो मत्प्रसादाद्विहंगम ॥

एवमुक्त्वाथ तं देवः स्वयं पस्पर्श पाणिना

॥२५॥

ततोऽस्य पक्षौ संजातौ तत्क्षणादेव सुन्दरौ ॥

तथा रोमाणि दिव्यानि जातरूपोपमानि च

॥२६॥

ततः प्रणम्य तं देवं प्रहष्टः स विहंगमः ॥

गतः स्वभवनं पश्चादनुज्ञाप्य महेश्वरम्

॥२७॥

देवोपि वचनात्तस्य तस्मिँल्लिंगे सदा हरः ॥

निवासमकरोत्सम्यक्प्राप्ते संध्यात्रये सदा

॥२॥

तस्य चायतने पुण्ये योगात्प्राणान्परित्यजेत् ॥

प्रायोपवेशनं कृत्वा न स भूयोऽपि जायते २९ ॥

अपि पाप समाचारः कौलो वा निर्घृणोऽपि वा ॥

ब्रह्मघ्नो वा सुरापो वा चौरो वा भ्रूणहाऽपि वा

॥३०॥

त्रिकालं पूजयन्यस्तु श्रद्धापूतेन चेतसा ॥

संवत्सरं वसेत्सोऽपि शिवलोके महीयते

॥३१॥

अथवा सोमवारेण यस्तं पश्यति मानवः ॥

कृत्वा क्षणं सुभक्त्या यो यावत्संवत्सरं द्विजाः

॥३२॥

सोऽपि याति न संदेहः पुरुषः शिवमन्दिरे ॥

विमानवरमारूढः सेव्यमानोऽप्सरोगणैः

॥३३॥

तस्मात्सर्वप्रयत्नेन कलिकाले विशेषतः ॥

द्रष्टव्यो वै सुपर्णाख्यो देवः श्रद्धासमन्वितैः

॥३४॥

संत्याज्याश्च तथा प्राणास्तदग्रेप्रायसंश्रितैः ॥

वांछद्भिः शिवसांनिध्यं सत्यमेतन्मयोदितम्

॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सुपर्णेश्वराख्यमाहात्म्यवर्णनंनाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