मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १९९

3
नागरखण्डः · 199

तिस्रःकोट्योर्धकोटी च तीर्थानामिह भूतले

ऋषय ऊचुः

तिस्रःकोट्योर्धकोटी च तीर्थानामिह भूतले ॥

श्रूयते सूत कार्त्स्न्येन कीर्त्यमाना मुनीश्वरैः

॥१॥

कथं लभ्येत सर्वेषां तीर्थानां स्नानजं फलम् ॥

अल्पायुर्भिर्महाभाग कलिकाल उपस्थिते

॥२॥

सूत उवाच

क्षेत्रत्रयमिहाख्यातं तथारण्यत्रयं महत् ॥

पुरीत्रयं वनान्येव त्रीणि ग्रामास्तथात्रयः

॥३॥

तथा तीर्थत्रयं चान्यत्पर्वतत्रितयान्वितम् ॥

महानदीत्रयं चैव सर्वपातकनाशनम्

॥४॥

मर्त्यलोकेस्थितं विप्राः सर्वतीर्थफलप्रदम् ॥

सर्वेष्वेतेषु यः स्नाति स सर्वेषां फलं लभेत्

॥५॥

चतुर्विंशतिसंख्यानामिदमाह प्रजापतिः ॥

य एकस्मिंस्त्रिके स्नाति सर्व त्रिकफलं लभेत्

॥६॥

ऋषय ऊचुः

त्रीणि क्षेत्राणि कानीह तथारण्यानि कानि च ॥

पुर्यस्तिस्रो महाभाग काःख्याताश्च वनानि च

॥७॥

के ग्रामाः कानि तीर्थानि के नगाः सरितश्च काः ॥

नामभिर्वद नः सूत सर्वाण्येतानि विस्तरात्

॥८॥

सूत उवाच

कुरुक्षेत्रमिति ख्यातं प्रथमं क्षेत्रमुत्तमम् ॥

हाटकेश्वरजं क्षेत्रं द्वितीयं परिकीर्तितम्

॥९॥

प्राभासिकं तृतीयं तु क्षेत्रं हि द्विजसत्तमाः ॥

एतत्क्षेत्रत्रयं पुण्यं सर्वपातकनाशनम्

॥१०॥

यथोक्तविधिना दृष्ट्वा नरः पापात्प्रमुच्यते ॥

यो यं काममभिध्यायन्क्षेत्रेष्वेतेषु भक्तितः

॥११॥

स्नानं करोति तस्येष्टं मनसो जायते फलम् ॥

चतुर्विंशतिमानेषु स्नातो भवति स द्विजाः

॥१२॥

एकं तु पुष्करारण्यं नैमिषारण्यमेव च ॥

धर्मारण्यं तृतीयं तु तेषां संकीर्त्यते द्विजाः

॥१३॥

त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत्

॥१४॥

वाराणसी पुरीत्येका द्वितीया द्वारकापुरी ॥

अवन्त्याख्या तृतीया च विश्रुता भुवनत्रये

॥१५॥

एतासु यो नरः स्नाति चतुर्विंशतिभाग्भवेत्

॥१६॥

वृन्दावनं वनं चैकं द्वितीयं खांडवं वनम् ॥

ख्यातं द्वैतवनं चान्यत्तृतीयं धरणीतले

॥१७॥

त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत्

॥१८॥

कल्पग्रामः स्मृतश्चैकः शालिग्रामो द्वितीयकः ॥

नंदिग्रामस्तृतीयस्तु विश्रुतो द्विजसत्तमाः

॥१९॥

त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत्

॥२०॥

अग्नितीर्थं स्मृतं चैकं शुक्लतीर्थमथापरम् ॥

तृतीयं पितृतीर्थं तु पितॄणामतिवल्लभम्

॥२१॥

त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत्

॥२२॥

श्रीपर्वतः स्मृतश्चैको द्वितीयश्चार्बुदस्तथा ॥

