श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽप्सरःकुण्डोत्पत्तिमाहात्म्यवर्णनम्
सूत उवाच
तथान्यदपि तत्रास्ति रूपतीर्थमनुत्तमम् ॥
यत्र स्नातो नरः सम्यग्विरूपो रूपवान्भवेत्
॥१॥पूर्वं भगवता तेन ब्रह्मणा लोक कर्तृणा ॥
सृष्टिं कृत्वा च विस्तीर्णां यथोक्तं च चतुर्विधाम्
॥२॥ततः स चिन्तयामास रूपसंचयसंयुताम् ।
] एकामप्सरसं दिव्यां देवमायां सृजाम्यहम्
॥३॥ततश्च सर्वदेवानां समादाय तिलंतिलम् ॥
रूपं च निर्ममे पश्चादत्याश्चर्यमयीं च ताम्
॥४॥यां दृष्ट्वा क्षोभमापन्नः स्वयमेव पितामहः
॥५॥ततस्तां प्रेषयामास कैलासं प्रति पद्मजः ॥
गच्छ देवि महादेवं प्रणमस्व शुचिस्मिते
॥६॥ततः सा सत्वरं गत्वा कैलासं पर्वतोत्तमम् ॥
अपश्यच्छंकरं तत्र निर्विष्टं पार्वतीसमम्
॥७॥शंकरोऽपि च तां दृष्ट्वा विस्मयं परमं गतः ॥
सुदृष्टां नाकरोद्भीत्या पार्श्वस्थां वीक्ष्य पार्वतीम् ॥
ततः प्रदक्षिणां चक्रे सा प्रणम्य महेश्वरम् ।
श्रद्धया परया युक्ता कृतांजलिपुटा स्थिता
॥९॥यावद्दक्षिणपार्श्वस्था तावद्वक्त्रं स दक्षिणम् ॥
प्रचकार महादेवस्तदुपाकृष्टलोचनः
॥१०॥पश्चिमायां यदा साऽभूत्प्रदक्षिणवशाच्छुभा ॥
पश्चिमं वदनं तेन तदर्थं च कृतं ततः
॥११॥एवमुत्तरसंस्थायां तस्यां देवेन शंभुना ॥
उत्तरं वदनं क्लृप्तं गौरीभीतेन चेतसा ॥
न ग्रीवां चालयामास कथंचिदपि स द्विजाः
॥१२॥एतस्मिन्नंतरे तत्र नारदो मुनिपुंगवः ॥
अब्रवीत्पार्वतीं पश्चात्प्रणिपत्य महेश्वरम्
॥१३॥नारद उवाच
पश्य पार्वति ते पत्युश्चेष्टितं गर्हितं यथा ॥
दृष्ट्वा रूपवतीं नारीं कृतं।
मुखचतुष्टयम्
॥१४॥अहमेतद्विजानामि न त्वया सदृशी क्वचित् ॥
अस्ति नारी तथाऽन्योपि विजानाति सुरेश्वरि
॥१९॥हास्यस्य पदवीमद्य त्वं गमिष्यसि पार्वति ॥
सर्वासां देवपत्नीनां ज्ञात्वान्यासक्तमीश्वरम्
॥१६॥एतद्देवि विजानासि यादृक्चित्तं शिवोद्भवम् ॥
अस्या उपरि वेश्याया निंदिताया विचक्षणैः
॥१७॥समादाय निजे हर्म्य एतां संस्थापयिष्यति ॥
परं लज्जासमोपेतो न ब्रवीति वचः शुभे ॥
सूत उवाच ॥
नारदस्य वचः श्रुत्वा दृष्ट्वा कांतं चतुर्मुखम् ॥
क्रोधेन महताविष्टा विकृतं वीक्ष्य तं हरम्
॥१९॥ततो निरोधया मास द्रुतं सा पर्वतात्मजा ॥
सर्वनेत्राणि देवस्य महिषीधर्ममाश्रिता
॥२०॥एतस्मिन्नंतरे शैला विशीर्यंति समंततः ॥
मर्यादां संत्यजंति स्म सर्वे च मकरालयाः
॥२१॥प्रलयस्य समुत्थानं संजातं द्विजसत्तमाः ॥
तावद्ब्रह्मदिनं प्राप्तं परमं सृष्टिलक्षणम्
॥२२॥निमेषेण पुनस्तस्य प्रलयस्य प्रजापतेः ॥
ब्रह्मणः सा निशा प्रोक्ता सर्वं तोयमयं भवेत्
॥२३॥अथ तत्र गणाः सर्वे भृगिनंदिपुरःसराः ॥
सोऽपि देवमुनिर्भीतस्तामुवाच सुरेश्वरीम्
॥२४॥मुंचमुंच सुरज्येष्ठे देवनेत्राणि संप्रति ॥
नोचेन्नाशः समस्तस्य लोकस्यास्य भविष्यति
॥२५॥एवं प्रोक्ताऽपि सा देवी यावच्च न मुमोच तम् ॥
तावद्देवेन लालाटं विसृष्टं लोचनं परम्
॥२६॥कृपाविष्टेन लोकानां येन रक्षा प्रजायते ॥
न शक्तो वारितुं देवीं प्राणेभ्योऽपि गरीयसीम्
॥२७॥अंबिकां विबुधाः प्राहुस्त्र्यंबकाणि यतो द्विजाः ॥
तस्मात्संकीर्त्यते लोके त्र्यंबकश्च सुरेश्वरः
