मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २५९

3
नागरखण्डः · 259

तस्मिंस्तु पतिते लिंगे योजनायामविस्तृते

गालव उवाच

तस्मिंस्तु पतिते लिंगे योजनायामविस्तृते ॥

विषादार्त्ता ऋषिगणास्तत्राजग्मुः सहस्रशः

॥१॥

व्यलोकयन्त सर्वत्र दृष्ट्वा तत्र महेश्वरम् ॥

नासौ दृष्टिपथे तेषां बभूव भयविह्वलः ॥

१ वीर्यं वर्षसहस्राणि बहून्यपि सुसंचितम् ॥

पृथिवीं सकलां व्याप्य स्थितं ददृशिरे द्विजाः

॥३॥

तद्दृष्ट्वा सुमहल्लिंगं रुधिराक्तं जलैः प्लुतम् ॥

ब्राह्मणाः संशयगता दह्यमाना वसुन्धरा

॥४॥

तल्लिंगं तत्र संस्थाप्य चक्रुस्तां नर्मदां नदीम् ॥

तज्जलं नर्मदारूपं ल्लिंगं चामरकण्टकम् ॥

५.. नरकं वारयत्येतत्सेवितं नरकापहम् ॥

भूतग्रहाश्च सर्वेऽपि यास्यंति विलयं ध्रुवम्

॥६॥

तत्र स्नात्वा जलं पीत्वा संतर्प्य च पितॄंस्तथा।

. सर्वान्कामानवाप्नोति मनुष्यो भुवि दुर्लभान्

॥७॥

लिंगानि नार्मदेयानि पूजयिष्यंति ये नराः ॥

तेषां रुद्रमयो देहो भविष्यति न संशयः ॥

चातुर्मास्ये विशेषेण लिंगपूजा महाफला ॥

चातुर्मास्ये रुद्रजपं हरपूजा शिवे रतिः

॥९॥

पंचामृतेन स्नपनं न तेषांगर्भवेदना ॥

ये करिष्यंति मधुना सेचनं लिंगमस्तके

॥१०॥

तेषां दुःखसहस्राणि यास्यंति विलयं ध्रुवम् ॥

दीपदानं कृतं येन चातु र्मास्ये शिवाग्रतः

॥११॥

कुलकोटिं समुद्धृत्य स्वेच्छया शिवलोकभाक् ॥

चन्दनागुरुधूपैश्च सुश्वेतकुसुमैरपि

॥१२॥

नर्मदाजललिंगं ये ह्यर्च यिष्यंति ते शिवाः ॥

शिला हरत्वमापन्नाः प्राणिनामपि का कथा

॥१३॥

तत्संभूतं महालिंगं जलधारणसंयुतम् ॥

पूजयित्वा विधानेन चातुर्मास्ये शिवो भवेत्

॥१४॥

चातुर्मास्ये ये मनुजा नर्मदाऽमरकण्टके ॥

तीर्थे स्नास्यंति नियतास्तेषां वासस्त्रिविष्टपे

॥१५॥

ब्रह्मोवाच

इत्युक्त्वा ते द्विजास्तत्र स्थाप्य लिंगं यथाविधि ॥

अमरकण्टकतीर्थे नर्मदां च महानदीम्

॥१६॥

पुनश्चिन्तापरा जाता विश्वस्य क्षोभकारणे ॥

पद्मासनगता भूत्वा प्राणायामपरायणाः

॥१७॥

चिन्तयामासुरव्यग्रं हृदयस्थं महे श्वरम् ॥

ततो देवा महेंद्राद्याः संप्राप्यामरकण्टकम्

॥१८॥

ब्राह्मणानां स्तुतिं चक्रुर्विनयानतकन्धराः ॥

नमोऽस्तु वो द्विजातिभ्यो ब्रह्मविद्भ्यो महेश्वराः

॥१९॥

भूसुरेभ्यो गुरुभ्यश्च विमुक्तेभ्यश्च वंधनात् ॥

यूयं गुणत्रयातीता गुणरूपा गुणाकराः

॥२०॥

गुणत्रयमयैर्भावैः सततं प्राणबुद्बुदाः ॥

येषां वाक्यजलेनैव पापिष्ठा अपि शुद्धताम् ॥

प्रयांति पापपुंजाश्च भस्मसाद्यांति पापिनाम्

॥२१॥

शस्त्रं लोहमयं येषां वागेव तत्समन्विताः ॥

पापैः पराभिभूतानां तेषां लोकोत्तरं बलम्

॥२२॥

क्षमया पृथिवीतुल्याः कोपे वैश्वानरप्रभाः ॥

पातनेऽनेकशक्तीनां समर्था यूयमेव हि

॥२३॥

स्वर्गादीनां तथा याने भवन्तो गतयो ध्रुवम्

॥२४॥

सत्कर्मकारकाश्चैव सत्कर्मनिरताः सदा ॥