तृतीयो रैवताख्योऽत्र विख्यातः पर्वतोत्तमाः

॥२३॥

त्रिष्वेतेषु च यः स्नाति चतुर्विंशतिभाग्भवेत्

॥२४॥

गंगा नदी स्मृता पूर्वा नर्मदाख्या तथा परा ॥

सरस्वती तृतीया तु नदी प्लक्षसमुद्भवा

॥२५॥

आसु सर्वासु यः स्नाति चतुर्विंशतिभाग्भवेत्

॥२६॥

एतेष्वेव हि सर्वेषु यः स्नानं कुरुते नरः ॥

सार्धकोटित्रयस्यात्र स कृत्स्नं फलमाप्नुयात्

॥२७॥

यश्चैकस्मिन्नरः स्नाति स त्रिकस्य फलं लभेत्

॥२८॥

एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥

संक्षेपात्तीर्थजं पुण्यं लभ्यते यन्नरैर्भुवि

॥२९॥

सांप्रतं किं नु वो वच्मि यत्तद्वदत मा चिरम्

॥३०॥

ऋषय ऊचुः

हाटकेश्वरजे क्षेत्रे यानि तीर्थानि सूतज ॥

तानि प्रोक्तानि सर्वाणि त्वयाऽस्माकं सुविस्तरात्

॥३१॥

तथा चायतनान्येव संख्यया रहितानि च ॥

अपि वर्षशतेनात्र स्नानं कर्तुं न शक्यते

॥३२॥

तेषु सर्वेषु मर्त्येन यथोक्तविधिना स्फुटम् ॥

देवतायतनान्येव तथा द्रष्टुं महा मते

॥३३॥

यस्मिन्स्नातो दिने चैव तस्य व्युष्टिः प्रकीर्तिता ॥

अल्पायुषस्तदा मर्त्याः कृतेऽपि परिकीर्तिताः

॥३४॥

त्रेतायां द्वापरे चापि किमु प्राप्ते कलौ युगे ॥

एवमल्पायुषो ज्ञात्वा मानवान्सूतनंदन

॥३५॥

लभेरंश्च कथं सर्वतीर्थानां स्नानजं फलम् ॥

देवदर्शनजं वापि विशेषान्निर्धनाश्च ये

॥३६॥

अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा ॥

येन तेषां भवेत्पुण्यं सर्वेषामेव हेलया

॥३७॥

सूत उवाच

अस्मिन्नर्थे पुरा पृष्टो विश्वामित्रो महामुनिः ॥

समुपेत्याश्रमं तस्य आनर्तेन महीभुजा

॥३८॥

राजोवाच

भगवन्नत्र तीर्थानि संख्यया रहितानि च ॥

तेषु स्नानविधिः प्रोक्तः सर्वेष्वेव पृथक्पृथक्

॥३९॥

मासे वारे दिने चैव कुत्रचिन्मुनिसत्तमैः ॥

दानानि च तथोक्तानि यथा स्नान विधिस्तथा

॥४०॥

देवानां दर्शनं चापि पृथक्तेन प्रकीर्तितम् ॥

न शक्यते फलं प्राप्तुं सर्वेषां केनचिन्मुने

॥४१॥

अपि वर्षशतेनापि किं पुनः स्तोकवासरैः ॥

तस्माद्वद महाभाग सुखोपायं च देहिनाम्

॥४२॥

एकस्मिन्नपि च स्नातस्तीर्थे प्राप्नोति मानवः ॥

सर्वेषामेव तीर्थानां स्नानजं सकलं फलम्

॥४३॥

तथैकस्मिन्सुरे दृष्टे सर्वदेवसमुद्भवम् ॥

फलं दर्शनजं भावि नराणां द्विजसत्तम

॥४९॥

सूत उवाच

तच्छ्रुत्वा सुचिरं ध्यात्वा विश्वामित्रो महामुनिः ॥

अब्रवीच्छृणु राजेंद्र सरहस्यं वदामि ते

॥४५॥

चत्वार्यत्र प्रकृष्टानि मुख्यतीर्थानि पार्थिव ॥

येषु स्नाने कृते राजञ्छ्राद्धे च तदनंतरम् ॥

