द्वादशवार्षिकयज्ञकरणम्
सूत उवाच
तच्छ्रुत्वा ब्रह्मणो वाक्यं विश्वामित्रो रुषान्वितः।
पितामहमुवाचेदं पश्य मे तपसो बलम्
॥१॥याजयित्वा त्रिशंकुं तं विधिवद्दक्षिणावता।
यज्ञेनात्रा(?) नयिष्यामि पश्यतस्ते पितामह
॥२॥एवमुक्त्वा द्रुतं गत्वा विश्वामित्रो धरातलम्।
चकार याजने यत्नं त्रिशंकोः सुमहात्मनः
॥३॥ददौ दीक्षां समाहूय ब्राह्मणान्वेदपारगान्।
यत्रकर्मोचिते काले तस्मिन्नेव वने शुभे
॥४॥बभूव स स्वयं धीमानध्वर्युर्यज्ञकर्मणि।
तस्मिन्होता च शांडिल्यो ब्रह्मा गौतम एव च
॥५॥आग्नीध्रश्च्यवनो नाम मैत्रावरुणः कार्मिकः।
उद्गाता याज्ञवल्क्यश्च प्रतिहर्ता च जैमिनिः
॥६॥प्रस्तोता शंकुवर्णश्च तथोन्नेता च गालवः।
पुलस्त्यो ब्राह्मणाच्छंसी होता गर्गो मुनीश्वरः
॥७॥नेष्टा चैव तथात्रिस्तु अच्छावाको भृगुः स्वयम्।
तान्सर्वानृत्विजश्चक्रे त्रिशंकुः श्रद्धयान्वितः
॥८॥वासोभिर्मुकुटैश्चैव केयूरैः समलंकृतान्।
कृत्वा केशपरित्यागं दधत्कृष्णाजिनं तथा
॥९॥ऐणशृङ्गसमायुक्तः पयोव्रतपरायणः।
दीर्घसत्राय तान्सर्वान्योजयामास वै ततः
॥१०॥एवं तस्मिन्प्रवृत्ते च दीर्घसत्रे यथोचिते।
आजग्मुर्ब्राह्मणा दिव्या वेदवेदांगपारगाः
॥११॥तथान्ये तार्किकाश्चैव गृहस्थाः कौतुकान्विताः।
दीनांधकृपणाश्चैव ये चान्ये नटनर्तकाः
॥१२॥दीयतां दीयतामाशु एतेषामेतदेव हि।
भुज्यतांभुज्यतां लोकाः प्रसादः क्रियतामिति
॥१३॥इत्येष निनदस्तत्र श्रूयते सततं महान्।
यज्ञवाटे सदा तस्मिन्नान्यश्चैव कदाचन
॥१४॥तत्र सस्यमयाः शैला दृश्यंते परिकल्पिताः।
सुवर्णस्य च रूप्यस्य रत्नानां च विशेषतः
॥१५॥दानार्थं ब्राह्मणेंद्राणामसंख्याश्चापि धेनवः।
तथैव वाजिनो दांता मदोन्मत्ता महागजाः
॥१६॥समंतात्कल्पितास्तत्र दृश्यंते पर्वतोपमाः।
वर्तमाने महायज्ञे तस्मिन्नेव सुविस्तरे
॥१७॥आहूता यज्ञभागाय नाभिगच्छंति देवताः।
केवलं वह्निवक्त्रेण तस्य गृह्णंति तद्धविः
॥१८॥एवं द्वादशवर्षाणि यजतस्तस्य भूपतेः।
व्यतीतानि न संप्राप्तमभीष्टं मनसः फलम्
॥१९॥ततश्चावभृथस्नानं कृत्वा सत्रसमाप्तिजम्।
ऋत्विजस्तर्पयित्वा तान्दक्षिणाभिर्यथार्हतः
॥२०॥विससर्ज समस्तांश्च तथान्यानपि संगतान्।
संबंधिनो वयस्यांश्च त्रिशंकुर्मुनिसत्तमाः
॥२१॥ततः प्रोवाच विनतो विश्वामित्रं मुनीश्वरम्।
स भूपो व्रीडया युक्तः प्रणिपातपुरः सरम्
॥२२॥त्वत्प्रसादान्मया प्राप्तं दीर्घसत्रसमुद्भवम्।
परिपूर्णफलं ब्रह्मन्दुर्लभं सर्वमानवैः
॥२३॥तथा जातिः पुनर्लब्धा भूयो नष्टापि सन्मुने।
त्वत्प्रसादेन विप्रर्षे चंडालत्वं प्रणाशितम्
॥२४॥परं मे दुःखमेवैकं हृदि शल्यमिवार्पितम्।
अनेनैव शरीरेण यन्न प्राप्तं त्रिविष्टपम्
॥२५॥उपहासं करिष्यंति वसिष्ठस्य सुता मुने।
अद्य व्यर्थ श्रमं श्रुत्वा मामप्राप्तं त्रिविष्टपम्
॥२६॥तथा तद्वचनं सत्यं वसिष्ठस्य व्यवस्थितम्।
यत्तेनोक्तं न यज्ञेन सदेहैर्गम्यते दिवि
॥२७॥सोऽहं तपः करिष्यामि सांप्रतं वनमाश्रितः।
न करिष्यामि भूयोऽपि राज्यं पुत्रनिवेदितम्
॥२८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये त्रिशंकूपाख्याने विश्वामित्रेण त्रिशंकोः सशरीरस्वर्गारोहणाय द्वादशवार्षिकयज्ञकरणंनाम पञ्चमोऽध्यायः ॥ ५ ॥