मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ३२

3
नागरखण्डः · 32

सप्तर्ष्याश्रममाहात्म्यवर्णनम्

सूत उवाच

तथान्योऽस्ति द्विजश्रेष्ठास्तस्मिन्क्षेत्रे शुभावहे ॥

सप्तर्षीणां सुविख्यात आश्रमः सर्वकामदः

॥१॥

तत्र श्रावणमासस्य पंचदश्यां समाहितः ॥

यः करोति नरः स्नानं स लभेद्वांछितं फलम्

॥२॥

कन्दमूलफलैः शाकैर्यस्तत्र श्राद्धमाचरेत् ॥

स प्राप्नोति फलं कृत्स्नं राजसूयाश्वमेधयोः

॥३॥

पंचम्यां शुक्लपक्षे तु मासि भाद्रपदे द्विजाः ॥

यस्तान्पूजयते भक्त्या पुष्पधूपानुलेपनैः ॥

विधिनानेन विप्रेन्द्राः सर्वानेव यथाक्रमम्

॥४॥

ॐ अत्रये नमः ॥

ॐ वसिष्ठाय नमः ॥

ॐ कश्यपाय नमः ॥

ॐ भरद्वाजाय नमः ॥

ॐ गौतमाय नमः ॥

ॐ कौशिकाय नमः ॥

ॐ जमदग्नये नमः ॥

ॐ अरुंधत्यै नमः ॥

पूजामंत्रः ॥

जह्नुकन्यापवित्रांगा गृहीतजपमालिकाः ॥

गृह्णंत्वर्घं मया दत्तमृषयः सर्वकामदाः

॥५॥

ऋषय ऊचुः

तत्र सप्तर्षिभिस्तीर्थं कस्मिन्काले व्यवस्थितम् ॥

विस्तरात्सूतज ब्रूहि परं कौतूहलं हि नः

॥६॥

सूत उवाच

अनावृष्टिः पुरा जाता लोके द्वादशवार्षिकी ॥

सर्वोषधिक्षयो जातस्ततो लोकाः क्षयार्दिताः

॥७॥

अस्थिशेषा निरुत्साहास्त्यक्तधर्मव्रतक्रियाः ॥

अभक्ष्यभक्षणपरास्तथैवापेयपायिनः

॥८॥

त्यजंति मातरः पुत्रान्कलत्राणि तथा नराः ॥

भृत्यान्स्वानपि वित्तेशाः का कथान्यसमुद्भवान्

॥९॥

संत्यक्तान्यग्निहोत्राणि ब्राह्मणैर्याजकैरपि ॥

व्रतानि व्रतिभिर्दांतैरपि वृद्धतमैर्द्विजाः

॥१०॥

दृश्यते चैव यत्रैव सस्यं वापि कथंचन ॥

ह्रियते लज्जया हीनैस्तत्र क्षुत्क्षामकैर्नरैः

॥११॥

एवमन्नक्षये जाते पीडिते धरणीतले ॥

सप्तर्षयः क्षुधाविष्टा बभ्रमुस्तत्रतत्र च

॥१२॥

अत्रिश्चैव वसिष्ठश्च कश्यपः सुमहातपाः ॥

भरद्वाजस्तथा चान्यो गौतमः संशितव्रतः ॥

कौशिको जमदग्निश्च तथैवारुंधती सती

॥१३॥

अथ तेषां समस्तानां चंडाभूत्परिचारिका ॥

पशुवक्त्रस्तथा भृत्यो विनयेन समवितः

॥१४॥

ततस्ते विषयं प्राप्ता वृषादर्भिमहीपतेः ॥

क्षुत्क्षामा मुनयोऽत्यर्थं देशे चानर्तसंज्ञके

॥१५॥

तत्र भिक्षाकृते भ्रांतास्ततश्चैव गृहाद्गृहम् ॥

न ग्रासमपि सस्यस्य प्राप्नुवंस्ते द्विजोत्तमाः

॥६॥

ततस्तैः पतितो भूमौ दृष्टो मृतकुमारकः ॥

मंत्रयित्वा मिथः पश्चाद्गृहीतो भक्षणाय च

॥१७॥

अपचन्यावदग्नौ तं क्षुधया परिपीडिताः ॥

वृषादर्भिर्नृपः प्राप्तः श्रुत्वा तेषां विचेष्टितम्

॥१८॥

वृषादर्भिरुवाच

किमिदं गर्हितं कर्म क्रियते मुनिसत्तमाः ॥

राक्षसानामयं धर्मो महामांसस्य भक्षणम्

॥१९॥

सोऽहं सस्यं प्रदास्यामि ग्रामान्व्रीहीन्यवानपि ॥

मम वाक्यादसंदिग्धं त्यजर्ध्वं मृतबालकम्

॥२०॥

ऋषय ऊचुः

प्रायश्चित्तं समादिष्टं महामांसस्य भक्षणात् ॥

प्रतिग्रहस्य भूपाला दापत्कालेऽपि नो नृप

॥२१॥

पश्चात्तपश्चरिष्यामो महामांससमुद्भवम् ॥