सर्वेषामेव तीर्थानां स्नानजं लभ्यते फलम्

॥४६॥

सप्तविंशतिलिंगानि तथात्रैव स्थितानि च ॥

सिद्धेश्वरप्रपूर्वाणि सर्वपापहराणि च

॥४७॥

तेषु सर्वेषु दृष्टेषु भक्त्या पूतेन चेतसा ॥

सर्वेषामेव देवानां भवेद्दर्शनजं फलम्

॥४८॥

एकस्मिन्नपि संदृष्टे पूजिते वा सुरोत्तमे ॥

सप्तविंशतिलिंगानां पूजा तेन कृता भवेत्

॥४९॥

राजोवाच

कानि चत्वारि तीर्थानि तत्र मुख्यानि सन्मुने ॥

येषु स्नातो नरः सम्यक्सर्वेषां लभते फलम्

॥५०॥

विश्वामित्र उवाच

अत्रास्ति कूपिका पुण्या यस्यां संश्रयते गया ॥

कृष्णपक्षे चतुर्दश्याममावास्यादिने तथा

॥५१॥

विशेषेण महाभाग कन्यासंस्थे दिवाकरे ॥

निर्विण्णा भूमिलोकानां कृतैः श्राद्धैरनेकधा

॥५२॥

यस्तस्यां कुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः

॥५३॥

तस्मिन्नहनि राजेंद्र स संतारयते पितॄन् ॥

तथा तीर्थं द्वितीयं तु शंखतीर्थमिति स्मृतम्

॥५४॥

तत्र स्नात्वा नरो यस्तु पश्येच्छंखेश्वरं ततः ॥

सर्वेषां फलमाप्नोति माघस्य प्रथमेऽहनि

॥५५॥

तथा मन्नामकं तीर्थे तृतीयं मुख्यतां गतम् ॥

अत्र स्नात्वा तु यः पश्येन्मया संस्थापितं हरम्

॥५६॥

विश्वामित्रेश्वरं नाम सर्वेषां स फलं लभेत् ॥

नभस्यस्य सिताष्टम्यां सर्वेषां लभते फलम्

॥५७॥

शक्रतीर्थमिति ख्यातं चतुर्थं बालमण्डनम् ॥

तत्र स्नात्वा च पंचाहं शक्रेश्वरमवेक्ष्य च ॥

आश्विनस्य सितेऽष्टम्यां सर्वेषां लभते फलम्

॥५८॥

राजोवाच

विधानं वद मे विप्र गयाकूप्याः समुद्भवम् ॥

विस्तरेण महाभाग श्रद्धा मे महती स्थिता

॥५९॥

विश्वामित्र उवाच

अमावास्यादिने प्राप्ते तत्र कन्यागते रवौ ॥

यः श्राद्धं कुरुते भक्त्या स पितॄंस्तारयेन्निजान्

॥६०॥

भर्तृयज्ञविधानेन शुद्धैः स्थानोद्भवैर्द्विजैः ॥

भर्तृयज्ञविधिं त्यक्त्वा योऽन्येन विधिना नरः

॥६१॥

श्राद्धं करोति मूढात्मा विहीनं स्थानजैर्द्विजैः ॥

स्थानजैरपि वाऽशुद्धैस्तस्य तद्व्यर्थतां व्रजेत् ६२ ॥

वृष्टिः स्यादूषरे यद्वत्सत्यमेतन्मयोदितम् ॥

अंधस्याग्रे यथा नृत्यं प्रगीतं बधिरस्य च ॥

तथा च व्यर्थतां याति अन्यस्थानोद्भवैर्द्विजैः

॥६३॥

ब्राह्मणैः कारयेच्छ्राद्धं मूर्खैरपि द्विजोत्तमाः ॥

चतुर्वेदा अपि त्याज्या अन्यस्थानसमुद्भवाः

॥६४॥

दवे कर्मणि पित्र्ये वा सोमपाने विशेषतः ॥

देशांतरगतो यस्तु श्राद्धं च कुरुते नरः ॥

वैश्वानरपुरस्तेन कार्यं नान्यद्विजस्य च

॥६५॥

संनिवेश्य दर्भबटूञ्छ्राद्धं कुर्याद्द्विजोत्तमाः ॥

दक्षिणा भोजनं देयं स्थानिकानां चिरादपि

