मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १०४

3
नागरखण्डः · 104

कुशेश्वरलवेश्वरप्रतिष्ठावर्णनम्

ऋषय ऊचुः

राक्षसैस्तत्र लिंगानि यानि भक्त्या समन्वितैः ॥

स्थापितानि च माहात्म्यं तेषां सूत प्रकीर्तय

॥१॥

सूत उवाच

तेषां पूजाकृते रौद्रा राक्षसा बलवत्तराः ॥

लंकापुर्याः समायांति सदैव शतशः पुरा

॥२॥

आगच्छन्तो व्रजन्तस्ते मार्गे क्षेत्रे च तत्र च ॥

भक्षयन्ति जनौघांश्च बालवृद्धाञ्जनानपि

॥३॥

ततस्ते मानवाः सर्वे प्रद्रवंतः समंततः ॥

इतश्चेतश्च धावन्ति प्राणरक्षणतत्पराः

॥४॥

तथान्ये बहवो गत्वा ह्ययोध्याख्यां महापुरीम् ॥

रामपुत्रं नृपश्रेष्ठं कुशं प्रोचुः सुदुःखिताः

॥५॥

तव पित्रा समं प्राप्ताः पूर्वं ये राक्षसा नृप ॥

हाटकेश्वरजे क्षेत्रे विभीषणपुरःसराः

॥६॥

संस्थापितानि लिंगानि चतुर्वक्त्राणि तत्र वै ॥

राक्षसेंद्रैः स्वमन्त्रैस्तैस्तस्य क्षेत्रस्य पश्चिमे

॥७॥

तेनैव चानुषंगेण समागच्छंति नित्यशः ॥

तस्मिन्क्षेत्रे प्रकुर्वंति तथा लोकस्य भक्षणम्

॥८॥

यदि वा तानि लिंगानि कश्चित्संपूजयेन्नरः ॥

सद्यो विनाशमायाति सोऽप्यनर्थो महानभूत्

॥९॥

तस्माद्यदि न रक्षा नः करिष्यसि महीपते ॥

तच्छनैर्यास्यते लोकः सर्वोऽयं संक्षयं ध्रुवम्

॥१०॥

तच्च क्षेत्रं विशेषेण यत्रागच्छंति ते सदा ॥

राक्षसाः क्रूरकर्माणो महामांसस्य लोलुपाः

॥११॥

तच्छ्रुत्वा स नृपस्तूर्णं स्वामात्यानां न्यवेदयत् ॥

राज्यभारं ततस्तत्र बलेन सहितो ययौ

॥१२॥

अथ प्राप्तं कुशं दृष्ट्वा हतशेषा द्विजोत्तमाः ॥

प्रोचुस्तं भर्त्सयित्वा तु वचनैः परुषाक्षरैः

॥१३॥

किमेवं क्रियते राज्यं यथा त्वं क्षत्रियाधमः ॥

करोषि यत्र विध्वंसं राक्षसै र्नीयते जनः

॥१४॥

नूनं जातो न रामेण भवान्रावणसंभवः ॥

येनोपेक्षसि सर्वान्नो राक्षसैः परिपीडितान्

॥१५॥

सत्यमेतत्पुरा प्रोक्तं नीतिशास्त्रविचक्षणैः ॥

यस्य वर्णस्य यो राजा स वर्णः सुखमेधते

॥१६॥

तस्मात्त्वं राक्षसोद्भूतो राक्षसैर्द्विजसत्तमान् ॥

उपेक्षसे ततः सर्वान्भक्ष्यमाणांस्तथापरान्

॥१७॥

आर्तानां यत्र लोकानां दोषैः पार्थिवसंभवैः ॥

पतंत्यश्रूणि भूपृष्ठे तत्र राजा स दोषभाक्

॥१८॥

कुश उवाच

प्रसादः क्रियतां विप्रा न मया ज्ञातमीदृशम् ॥

राक्षसेभ्यः समुत्पन्नो ब्राह्मणानां पराभवः

॥१९॥

अद्यप्रभृति यः कश्चिद्विनाशं नीयते क्वचित् ॥

ब्राह्मणो वाऽथवाऽन्योऽपि तद्भवेन्मम पातकम्

॥२०॥