॥२८॥ततः संत्यज्य तं देवं देवी पर्वतपुत्रिका ॥
प्रोवाच कोपरक्ताक्षी पुरःस्थां तां तिलोत्तमाम्
॥२९॥यस्मान्मे दयितः पापे त्वया रूपाद्विडंबितः ॥
चतुर्वक्त्रः कृतस्तस्मात्त्वं विरूपा भव द्रुतम्
॥३०॥ततः सा सहसा भूत्वा तत्क्षणाद्भग्ननासिका ॥
शीर्णकेशा बृहद्दंता चिपिटाक्षी महोदरा
॥३१॥अथ वीक्ष्य निजं देहं तथाभूतं वराप्सराः ॥
प्रोवाच वेपमाना सा कृतांजलिपुटा स्थिता
॥३२॥अहं संप्रेषिता देवि प्रणामार्थं त्रिशूलिनः ॥
ब्रह्मणा तेन चायाता युष्माकं च विशेषतः
॥३३॥निर्दोषाया विरागायास्तस्माद्युक्तं न ते भवेत् ॥
शापं दातुं प्रसादं मे तस्मात्त्वं कर्तुमर्हसि
॥३४॥तस्यास्तद्वचनं श्रुत्वा दीनं सत्यं च पार्वती ॥
पश्चात्तापसमोपेता ततः प्रोवाच सुप्रियम्
॥३५॥स्त्रीस्वभावात्समायातः कोपोऽयं त्वां प्रति द्रुतम् ॥
तस्मादागच्छ गच्छावो मया सार्धं धरातले
॥३६॥तत्रास्ति रूपदं तीर्थं मया चोत्पादितं स्वयम् ॥
माघशुक्लतृतीयायां स्नानार्थं विमलोदकम्
॥३७॥या नारी प्रातरुत्थाय तत्र स्नानं समाचरेत् ॥
सा स्याद्रूपवती नूनमदृष्टे रविमंडले
॥३८॥सदा माघे तृतीयायां तत्र स्नानं करोम्यहम् ॥
अद्य सा तत्र यास्यामि स्नानाय कृतनिश्चया
॥३९॥सूत उवाच
एवमुक्त्वा समादाय सा देवी तां तिलोत्तमाम् ॥
हाटकेश्वरजे क्षेत्रे रूपतीर्थं जगाम च
॥४०॥तत्र स्नानं स्वयं चक्रे विधिपूर्वं सुरेश्वरी ॥
तस्या ह्यनन्तरं सापि भक्तियुक्ता तिलोत्तमा
॥४१॥ततः कांतिमती जाता तत्क्षणादेव भामिनी ॥
पूर्वमासीयद्थारूपा तथासाऽभूद्विशेषतः
॥४२॥अथ तुष्टिसमायुक्ता तां प्रणम्य सुरेश्वरीम् ॥
प्रोवाच विस्मयाविष्टा हर्षगद्गदया गिरा
॥४३॥प्राप्तं रूपं महादेवि त्वत्प्रसादाच्चिरन्तनम् ॥
ब्रह्मलोकं गमिष्यामि मामनुज्ञातुमर्हसि
॥४४॥गौर्युवाच
वरं यच्छामि ते पुत्रि यत्किंचिद्धृदि संस्थितम् ॥
तस्मात्प्रार्थय विश्रब्धा न वृथा मम दर्शनम्
॥४५॥तिलोत्तमोवाच
अहमत्र करिष्यामि क्षेत्रे तीर्थं निजं शुभे ॥
त्वत्प्रसादेन तद्देवि यातु ख्यातिं धरातले
॥४६॥त्वया तत्रापि कर्तव्यं वर्षांते स्नानमेव हि ॥
हितार्थं सर्वनारीणां रूपसौभाग्यदायकम्
॥४७॥गौर्युवाच
चैत्रशुक्लतृतीयायां सदाहं त्वत्कृते शुभे ॥
स्नानं तत्र करिष्यामि मध्याह्ने समुपस्थिते
॥४८॥हितार्थं सर्वनारीणां तव वाक्यादसंशयम् ॥
या तत्र दिवसे नारी तस्मिंस्तीर्थे करिष्यति
॥४९॥स्नानं सा सौख्यसंयुक्ता भविष्यति सुखान्विता ॥
स्पृहणीया च नारीणां सर्वासां धरणीतले
॥५०॥पुरुषोऽपि सुभक्त्या यस्तत्र स्नानं करिष्यति ॥
सप्तजन्मानि रूपाढ्यः ससौभाग्यो भविष्यति
॥५१॥सूत उवाच
एवमुक्ता तदा देव्या साप्सरा द्विजसत्तमाः ॥
चक्रे कुण्डं सुविस्तीर्णं विमलोदप्रपूरितम्
॥५२॥उपकंठे ततस्तस्य स्थापयामास पार्वतीम् ॥
ततो जगाम संहृष्टा ब्रह्मलोकं तिलोत्तमा
॥५३॥ततः प्रभृति संजातं कुण्डमप्सरसा कृतम् ॥
स्नानमात्रैर्नरैर्यत्र सौभाग्यं लभ्यते द्विजाः
॥५४॥नारीभिश्च विशेषेण पुत्रप्राप्तिरनुत्तमा ॥
तथान्यदपि यत्किंचिद्वांछितं हृदये स्थितम्
॥५५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽप्सरःकुण्डोत्पत्तिमाहात्म्यवर्णनंनाम त्रिपंचाशदुत्तरशततमोऽध्यायः ॥ १५३ ॥