सत्कर्मफलदातारः सत्कर्मेभ्यो मुमुक्षवः

॥२५॥

सावित्रीमंत्रनिरता ये भवंतोऽघनाशनाः ॥

आत्मानं यजमानं च तारयंति न संशयः

॥२६॥

वह्नयश्च तथा विप्रास्तर्पिताः कार्यसाधकाः ॥

चातुर्मास्ये विशेषेण तेषां पूजा महाफला

॥२७॥

कोपिताः सर्वदेहस्य नाशनाय भवंति हि १।

तावन्न वज्रमिंद्रस्य शूलं नैव पिनाकिनः

॥२८॥

दण्डो यमस्य तावन्नो यावच्छापो द्विजोद्भवः ॥

अग्निना ज्वाल्यते दृश्यं शापोद्दिष्टानपि स्वयम्

॥२९॥

हंति जातानजातांश्च तस्माद्विप्रं न कोपयेत् ॥

विप्रकोपाग्निना दग्धो नरकान्नैव मुच्यते

॥३०॥

शस्त्रक्षतोऽपि नरकान्मुच्यते नात्र संशयः ॥

देवानां मधुधान्यानां सामर्थ्यं भेदनेन हि

॥३१॥

वाङ्मात्रेण हि विप्रस्य भिद्यते सकलं जगत् ॥

ते यूयं गुरवोऽस्माकं विश्वकारणकारकाः ॥

प्रसादपरमा नित्यं भवंतु भुवनेश्वराः

॥३२॥

ईश्वरेण विना सर्वे वयं लोकाश्च दुःखिताः ॥

तत्कथ्यतां स भगवान्कुत्रास्ते परमेश्वरः

॥३३॥

गालव उवाच

ज्ञात्वा मुनिभयत्रस्तं देवेशं शूलपाणिनम्

॥३४॥

सुरभीगर्भसंभूतं देवानूचुर्महर्षयः ॥

स्वागतं देवदेवेभ्यो ज्ञातो वै स महेश्वरः

॥३५॥

तत्र गच्छंतु देवेशा यत्र देवः सनातनः ॥

इत्युक्त्वा ते महात्मानः सह देवैर्ययुस्तदा

॥३६॥

गोलोकं देवमार्गेण यत्र पायसकर्दमाः ॥

घृतनद्योमधु ह्रदा नदीनां यत्र संघशः

॥३७॥

पूर्वजानां गणाः सर्वे दधिपीयूषपाणयः ॥

मरीचिपाः सोमपाश्च सिद्धसंघास्तथा परे

॥३८॥

घृतपाश्चैव साध्याश्च यत्र देवाः सनातनाः ॥

ते तत्र गत्वा मुनयो ददृशुः सुरभीसुतम्

॥३९॥

तेजसा भास्करं चैव नीलनामेति विश्रुतम् ॥

इतस्ततोऽभिधावंतं गवां संघातमध्यगम्

॥४०॥

नंदा सुमनसा चैव सुरूपा च सुशीलका ॥

कामिनी नंदिनी चैव मेध्या चैव हिरण्यदा

॥४१॥

धनदा धर्मदा चैव नर्मदा सकलप्रिया ॥

वामनालंबिका कृष्णा दीर्घशृंगा सुपिच्छिका

॥४२॥

तारा तरेयिका शांता दुर्विषह्या मनोरमा ॥

सुनासा दीर्घनासा च गौरा गौरमुखीह या

॥४३॥

हरिद्रवर्णा नीला च शंखिनी पंचवर्णका ॥

विनताभिनताचैव भिन्नवर्णा सुपत्रिका

॥४४॥

जयाऽरुणा च कुण्डोध्नी सुदती चारुचंपका ॥

एतासां मध्यगं नीलं दृष्ट्वा ता मुनिदेवताः

॥४५॥

विचरंति सुरूपं तं संजातविस्मयोन्मुखाः ॥

मुनीश्वराः कृपाविष्टा इन्द्राद्या हृष्टमानसाः ॥

स्तुतिमारेभिरे कर्त्तुं तेजसा तस्य तोषिताः

॥४६॥

शूद्र उवाच

कथं नीलेति नामासौ जातोयमद्भुताकृतिः ॥

किमस्तुवन्प्रसन्नास्ते ब्राह्मणा विश्वकारणम्

॥४७॥

गालव उवाच

लोहितो यस्तु वर्णेन मुखे पुच्छे च पांडुरः

॥४८॥

श्वेतः खुरविषाणेषु स नीलो वृषभः स्मृतः ॥

चतुष्पादो धर्मरूपो नील लोहितचिह्नकः

॥४९॥

कपिलः खुरचिह्नेषु स नीलो वृषभः स्मृतः ॥

योऽसौ महेश्वरो देवो वृषश्चापि स एव हि

॥५०॥

चतुष्पादो धर्मरूपो नीलः पंचमुखो हरः ॥

यस्य संदर्शनादेव वाजपेयफलं लभेत्

॥५१॥