एवमुक्त्वा ततस्तूर्णं प्रेषयामास राघवः ॥

विभीषणाय संक्रुद्धो दूतं भयविवर्जितम्

॥२१॥

गच्छ दूत द्रुतं गत्वा त्वया वाच्यो विभीषणः ॥

रामोचितस्त्वया स्नेहो मया सह कृतो महान्

॥२२॥

यद्राक्षसगणैः सार्धं मम भूमिं समंततः ॥

त्वं क्लेशयसि दुर्बुद्धे मां विश्वास्य सुभाषितैः

॥२३॥

मम पित्रा कृतेयं ते प्रतिष्ठा राक्षसाधम ॥

तेन नो हन्मि ते भ्राता यथा तातेन शातितः

॥२४॥

विषवृक्षोऽपि यो वृद्धिं स्वयमेव प्रणीयते ॥

कथं संछिद्यते सोऽत्र स्वयमेव मनीषिभिः

॥२५॥

तस्मादद्य दिनादूर्ध्वं यदि कश्चिन्निशाचरः ॥

समुद्रस्योत्तरं पारं कथंचिदागमिष्यति

॥२६॥

तदहं सत्वरं प्राप्य लंकां तव पुरीमिमाम् ॥

ससैन्यो ध्वंसयिष्यामि तथा सर्वान्निशाचरान्

॥२७॥

त्वां च बद्ध्वा दृढैः पाशैर्निगडैश्च सुसंयतम् ॥

कारासंस्थं करिष्यामि सद्य एव न संशयः

॥२८॥

एवमुक्तस्ततो दूतो गत्वा सेतुं द्रुतं ततः ॥

दृष्ट्वा रामेश्वरं देवं यावदग्रे व्यव स्थितः

॥२९॥

तावत्पृष्टो जनैः कैश्चित्कस्त्वं वत्स इहागतः ॥

केन कार्येण नो ब्रूहि नात्र गच्छंति मानवाः

॥३०॥

दूत उवाच

अहं कुशेन भूपेन विभीषणगृहं प्रति ॥

प्रेषितः कार्यमुद्दिश्य तत्र यास्याम्यहं कथम्

॥३१॥

जना ऊचुः

नातः परं नरः कश्चिद्गन्तुं शक्तः कथंचन ॥

भग्नः सेतुर्यतो मध्ये रामेणाक्लिष्टकर्मणा

॥३२॥

तस्मादत्रैव ते कार्यं सिद्धिं दूत प्रयास्यति ॥

विभीषणकृतं सर्वं दर्शनात्तस्य रक्षसः

॥३३॥

सर्वदा राक्षसेन्द्रोऽसौ शुभं रामेश्वरत्रयम् ॥

त्रिकालं पूजयत्येव नियमं समुपाश्रितः

॥३४॥

लंकाद्वारे स्थितो यो वै सेतुखण्डे महेश्वरः ॥

प्रभाते कुरुते तस्य स्वयं पूजां विभीषणः

॥३५॥

जलमध्यगतं यच्च सेतुखंडं द्वितीयकम् ॥

तत्र रामेश्वरो यश्च मध्याह्ने तं प्रपूजयेत्

॥३६॥

एनं देव निशीथे च सर्वदागत्य भक्तितः ॥

संपूजयेन्न सन्देहः सत्यमेतत्प्रकीर्तितम्

॥३७॥

तस्मात्तिष्ठ त्वमव्यग्रः स्थानेऽत्रैव समाहितः ॥

यावदागमनं तस्य राक्षसस्य महात्मनः

॥३८॥

तेनैव सहितः पश्चात्स्वेच्छया तस्य मन्दिरम् ॥

प्रयास्यसि गृहं वापि स्वकीयं तद्विसर्जितः

॥३९॥

अथ तेषां तदाकर्ण्य स दूतो हर्षसंयुतः ॥

बाढमित्येव चोक्त्वाथ तत्र चैव व्यवस्थितः

॥४०॥

अथ प्राप्ते निशार्धे स राक्षसैः परिवारितः ॥

विभीषणः समायातस्तस्मिन्नायतने शुभे

॥४१॥

विमानवरमारूढः स्तूयमानः समन्ततः ॥

राक्षसैर्बंदिरूपैस्तैर्गीयमानस्तथा परैः

॥४२॥