॥६६॥

पंचगव्यस्य संपूर्णो यथा कुम्भः प्रदुष्यति ॥

बिंदुनैकेन मद्यस्य पतितेन नृपोत्तम

॥६७॥

एकेनापि च बाह्येन बहूनामपि भूपते ॥

मध्ये समुपविष्टेन तच्छ्राद्धं दोषमाप्नुयात्

॥६८॥

स्थानजोऽपि चतुर्वेदो यद्यपि स्यान्न शुद्धिभाक् ॥

बहूनामपि शुद्धानां मध्ये श्राद्धं विनाशयेत्

॥६९॥

तस्मात्सर्वप्रयत्नेन शुद्धं ब्राह्मणमानयेत्

॥७०॥

स्थानिकं मूर्खमप्येवमलाभे गुणिनामपि ॥

हीनांगमधिकांगं वा दूषितं नो तथा परम्

॥७१॥

कन्यादाने तथा श्राद्धे कुलीनो ब्राह्मणः सदा ॥

आहर्तव्यः प्रयत्नेन य इच्छेच्छुभमात्मनः ॥

सोऽपि शुद्धिसमायुक्तो यदि स्यान्नृपसत्तम

॥७२॥

वृक्षाणां च यथाऽश्वत्थो देवतानां यथा हरिः ॥

श्रेष्ठस्थानजविप्राणां तथा चाष्टकुलोद्भवः

॥७३॥

आयुधानां यथा वज्रं सरसां सागरो यथा ॥

श्रेष्ठस्थानजविप्राणां तथाष्टकुलसंभवः

॥७४॥

उच्चैःश्रवा यथाऽश्वानां गजानां शक्रवाहनः ॥

श्रेष्ठस्थानजविप्राणां तथाष्टकुलसंभवः

॥७५॥

नदीनां च यथा गंगा सतीनां चाप्यरुंधती ॥

तद्वत्स्थानजविप्राणां श्रेष्ठोऽष्टकुलिकः स्मृतः

॥७६॥

ग्रहाणां भास्करो यद्वन्नक्षत्राणां निशाकरः ॥

तद्वत्स्थानजविप्राणां श्रेष्ठोऽष्टकुलिकः स्मृतः

॥७७॥

पर्वतानां यथा मेरुर्द्विपदानां द्विजोत्तमः ॥

स्थानजानां तु विप्राणां श्रेष्ठोऽष्टकुलिकस्तथा

॥७८॥

पक्षिणां गरुडो यद्वत्सिंहोऽरण्यनिवासिनाम् ॥

स्थानजानां तु विप्राणां श्रेष्ठोऽष्टकुलिकस्तथा

॥७९॥

एवं ज्ञात्वा प्रयत्नेन श्राद्धे यज्ञे च पार्थिव ।

कन्यादाने विशेषेण योज्यश्चाष्टकुलोद्भवः

॥८०॥

नृत्यंति पितरस्तस्य गर्जंति च पितामहाः ॥

वेदिमूले समालोक्य प्राप्तमष्टकुलं नृप

॥८१॥

पुनर्वदंति संहृष्टाः किमस्माकं प्रदास्यति ॥

दौहित्रश्चापसव्येन जलं दर्भतिलान्वितम्

॥८२॥

राजोवाच

यदेतद्भवता प्रोक्तं श्रैष्ठ्यमष्टकुलोद्भवम् ॥

सर्वेषां नागराणां च तत्किं वद महामते

॥८३॥

न ह्यत्र कारणं स्वल्पं भविष्यति द्विजोत्तम

॥८४॥

विश्वामित्र उवाच

सत्यमेतन्महाराज यत्त्वया व्याहृतं वचः ॥

अन्येऽपि नागराः संति वेदवेदांगपारगाः

॥८५॥

श्राद्धार्हा यज्ञयोग्याश्च कन्यायोग्या विशेषतः ॥

परं ते स्थापिता राजन्स्वयमिंद्रेण तत्र च

॥८६॥

प्रधानत्वेन सर्वेषां नागरैश्चापि कृत्स्नशः ॥

तेन ते गौरवं प्राप्ताः स्थानेत्रैव विशेषतः

॥८७॥

तस्माच्छ्रूाद्धं प्रकर्तव्यं विप्रै श्चाष्टकुलोद्भवैः ॥

अप्राप्तौ चैव तेषां तु कार्यं नागरसंभवैः

॥८८॥

नान्यस्थानसमुद्भूतैश्चतुर्वेदैरपि द्विजैः ॥