पातकं नाशयिष्यामो भक्षयामो वयं ततः

॥२२॥

वृषादर्भि रुवाच

प्रतिग्रहो द्विजातीनां प्रोक्ता वृत्तिरनिंदिता ॥

ग्राह्यो मत्तस्ततः सर्वैर्नात्र कार्या विचारणा

॥२३॥

ऋषय ऊचुः

राज प्रतिग्रहो घोरो मध्वास्वादो विषोपमः ॥

स दूराद्ब्राह्मणैस्त्याज्यो विशेषात्कृतिभिर्नृप

॥२४॥

दशसूनासमश्चक्री दशचक्रिसमो ध्वजी ॥

दश ध्वजिसमा वेश्या दशवेश्यासमो नृपः

॥२५॥

दशसूनासहस्रेण तुल्यो राजप्रतिग्रहः ॥

कस्तस्य प्रतिगृह्णाति लोभाढ्यो ब्राह्मणो यथा

॥२६॥

रौरवादिषु सर्वेषु नरकेषु स पच्यते ॥

तस्माद्गच्छ गृहे भूप स्वस्ति तेऽस्तु सदैव हि

॥२७॥

वयमन्यत्र यास्यामो ग्रहीष्यामो न ते धनम् ॥

एवमुक्त्वाथ ते सर्वे मुनयः शंसितव्रताः

॥२८॥

परित्यज्य कुमारं तं मृतं तमपि भूमिपम् ॥

चमत्कारपुरं क्षेत्रं समुद्दिश्य ततो ययुः

॥२९॥

सोऽपि राजा ततस्तैस्तु भर्त्सितोऽतिरुषान्वितः ॥

जिज्ञासार्थं ततस्तेषां चक्रे कर्म द्विजोत्तमाः

॥३०॥

ततः सुवर्णपूर्णानि विधायोदुम्बराणि च ॥

तेषां मार्गाग्रतो भूमौ समंतादथ चाक्षिपत्

॥३१॥

सूत उवाच

अथ ते मुनयो दृष्ट्वा पतितानि धरातले ॥

उदुम्बराणि संदृष्ट्वा जगृहुः क्षुधयार्दिताः

॥३२॥

अथ तानि समालक्ष्य गुरूणि मुनिसत्तमाः ॥

अत्रिरेकं परिस्फोट्य सुवर्णं वीक्ष्य चाब्रवीत्

॥३३॥

अत्रिरुवाच

नास्माकं मुनयोऽज्ञानं नास्माकं गृहबुद्धयः ॥

हैमानिमान्विजानंतो ग्रहीष्याम उदुम्बरान्

॥३४॥

तस्मादेतानि संत्यज्य हेमगर्भाणि दूरतः ॥

उदुम्बराणि यास्यामः फलानि विगतस्पृहाः

॥३५॥

सार्वभौमो महीपाल एकोऽन्यश्च निरीहकः ॥

सुभगस्तु तयोर्नित्यं भूयाद्भूयो निरीहकः

॥३६॥

धर्मार्थमपि विप्राणां संचयोऽर्थस्य गर्हितः ॥

प्रक्षालनाद्धि पंकस्य दूरादस्पर्शनं वरम्

॥३७॥

त्यजतः संचयान्सर्वान्यांति हानिमुपद्रवाः ॥

न हि सर्वार्थवान्कश्चिद्दृश्यते निरुपद्रवः

॥३८॥

निर्धनत्वं तथा राज्यं तुलायां धारयेद्बुधः ॥

अकिंचनत्वमधिकं जायते संमतिर्मम

॥३९॥

कश्यप उवाच

अनर्थोऽयं मुने प्राप्तो यदर्थस्य परिग्रहः ॥

अर्थैश्वर्यविमूढात्मा श्रेयसा मुच्यते हि सः

॥४०॥

अर्थसंपद्विमोहाय विमोहो नरकाय च ॥

तस्मादर्थं प्रयत्नेन श्रेयोऽर्थी दूरतस्त्यजेत्

॥४१॥

योर्थेन साध्यते धर्मः क्षयिष्णुः स प्रकीर्तितः ॥

यः पुनस्तपसा साध्यः स मोक्षायेति मे मतिः

॥४२॥

भरद्वाज उवाच

जीर्यंति जीर्यतः केशा दंता जीर्यंति जीर्यतः ॥

चक्षुः श्रोत्रे तथा पुंसस्तृष्णैका तरुणायते

॥४३॥

सूच्या सूत्रं यथा वस्त्रं संचारयति सूचिका ॥

तद्वत्संसारसूत्रं च वांछयात्मा नयत्यसौ

॥४४॥

यथा शृंगं हि कायेन वर्द्धमानेन वर्धते।

तद्वत्तृष्णापि वित्तेन वर्द्धमानेन वर्द्धते

॥४५॥

अनंतपारा दुष्पूरा तृष्णा दुःखशतावहा ॥

अधर्मबहुला चैव तस्मात्तां परिवर्जयेत्

॥४६॥

गौतम उवाच