उत्तीर्य च विमानाग्र्यात्कृत्वाऽथ त्रिः प्रदक्षिणाम् ॥

रामेश्वरं प्रणम्योच्चैः स्तोत्रमेतच्चकार सः

॥४३॥

नमस्ते देवदेवेश भक्तानामभयप्रद ॥

सर्वतः पाणिपादं ते सर्वतोक्षिशिरोमुखम्

॥४४॥

त्वं यज्ञस्त्वं वषट्कारस्त्वं चंद्रस्त्वं प्रभाकरः ॥

त्वं विष्णुस्त्वं चतुर्वक्त्रः शक्रस्त्वं परमेश्वरः

॥४५॥

यथा तिलगतं तैलं गूढं तिष्ठति सर्वदा ॥

तथा त्वं सर्व लोकेषु गूढस्तिष्ठसि शंकर

॥४९५॥

यथा काष्ठगतो वह्निः संस्थितोऽपि न लक्ष्यते ॥

मूढैः सर्वत्रसंस्थोपि तथा त्वं नैव लक्ष्यसे

॥४७॥

यथा दधिगतं सर्पिर्निगूढत्वेन संस्थितम् ॥

चराचरेषु भूतेषु तथा त्वं देव संस्थितः

॥४८॥

यथा जलं धरापृष्ठात्खनन्नाप्नोति मानवः ॥

तथा त्वां पूजयन्नित्यं मोक्षमाप्नोत्यसंशयम्

॥४९॥

तावच्च दुर्लभः स्वर्गस्तावच्छूराश्च शत्रवः ॥

यावदेव न सन्तोषं त्वं करोषि शरीरिणाम्

॥५०॥

तावल्लक्ष्मीश्चला नॄणां तावद्रोगाः पृथग्विधाः ॥

न यावद्देवदेव त्वं सन्तोषं संप्रयास्यसि

॥५१॥

तावत्पुत्रोद्भवं दुःखं तथा प्रियसमु द्भवम् ॥

यावत्त्वं देव नायासि सन्तोषं देहिनामिह

॥५२॥

एवं स्तुत्वा ततो लिंगं स्नापयित्वा यथाविधि ॥

गन्धानुलेपनैदिव्यैर्मर्दयामास वै ततः

॥५३॥

पारिजातकपुष्पैश्च तथा सन्तानसम्भवैः ॥

कल्पपादपसंभूतैस्तथा मन्दारजैरपि

॥५४॥

पूजां चक्रे सुविस्तीर्णा श्रद्धया परया युतः ॥

दिव्यैराभरणैर्भूष्य दिव्यवस्त्रैस्ततः परम्

॥५५॥

स च गीतं स्वयं चक्रे तालमादाय पाणिना ॥

मूर्छातालकृतं रम्यं सप्तस्वरविराजितम्

॥५६॥

तानयुक्त्या समोपेतं ग्रामै रागैः स्वलंकृतम् ॥

एवं कृत्वा स शुश्रूषा तस्य देवस्य भक्तितः

॥५७॥

यावत्संप्रस्थितो भूयो लंकां प्रति विभीषणः ॥

तावद्दूतोऽग्रतः स्थित्वा कुशवाक्यमुवाच ह

॥५८॥

विशेषतस्तु तेनोक्तं यत्तस्य पुरतः पुरा ॥

अतिकोपाभिभूतेन प्ररक्तनयनेन च

॥५९॥

तच्छ्रुत्वाथ प्रणम्योच्चैर्दूतं प्राह विभीषणः ॥

कृतांजलिपुटो भूत्वा विनयावनतः स्थितः

॥६०॥

यद्येवं विहितं राज्ये रामपुत्रस्य राक्षसैः ॥

तन्नूनं तन्मया सर्वं विहितं दूतसत्तम

॥६१॥

तस्मान्महाप्रसादो मे कृतस्तेन महात्मना ॥

कुशेन प्रेषितो यस्त्वं मम मूर्खस्य संनिधौ

॥६२॥

एवमुक्त्वा स तान्सर्वाञ्छोधयामास राक्षसान् ॥

ये गत्वा भूतले मर्त्यान्ध्वंसयंति सदैव हि

॥६३॥

ततस्तत्रैव चानीय तस्य दूतस्य संनिधौ ॥

प्रत्येकं तानुवाचेदं कोपादश्रूणि चोत्सृजन्

॥६४॥

यैः कृतो जनविध्वंसो राक्षसैः सुदुरात्मभिः ॥