भर्तृयज्ञेन मर्यादा कृता ह्येषा महा त्मना

॥८९॥

मुक्त्वा तु नागरं विप्रं योऽन्येनात्र करिष्यति ॥

श्राद्धं वा यदि वा यज्ञं व्यर्थं तस्य भविष्यति

॥९०॥

राजोवाच

संत्यन्ये विविधा विप्रा वेदवेदांगपारगाः ॥

मध्यदेशोद्भवाः शान्तास्तथान्ये तीर्थसंभवाः

॥९१॥

भर्तृयज्ञेन ये त्यक्ताः श्राद्धे यज्ञे विशेषतः ॥

हीनांगाश्चाधिकांगाश्च द्विर्नग्नाः श्यावदंतकाः

॥९२॥

कुनखाः कुष्ठसंयुक्ता मूर्खा अपि विगर्हिताः ॥

श्राद्धार्हाः सूचितास्तेन एतं मे संशयं वद

॥९३॥

विश्वामित्र उवाच

कीर्तयिष्ये नरव्याघ्र कारणानि बहूनि च ॥

चमत्कारस्य पत्न्याश्च दानेन पतिता यतः

॥९४॥

स्त्रीणां प्रतिग्रहेणैव विप्रेषु प्रोषितेषु च ॥

पृथक्त्वं च ततो जातं बाह्याभ्यन्तरसंज्ञकम्

॥९५॥

दुर्वाससा ततः शप्ता रुष्टेनेवाहिना यथा ॥

विद्याधनाभिमानेन शापेन पतिताः सदा

॥९६॥

कुशे राज्यगते राजन्राक्षसानां महाभयम् ॥

प्रजयाऽऽवेदितं सर्वं तस्य राज्ञो महात्मनः

॥९७॥

विभीषणस्य लंकायां दूतश्च प्रेषितस्तदा ॥

सर्वं निवेदयामास प्रजानां भयसंभवम्

॥९८॥

अभिवन्द्य कुशादेशं रामस्य चरितं स्मरन् ॥

पुर्यां विलोकयामास लङ्कायां रामशासनात्

॥९९॥

उपप्लवस्य कर्तारो नष्टाः सर्वे दिशो दश ॥

गन्धर्वाणां च लोकं हि भयेन महता गताः

॥१००॥

स्थातुं तत्र न शक्तास्ते विभीषणभयेन च ॥

पृथिव्यां समनुप्राप्ताः स्थानान्यपि बहूनि च

॥१०१॥

भयेन महता तत्र कुशस्यैव तु शासने ॥

ब्राह्मणानां च रूपाणि कृत्वा तत्र समागताः

॥१०२॥

वाडवानां महिम्ना च मध्ये स्थातुं न तेऽशकन् ॥

पतितानां च संस्थानं चमत्कारपुरं गताः

॥१०३॥

मायाविशारदैस्तैश्च धनेन विद्यया ततः ॥

अध जग्धं ततस्तैस्तु तेषां मध्ये स्थितं च तैः

॥१०४॥

ततःप्रभृति ते सर्वे राक्षसत्वं प्रपेदिरे ॥

क्रूराण्यपि च कर्माणि कुर्वंति च पदेपदे

॥१०५॥

ततस्ते सर्वथा राजन्वर्जनीयाः प्रयत्नतः ॥

श्राद्धे यज्ञे नरव्याघ्र नरके पातयंति च

॥१०६॥

अन्यच्च दूषणं तेषां कीर्तयिष्ये तवाऽनघ ॥

त्रिजाताः स्थापिता राजन्सर्पाणां गरनाशनात्

॥१०७॥

नगरत्वं ततो जातं चमत्कार पुरस्य तु ॥

त्रिजातत्वं तु सर्वेषां जातं तत्र विशेषतः

॥१०८॥

एतेभ्यः कारणेभ्यश्च भर्तृयज्ञेन वर्जिताः ॥

पुनश्च कारणं तेषां स्पर्शादपि न शुद्धिभाक्

॥१०९॥

कुम्भकोत्थं च संप्राप्तं महच्चण्डालसंभवम्

॥११०॥

राजोवाच

एतच्च कारणं विप्र कथयस्व प्रसादतः ॥

स्थावरस्य चरस्यैव जगतो ज्ञानमस्ति ते

॥१११॥

विश्वामित्र उवाच

