एवं तं निःस्पृहं ज्ञात्वा गृहं प्रति निजात्मजम्
सूत उवाच
एवं तं निःस्पृहं ज्ञात्वा गृहं प्रति निजात्मजम् ॥
पिंगला दुःखसंयुक्ता व्यासमेतदुवाच ह
॥१॥अहं तपश्चरिष्यामि पुत्रार्थं द्विजसत्तम ॥
अनुज्ञां देहि मे येन तोषयामि महेश्वरम् ॥
पुत्रो येन भवेन्मह्यं वंशवृद्धिकरः परः
॥२॥एवं सा निश्चयं कृत्वा लब्ध्वानुज्ञां मुनेस्ततः ॥
क्षेत्रमेतत्समासाद्य तपस्तेपे पतिव्रता
॥३॥संस्थाप्य शंकरं देवं तदग्रे निर्मलोदकम् ॥
कृत्वा वापीं सुविस्तीर्णां स्नानात्पातकनाशनीम्
॥४॥ततस्तस्या गतस्तुष्टिं भगवांस्त्रिपुरांतकः ॥
वरदोऽस्मीति तां प्राह प्रहृष्टेनांतरात्मना
॥५॥श्रीमहादेव उवाच
परितुष्टोऽस्मि ते भद्रे वरं वरय सुव्रते ॥
यः स्थितो हृदये नित्यं नादेयं विद्यते मम
॥६॥वटिकोवाच
सुतं देहि सुरश्रेष्ठ मम वंशविवर्धनम् ॥
चित्ताह्लादकरं नित्यं सुशीलं विनयान्वितम्
॥७॥श्रीमहादेव उवाच
भविष्यति न संदेहस्तव पुत्रः सुशोभने ॥
यादृक्त्वया महाभागे प्रार्थितस्तद्विशेषतः
॥८॥अन्यापि मानुषी याऽत्र वाप्यां स्नात्वा समाहिता ॥
पञ्चम्यां वत्सरं यावच्छुक्लपक्षे ह्युपस्थिते ॥
पूजयिष्यति मल्लिंगं यच्चाद्य स्थापितं त्वया
॥९॥साथ लप्स्यति सत्पुत्रं दत्त्वा फलमनुत्तमम् ॥
या च दौर्भाग्यसंयुक्ता तृतीयादिवसेऽत्र वै
॥१०॥स्नात्वाऽत्र सलिले पश्चान्मल्लिंगं पूजयिष्यति ॥
सा सौभाग्य समोपेता वर्षांते च भविष्यति
॥११॥यः पुनः पुरुषश्चात्र स्नात्वा मां पूजयिष्यति ॥
सकामो लप्स्यते कामान्विकामो मोक्षमेव च
॥१२॥एवमुक्त्वा महादेवस्ततश्चादर्शनं गतः ॥
साऽपि लेभे सुतं व्यासात्कपिंजलमिति श्रुतम्
॥१३॥यादृक्तेन पुरा प्रोक्तो देवदेवेन शूलिना ॥
येनैव स्थापिता चात्र देवी केलीवरी पुरा ॥
सर्वसिद्धिप्रदा लोके तत्र याऽऽराधिता पुरा
॥१४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वटिकेश्वरमाहात्म्यवर्णनं नामाष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ १४८ ॥