राज्ये कुशस्य संप्राप्तैः प्रभोर्मम महात्मनः

॥६५॥

ते सर्वे व्यंतरा रौद्राः प्रभवंतु सुदुःखिताः ॥

लंकाद्वारगता नित्यं क्षुत्पिपासानिपीडिताः

॥६६॥

सर्वभोगपरित्यक्ताः शीतातपसहि ष्णवः ॥

श्लेष्ममूत्रकृताहारा निन्द्याः सर्वजनस्य च

॥६७॥

एवं दत्त्वाथ तेषां स शापं राक्षससत्तमः ॥

ततः प्राह च तं दूतं पुनरेव कृतां जलिः

॥६८॥

अद्यप्रभृति नो कश्चिद्राक्षसः संप्रयास्यति ॥

तस्माद्वाच्यो रघुश्रेष्ठो मद्वाक्यात्स कुशस्त्वया ॥

क्षम्यतामपराधो मे यदज्ञाना दयंकृतः

॥६९॥

राक्षसैर्दुष्टजातीयैर्महामांसस्यलोलुपैः ॥

कृतश्च निग्रहस्तेषां प्रत्यक्षं तव दूत यः

॥७०॥

यदन्यदपि कृत्यं स्याद्दैवं वा मानुषं च वा ॥

मम भृत्यस्य तत्सर्वं कथनीयमशंकितम्

॥७१॥

दूत उवाच

यानि तत्र च लिंगानि राक्षसैर्निर्मितानि च ॥

तानि गत्वा स्वयं शीघ्रं त्वमुत्पाटय राक्षस

॥७२॥

एतदेव परं कृत्यं सर्वलोकसुखावहम् ॥

स्थापितानि च यान्येव मंत्रै राक्षससंभवैः

॥७३॥

संपूजितानि रक्षोभिश्चतुर्वक्त्राणि राक्षस ॥

अजानन्मानवः कश्चिद्यदि पूजां समाचरेत्

॥७४॥

तत्क्षणान्नाशमायाति एतद्दृष्टं मया स्वयम् ॥

एतस्मात्कारणाद्वच्मि त्वामहं राक्षसाधिप ॥

तैः स्थितैर्भूतले लिंगैः स्थिताः सर्वे निशाचराः

॥७५॥

विभीषण उवाच

मया पूर्वं प्रतिज्ञातं रामस्य पुरतः किल ॥

रामेश्वरमतिक्रम्य न गतव्यं धरातले

॥७६॥

अन्यच्च कारणं दूत प्रोक्तमत्र मनीषिभिः ॥

दुःस्थितं सुस्थितं वापि शिवलिंगं न चालयेत्

॥७७॥

तत्कथं तत्र गत्वाऽथ लिंगभेदं करोम्यहम् ॥

स्वयं माहेश्वरो भूत्वा प्रतिज्ञाय च वै स्वयम्

॥७८॥

तस्मात्प्रसादनीयस्ते मद्वाक्यात्स नराधिपः ॥

यद्युक्तं मया प्रोक्तं तत्त्वं कुरु विनिग्रहम्

॥७९॥

एवमुक्त्वाथ तं दूतं रत्नैः सागरसंभवैः ॥

प्रभूतैर्भूषयित्वाऽथ विससर्ज नृपं प्रति

॥८०॥

अथ ते राक्षसास्तेन शप्ताः प्रोचुः सुदुःखिताः ॥

कुरु शापस्य मोक्षं नः सर्वेषां राक्षसेश्वर

॥८१॥

विभीषण उवाच

नाहं करोमि भूयोऽपि युष्माकं राक्षसाधमाः।

अनुग्रहं प्रशप्तानां वंचकानां विशेषतः

॥८२॥

तस्मात्सोऽपि रघुश्रेष्ठः प्रसादं वः करिष्यति ॥

मम वाक्याद संदिग्धं कालः कश्चित्प्रतीक्ष्यताम्

॥८३॥

एवमुक्त्वाऽथ रक्षेन्द्रः प्रेषयामास सत्वरम् ॥

दूतं कुशमहीपस्य मानुषं देवपूजकम्

॥८४॥

गत्वा ब्रूहि कुशं भूपं सत्वरं वचनान्मम ॥

एतेषां मत्प्रशप्तानां राक्षसानां दुरात्मनाम् ॥