अत्र ते कीर्तयिष्यामि पूर्ववृत्तकथांतरम् ॥

भर्तृयजेन ये त्यक्ताः सर्वेन्ये ब्राह्मणोत्तमाः

॥११२॥

वर्धमाने पुरे पूर्वमासीदंत्यजजातिजः ॥

चण्डालः कुंभकोनाम निर्दयः पापकर्मकृत्

॥११३॥

कस्यचित्त्वथ कालस्य तस्य पुत्रो बभूव ह ॥

विरूपस्यापि रूपाढ्यः पूर्वकर्मप्रभावतः

॥११४॥

पिंगाक्षस्य सुकृष्णस्य वयोमध्यस्य पार्थिव ॥

दक्षः सर्वेषु कृत्येषु सर्वलक्षणलक्षितः

॥११५॥

स वृद्धिं द्रुतमभ्येति शुक्लपक्षे यथोडुराट् ॥

तथाऽसौ शंस्यमानस्तु सर्वलोकैः सुरूपभाक् ॥

दृष्ट्वा कुटुंबकं नित्यं वैराग्यं परमं गतः

॥११६॥

ततो देशांतरं दुःखाद्भ्रममाण इतस्ततः ॥

चमत्कारपुरं प्राप्तो द्विजरूपं समाश्रितः ॥

स स्नाति सर्वकृत्येषु भिक्षान्नकृतभोजनः

॥११७॥

एतस्मिन्नेव काले तु ब्राह्मणः शंसितव्रतः ॥

छांदोग्यगोत्रविख्यातः सुभद्रोनाम पार्थिवः

॥११८॥

नागरो वर्षयाजी च वेदवेदांगपारगः ॥

तत्रासीत्तस्य सञ्जाता कन्यका द्विगुणै रदैः

॥११९॥

तथा त्रिभिःस्तनै रौद्रा पृष्ठ्यावर्तकसंयुता ॥

दरिद्रोऽपि सुदुःस्थोऽपि कुलहीनोपि पार्थिव

॥१२०॥

दीयमानामपि न तां प्रतिगृह्णाति कश्चन ॥

यद्भक्षयति भर्तारं षण्मासाभ्यंतरे हि सा

॥१२१॥

यस्याः स्युर्द्विगुणा दंता एवं सामुद्रिका जगुः ॥

त्रिस्तनी कन्यका या तु श्वशुरस्य कुलक्षयम् ॥

संधत्ते नात्र सन्देहस्तस्मात्तां दूरतस्त्यजेत्

॥१२२॥

पृष्ठ्यावर्तो भवेद्यस्या असती सा भवेद्द्रुतम् ॥

बहुपापसमाचारा तस्मात्तां परिवर्जयेत्

॥१२३॥

अथ तां वृद्धिमापन्नां दृष्ट्वा विप्रः सुभद्रकः ॥

चिन्ताचक्रं समारूढो न शांतिमधिगच्छति

॥१२४॥

किं करोमि क्व गच्छामि कथमस्याः पतिर्भवेत् ॥

न कश्चित्प्रतिगृह्णाति प्रार्थितोऽपि मुहुर्मुहुः

॥१२५॥

दरिद्रो व्याधितो वाऽपि वृद्धोऽपि ब्राह्मणो हि सः ॥

स्मृतौ यस्मादिदं प्रोक्तं कन्यार्थे प्राङ्महर्षिभिः

॥१२६॥

अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ॥

दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला

॥१२७॥

माता चैव पिता चैव ज्येष्ठो भ्राता तथैव च ॥

त्रयस्ते नरकं यांति दृष्ट्वा कन्यां रजस्वलाम्

॥१२८॥

एवं चिन्तयतस्तस्य सोंऽत्यजो द्विजरूपधृक् ॥

भिक्षार्थं तद्गृहं प्राप्तो दृष्टस्तेन महात्मना

॥१२९॥

पृष्टश्च विस्मयात्तेन दृष्ट्वा रूपं तथाविधम् ॥

कुतस्त्वमिह सम्प्राप्तः क्व यास्यसि च भिक्षुक

॥१३०॥

ईदृग्भव्यतरो भूत्वा कस्मान्माधुकरीं गतः ॥

किं गोत्रं तव मे ब्रूहि कतमः प्रवरश्च ते

॥१३१॥