नीले च पूजिते यस्मिन्पूजितं सकलं जगत् ॥

स्निग्धग्रासप्रदानेन जगदाप्यायितं भवेत्

॥५२॥

यस्य देहे सदा श्रीमान्विश्वव्यापी जनार्दनः ॥

नित्यमर्चयते योऽसौ वेदमन्त्रैः सनातनैः

॥५३॥

ऋषय ऊचुः

त्वं देवः सर्वगोप्तॄणां विश्वगोप्ता सनातनः ॥

विघ्नहर्ता ज्ञानदश्च धर्मरूपश्च मोक्षदः

॥५४॥

त्वमेव धनदः श्रीदः सर्वव्याधिनिषूदनः ॥

जगतां शर्मकरणे प्रवृत्तः कनकप्रदः

॥५५॥

तेजसां धाम सर्वेषां सौरभेय महाबल ॥

शृंगाग्रे धृतकैलासः पार्वतीसहितस्त्वया

॥५६॥

३३ स्तुत्यो वेदमयो वेदात्मा वेदवित्तमः ॥

वेदवेद्यो वेदयानो वेदरूपो गुणाकरः

॥५७॥

गुणत्रयेभ्योऽपि परो याथात्म्यं वेद कस्तव ॥

वृषस्त्वं भगवान्देव यस्तुभ्यं कुरुते त्वघम्

॥५८॥

वृषलः स तु विज्ञेयो रौरवादिषु पच्यते ॥

यदा स्पृष्टः स तु नरो नरकादिषु यातनाः

॥५९॥

सेवते पापनिचयैर्निगाढप्रायबन्धनैः ॥

क्षुत्क्षामं च तृषाक्रांतं महाभारसमन्वितम्

॥६०॥

निर्दया ये प्रशोष्यंति मतिस्तेषां न शाश्वती ॥

चतुर्भिः सहितं मर्त्या विवाहविधिना तु ये

॥६१॥

विवाहं नीलरूपस्य ये करिष्यंति मानवाः ॥

पितॄनुद्दिश्य तेषां वै कुले नैवास्ति नारकी

॥६२॥

त्वं गतिः सर्वलोकानां त्वपिता परमेश्वरः ॥

त्वया विना जगत्सर्वं तत्क्षणादेव नश्यति

॥६३॥

परा चैव तु पश्यंती मध्यमा वैखरी तथा ॥

चतुर्विधानां वचसामीश्वरं त्वां विदुर्बुधाः

॥६४॥

चतुःशृंगं चतुष्पादं द्विशीर्षसप्तहस्तकम् ॥

त्रिधा बद्धं धर्ममयं त्वामेव वृषभं विदुः

॥६५॥

तृप्तिदं सर्वभूतानां विश्वव्यापकमोजसा ॥

ब्रह्म धर्ममयं नित्यं त्वामात्मानं विदुर्जनाः

॥६६॥

अच्छेद्यस्त्वमभेद्यस्त्वमप्रमेयोमहा यशाः ॥

अशोच्यस्त्वमदाह्योऽसि विदुः पौराणिका जनाः

॥६७॥

त्वदाधारमिदं सर्वं त्वदाधारमिदं जगत् ॥

त्वदाधाराश्च देवाश्च त्वदाधारं तथा मृतम्

॥६८॥

जीवरूपेण लोकांस्त्रीन्व्याप्य तिष्ठसि नित्यदा ॥

एवं स संस्तुतो नीलो विप्रैस्तैः सोमपायिभिः

॥६९॥

प्रसन्नवदनो भूत्वा विप्रा न्प्रणतितत्परः ॥

पुनरेव वचः प्रोचुर्विप्राः कृतशिवागसः

॥७०॥

वरं ददुर्महेशस्य नीलरूपस्य धर्मतः ॥

एकादशाहे प्रेतस्य यस्य नोत्सृज्यते वृषः

॥७१॥

प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥

पुनरेव सुसर्पंतं दृष्ट्वा नीलं महावृषम्

॥७२॥

स्वल्पक्रोधसमाविष्टं द्विजाश्चक्रुस्तमं कितम् ॥

चक्रं च वामभागेषु शूलं पार्श्वे च दक्षिणे

॥७३॥

उत्ससृजुर्गवां मध्ये तं देवैर्गोपितं तदा ॥

ततो देवगणाः सर्वे महर्षीणां गणाः पुनः ॥

स्वानि स्थानानि ते जग्मुर्मुनयो वीतमत्सराः

॥७४॥

एवमृषीणां दयितासु सक्तः कामार्त्तचित्तो मुनिपुंगवानाम् ॥

शापं समासाद्य शिवोऽपि भक्त्या रेवाजलेऽगात्सुशिलामयत्वम्

॥७९॥

इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने वृषस्तुतिर्नामैकोनषष्ट्युत्तरद्विशततमोअध्यायः ॥ २५९ ॥

[। छ