अनुग्रहं कुरु विभो दीनानां भोजनाय वै

॥८५॥

एवमुक्तस्ततस्तेन इतो दूतेन संयुतः ॥

कुशस्तेन विनिर्यातः सत्वरं द्विजसत्तमाः

॥८६॥

ततो गत्वा द्रुतं दूतः कुशं प्रोवाच सादरम् ॥

प्रणिपत्य यथा न्यायं विनयावनतः स्थितः

॥८७॥

विभीषणो मया दृष्टो देवे रामेश्वरे विभो ॥

पूजार्थं तत्र चायातो राक्षसैर्बहुभिर्वृतः

॥८८॥

प्रोक्तो मया भवद्वाक्यमशेषं रघुनन्दन ॥

श्रुतं तेनापि तत्सर्वं विनयावनतेन च

॥८९॥

अजानतः प्रभो तस्य राक्षसैः सुदुरात्मभिः ॥

प्रजैवं पीडिता भूमौ महामांसस्य लोलुपैः

॥९०॥

तच्छ्रुत्वा मन्मुखात्तेन सर्वेषां निग्रहः कृतः ॥

यैः कृतं कदनं भूमौ तव पार्थिव सत्तम ॥

कृतास्ते व्यन्तरा सर्वे पापाहारविहारिणः

॥९१॥

भविष्यथ तथा यूयं क्षुत्पिपासानिपीडिताः ॥

तैः सर्वैः प्रार्थितः सोऽपि भूयोभूयः प्रणम्य तम्

॥९२॥

शप्ताः सर्वे वयं तावत्प्रसादं कुरु तद्विभो ॥

ते तेनाथ ततः प्रोक्ता नाहं वो राक्षसाधमाः

॥९३॥

अनुग्रहं करिष्यामि न दास्यामि च भोजनम् ॥

कुशादेशान्मया सर्वे यूयं पापसमन्विताः

॥९४॥

निगृहीताः स युष्माकं प्रसादं प्रकरिष्यति ॥

तदर्थं प्रेषितो दूतस्त्वत्सकाशं महीपते

॥९५॥

रक्षसा तेन यद्युक्तमखिलं तत्त्वमाचर ॥

किं वा ते बहुनोक्तेन नास्ति भक्तस्तथा विधः ॥

भक्तिशक्तिसमोपेतो यथा ते स विभीषणः

॥९६॥

अद्यप्रभृति नो भूमौ विचरिष्यंति राक्षसाः ॥

तस्य वाक्यादसंदेहं त्वं राजन्सुख भाग्भव

॥९७॥

लिंगानां च कृते राजन्विज्ञप्तं तेन रक्षसा ॥

न मया चात्र राजेंद्र आगन्तव्यं कथंचन ॥

रामदेवस्य वाक्येन जंबुद्वीपे न मे गतिः

॥९८॥

अत्र स्थितस्य यत्कृत्यं दैवं वा मानुषं च वा ।

तवादेशं करिष्यामि यद्यपि स्यात्सुदुष्करम्

॥९९॥

तस्मात्तेन महाराज रामेश्वरप्रपूजकः ॥

मनुष्यः प्रेषितो दूतो यस्तं पश्य महीपते

॥१००॥

अथ तस्य समादेशाड्ढौकनीयैः पृथग्विधैः ॥

सहितः स समायातो दूतो रक्षेंद्रनोदितः

॥१०१॥

धात्रीफलप्रमाणानां तेन प्रस्थास्त्रयोदश ॥

मौक्तिकानां समानीताः कृते तस्य महीपतेः

॥१०२॥

वैडूर्याणां मरकतानां मणीनां च द्विजोत्तमाः ॥

जात्यानां षोडश द्रोणाः समानीताः सुनिर्मलाः

॥१०३॥

अग्निशौचानि वस्त्राणि तथा देवमयानि च ॥

असंख्यातानि वै हेम जात्यं संख्याविवर्जितम्

॥१०४॥

तत्सर्वं दर्शयित्वाथ कुशाय सुमहात्मने ॥

कृत्वा प्रदक्षिणं पश्चात्प्रणाममकरोद्द्विजाः

॥१०५॥

एष पार्थिवशार्दूल राक्षसेन्द्रो विभीषणः ॥

प्रणामं कुरुते भक्त्या मन्मुखेनेदमब्रवीत्