सोऽब्रवीद्गौडदेशीयं स्थानं मे सुमहत्तरम् ॥

नाम्ना भोजकटं ख्यातं नानाद्विजसमाश्रितम्

॥१३२॥

तत्रासीन्माधवोनाम ब्राह्मणो वेदपारगः ॥

वसिष्ठगोत्रविख्यात एकप्रवरसूचितः

॥१३३॥

तस्याहं तनयो नाम्ना चंद्रप्रभ इति स्मृतः

॥१३४॥

ततोऽहमष्टमे वर्षे यदा व्रतधरः स्थितः ॥

तदा पंचत्वमापन्नः पिता मे वेदपारगः

॥१३५॥

माता मे सह तेनैव प्रविष्टा हव्यवाहनम् ॥

ततो वैराग्यमापन्नो निष्क्रांतोऽहं निजालयात्

॥१३६॥

तीर्थानि भ्रममाणोऽत्र संप्राप्तस्तु पुरं तव ॥

अधुना संप्रयास्यामि प्रभासं क्षेत्रमुत्तमम्

॥१३७॥

यत्र सोमेश्वरो देवस्त्यक्त्वा कैलासमागतः ॥

न मया पठिता वेदा न च शास्त्रं नृपोत्तम ॥

तीर्थयात्राप्रसंगेन तेन भिक्षां चराम्यहम्

॥१३८॥

विश्वामित्र उवाच

तस्य तद्वचनं श्रुत्वा चिन्तयामास चेतसि ॥

ब्राह्मणोऽयं सुदेशीयस्तथा भव्यतमाकृतिः ॥

यदि गृह्णाति मे कन्यां तदस्मै प्रददाम्यहम्

॥१३९॥

यावद्रजस्वला नैव जायते सा निरूपिता ॥

कृत्स्नं दूषयति क्षिप्रं नैव वंशं ममाधमा

॥१४०॥

ततः प्रोवाच तं म्लेच्छं संमंत्र्य सह भार्यया ॥

यदि गृह्णासि मे कन्यां तव यच्छाम्यहं द्विज

॥१४१॥

भरणं पोषणं द्वाभ्यां करिष्यामि सदैव हि

॥१४२॥

तच्छ्रुत्वा हर्षितः प्राह सोंऽत्यजो नृपसत्तमम् ॥

तवादेशं करिष्यामि यच्छ मे कन्यकां नृप

॥१४३॥

तथेत्युक्त्वा गतस्तेन तस्मै दत्ता निजा सुता ॥

गृह्योक्तेन विधानेन विवाहो विहितस्ततः

॥१४४॥

ततो ददौ धनं धान्यं गृहं क्षेत्रं च गोधनम् ॥

तस्मै तुष्टिसमायुक्तो मन्यमानः कृतार्थताम्

॥१४५॥

अथ सोऽपि च तां प्राप्य विलासानकरोद्बहून् ॥

खाद्यैः पानैः सुवस्त्रैश्च गन्धमाल्यैर्विभूषणैः

॥१४६॥

परं स व्रजति प्रायो येन मार्गेण केनचित् ॥

सारमेयाः सशब्दाश्च पृष्ठतोऽनुव्रजंति वै

॥१४७॥

अन्येषामंत्यजात्यानां यद्वत्तस्य विशेषतः ॥

वेदाभ्यासपरश्चैव यदि संजायते क्वचित् ॥

रक्तं पतति वक्त्रेण तत्क्षणात्तस्य दुर्मतेः

॥१४८॥

एतस्मिन्नंतरे लोकः सर्व एव प्रशंकितः ॥

अब्रवीच्च मिथोऽभ्येत्य चंडालोऽयमसंशयम्

॥१४९॥

यदेते पृष्ठतो यांति भषमाणाः शुनीसुताः ॥

सुभद्रोऽपि च तत्तेषां श्रुत्वा चिन्तापरोऽभवत्

॥१५०॥

मन्यमानश्च तत्सत्यं दुःखेन महतान्वितः ॥

नूनमंत्यजजातीयो भविष्यति सुतापतिः

॥१५१॥

ज्ञायते चेष्टितैः सर्वैर्यथाऽयं जल्पते जनः

॥१५२॥

एवं रात्रिंदिवं तस्य चिन्तयानस्य भूपतेः ॥

लोकापवादयुक्तस्य कियान्कालोऽभ्यवर्तत

॥१५३॥

अन्यस्मिन्नहनि प्राप्ते आद्याद्या द्विजसत्तमाः ॥

मध्यगेन समायुक्ता ब्रह्मस्थानं समागताः ॥

तस्य शुद्धिकृते प्रोचुर्येन शंका प्रणश्यति

॥१५४॥

अथोचुस्तं द्विजश्रेष्ठा ब्रह्मस्थानस्य मध्यगम् ॥

मध्यगस्य तु वक्त्रेण विवर्णवदनं स्थितम्

॥१५५॥

कुलं गोत्रं निजं ब्रूहि प्रवरांश्च विशेषतः ॥

स्थानं देशं च विप्राणां येन शुद्धिः प्रदीयते

॥१५६॥

अथासौ वेपमानस्तु प्रस्विन्नवदनस्तथा ॥

अधोदृष्टिरुवाचेदं गद्गदं विहिताञ्जलिः

॥१५७॥

गर्भाष्टमे पिता मह्यं वर्षे मृत्युं गतस्ततः ॥

ततः सा तं समादाय जननी मे पतिव्रता ॥

मां त्यक्त्वा दुःखितं दीनं प्रविष्टा हव्यवाहनम्

॥१५८॥

अहं वैराग्यमापन्नस्तीर्थयात्रां समाश्रितः ॥

बालभावे पितुर्दुःखात्तापसैरपरैः सह

॥१५९॥

न मया पठितो वेदो न च शास्त्रं निरूपितम् ॥

तीर्थयात्रापरोऽहं च समायातो भवत्पुरम् ॥

६.१९९.१६० अभद्रेण सुभद्रेण श्वशुरेण दुरात्मना ॥

एतज्जानाम्यहं विप्रा गोत्रं वासिष्ठमेव वा

॥१६१॥

अथैकप्रवरो देशो गौडो मधुपुरं पुरम् ॥

ततस्ते ब्राह्मणाः प्रोचुर्यस्य नो ज्ञायते कुलम् ॥

तस्य शुद्धिः प्रदातव्या धटद्वारेण केवला

॥१६२॥

स त्वं धटं समारुह्य ब्राह्मण्यार्थं च केवलम् ॥

शुद्धिं प्राप्य ततो भोगान्भुंक्ष्वात्रस्थोऽपि केवलम्

॥१६३॥

सोऽब्रवीत्साहसं कृत्वा सर्वानेव द्द्विजोत्तमान् ॥

प्रतिगृह्णाम्यहं कामं तप्तमाषकमेव च

॥१६४॥

प्रविशामि हुताशं वा भक्षयिष्याम्यहं विषम्

॥१६५॥

किं पुनर्धटदिव्यं च क्रियमाणे सुखावहम् ॥

ब्राह्मणस्य कृते विप्राश्चित्ते नो मामके घृणा

॥१६६॥

अथ ते ब्राह्मणास्तस्य धटारोहणसंभवम् ॥

शुद्धिं निर्दिश्य वारं च सूर्यस्य च ततः परम् ॥

जग्मुः स्वंस्वं गृहं सर्वे सोऽपि विप्रोंऽत्यजो द्विजाः

॥१६७॥

ततः प्राह निजां भार्यां रहस्ये नृपसत्तम ॥

ज्ञातोऽहं ब्राह्मणैः सर्वैरंत्यजातिसमुद्भवः ॥

देशातरं गमिष्यामि त्वमागच्छ मया सह

॥१६८॥

भार्योवाच

अहमग्निं प्रवेक्ष्यामि न यास्यामि त्वया सह ॥

पापबुद्धे पतिष्यामि न चाहं नरकाग्निषु

॥१६९॥

बुध्यमाना न सेविष्ये त्वामंत्यजसमुद्भवम् ॥

पाप संदूषितं सर्वं त्वयैतत्स्थानमुत्तमम्

॥१७०॥

तथा मम पितुर्हर्म्यं संवत्सरप्रयाजिनः ॥

तस्माद्द्रुततरं गच्छ यावन्नो वेत्ति कश्चन

॥१७१॥

नो चेत्पापसमाचार संप्राप्स्यसि महाऽऽपदम्

॥१७२॥

ततो निशामुखे प्राप्ते कौपीनावरणान्वितः ॥

नष्टोऽभीष्टां दिशं प्राप्य तदा जीवितजाद्भयात्

॥१७३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागराष्टकुलश्रैष्ठ्यवर्णनंनामैकोनद्विशततमोऽध्यायः ॥ १९९ ॥