॥१०६॥

प्रसादात्ते पितुः क्षेमं मम राज्ये मही पते ॥

एष तिष्ठाम्यहं नित्यं पूजयंस्ते पितुर्हरम्

॥१०७॥

मम राजन्नविज्ञातैर्यदि तैः सुदुरात्मभिः ॥

महीतले कृतं किंचिद्विरुद्धं क्षम्यतां मम

॥१०८॥

एते ये राक्षसाः शप्तास्तवार्थाय मया प्रभो ॥

एतेषां प्रेतरूपाणां त्वमाहारं प्रकीर्तय

॥१०९॥

कुश उवाच

ममादेशात्समागत्य तेऽत्र लिंगानि कृत्स्नशः ॥

पूरयंतु प्रयत्नेन पांसुभिः सर्वतोदिशम्

॥११०॥

ततस्तु भोजनं तेषां यद्भविष्यति भूतले ॥

तद्वक्ष्यामि स्थिरो भूत्वा शृणु देवप्रपूजक

॥१११॥

तुलागते सदादित्ये तैरागत्य धरातले ॥

विहर्तव्यं प्रयत्नेन यावद्वृश्चिकदर्शनम्

॥११२॥

तत्र यैर्न कृतं श्राद्धं प्रेतपक्षे नराधमैः ॥

कन्यास्थे वा रवौ यावन्न तुलांतगतिर्भवेत्

॥११३॥

ज्वररूपैस्तदंगस्थैर्भक्ष्यमन्नं पृथग्विधम् ॥

ममादेशादसंदिग्धं मासमेकं निशाचरैः

॥११४॥

विधिहीनं च यैर्दत्तं भुक्तं च विधिवर्जितम् ॥

श्राद्धं वा मानुषैः सेव्या ज्वररूपैश्च ते सदा

॥११५॥

एवं वाच्यास्त्वया सर्वे प्रेतास्ते मद्वचोऽखिलम् ॥

तस्मादागत्य कुर्वंतु कार्तिके मासि मद्वचः

॥११६॥

तथा दूत त्वया वाच्यो मम वाक्याद्विभीषणः ॥

प्रमादाद्यन्मया प्रोक्तं परुषं वचनं तव

॥११७॥

जानाम्यहं महाभाग न तेऽस्ति विकृतिः क्वचित् ॥

परिक्लिष्टं जनं दृष्ट्वा मयैतद्व्याहृतं वचः

॥११८॥

राक्षसेन्द्रे स्थिते भूमौ त्वयि जानाम्यहं सदा ॥

तिष्ठते जनको मह्यं रामः शस्त्रभृतां वरः

॥११९॥

एवमुक्त्वा ततो दूतं पूजया मास राघवः ॥

वस्त्रैर्बहुविधै रत्नैर्नद्युत्थैश्च पृथग्विधैः

॥१२०॥

विभीषणकृते पश्चात्प्रेषयामास राघवः ॥

ढौकनीयान्यनेकानि यानि संति च तत्र वै

॥१२१॥

सूत उवाच

एवं स सुखसंयुक्तान्कृत्वा सर्वान्द्विजोत्तमान् ।

एतत्सर्वं ददौ पश्चात्तेभ्यो मुक्तादिकं नृपः

॥१२२॥

ढौकनीयं तथाऽऽयातं तल्लंकायाः पृथग्विधम् ॥

शासनानि तथान्यानि गजाश्वसहितानि च

॥१२३॥

पत्तनानि विचित्राणि ग्रामाणि नगराणि च ॥

यच्चान्यद्वांछितं येन तद्दत्तं तेन तस्य वै

॥१२४॥

ततः कुशेश्वरं देवं विधाय च लवेश्वरम् ॥

स्वां तनुं च महाभागौ भ्रातरौ तौ रघूत्तमौ

॥१२५॥

निवेद्य ब्राह्मणेन्द्राणां कृत्वा वृत्तिं यथोचिताम् ॥

अयोध्यां नगरीं तूर्णं कृतकृत्यौ विनिर्गतौ

॥१२६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कुशेश्वरलवेश्वरप्रतिष्ठावर्णनंनाम चतुरुत्तरशततमोऽध्यायः ॥ १०४ ॥