संतुष्टः केन चाल्योऽस्ति फलैरपि विवर्जितः ॥

सर्वोपीन्द्रियलौल्येन संकटे भ्रमति द्विजाः

॥४७॥

सर्वत्र संपदस्तस्य संतुष्टं यस्य मानसम् ॥

उपानद्गूढपादस्य ननु चर्मास्तृतेव भूः

॥४८॥

संतोषामृततृप्तानां यत्सुखं शांतचेतसाम् ॥

कुतस्तद्धनलुब्धानामितश्चेतश्च धावताम्

॥४९॥

असंतोषः परं दुःखं संतोषः परमं सुखम् ॥

सुखार्थी पुरुषस्तस्मात्संतुष्टः सततं भवेत्

॥५०॥

विश्वामित्र उवाच

कामं कामयमानस्य यदि कामः स सिध्यति ॥

तथान्यो जायते पुंसस्तत्क्षणादेव कल्पितः

॥५१॥

न जातु कामी कामानां सहस्रैरपि तुष्यति ॥

हविषा कृष्णवर्त्मेव वांछा तस्य विवर्धते

॥५२॥

कामानभिलषन्मोहान्न नरः सुखमाप्नुयात् ॥

श्येनालयतरुच्छायां व्रजन्निव कपिञ्जलः

॥५३॥

नित्यं सागरपर्यन्तां यो भुङ्क्ते पृथिवीमिमाम् ॥

तुल्याश्मकाश्चनश्चैव स कृतार्थो महीपतेः

॥५४॥

जमदग्निरुवाच

योऽर्थं प्राप्याधमो विप्रः शोचितव्येपि हृष्यति ॥

न च पश्यति मन्दात्मा नरकं चा कुतोभयः

॥५५॥

प्रतिग्रहसमर्थानां निवृत्तानां प्रतिग्रहात् ॥

य एव ददतां लोकास्त एवाप्रतिगृह्णताम्

॥५६॥

अरुन्धत्युवाच

बिसतंतुर्यथाऽनन्तो नालमासाद्य संस्थितः ॥

तृष्णा चैवमनाद्यन्ता स्थिता देहे शरीरिणाम्

॥५७॥

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ॥

याऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्

॥५८॥

चण्डोवाच

सर्पादिवद्धनाद्यस्माद्बिभ्यतीमे ममेश्वराः ॥

यतस्ततो विशेषेण कस्मात्तस्माद्भयं मम

॥५६॥

पशुमुख उवाच

यदाचरन्ति विद्वांसः सदा धर्मपरायणाः।

. तदेव विदुषा कार्यमात्मनो हितमिच्छता

॥६०॥

सूत उवाच

इत्युक्त्वा हेमगर्भाणि त्यक्त्वा तानि फलानि च ॥

ऋषयो जग्मुरन्यत्र सर्व एव दृढव्रताः

॥६॥

चमत्कारपुरेक्षेत्रे विविशुस्ते ततः परम् ॥

ददृशुः सहसा प्राप्तं परिव्राजं शुनोमुखम्

॥६२॥

तेनैव सहितास्तत्र गत्वा किञ्चिद्वनान्तरम् ॥

दृष्टवन्तस्ततो हृद्यं सरः पंकजशोभितम्

॥६३॥

ततो बुभुक्षयाविष्टा बिसान्यादाय भूरिशः ॥

तीरे निक्षिप्य सरसश्चक्रुः पुण्यां जल क्रियाम्

॥६४॥

अथोत्तीर्यजलात्सर्वे ते समेत्य परस्परम् ॥

बिसानि तान्यपश्यन्त इदं वचनमब्रुवन्

॥६५॥

ऋषय ऊचुः

केन क्षुधाभितप्तानामस्माकं निर्दयात्मना ॥

मृणालानि समस्तानि स्थानादस्माद्धृतानि च

॥६६॥

ते शंकमाना अन्योन्यमृषयः शंसितव्रताः ॥

प्रचक्रुः शपथान्रौद्रानात्मनः प्रविशुद्धये

॥६७॥

कश्यप उवाच

सर्वभक्षः सदा सोऽस्तु न्यासलोभं करोतु वा ॥

कूटसाक्षित्वमभ्ये तु बिसस्तैन्यं करोति यः

॥६८॥

धर्मं करोतु दंभेन राजानं चोपसेवताम् ॥

मधुमांसं सदाश्नातु बिसस्तैन्यं करोति यः ॥

वसिष्ठ उवाच ॥

अनृतौ मैथुनं यातु दिवा वाप्यथ पर्वणि ॥

अतिथिः स्यात्ततोऽन्योन्यं बिसस्तैन्यं करोति यः

॥७०॥

भरद्वाज उवाच

योधिगम्य गुरोः शास्त्रं निष्क्रयं न प्रयच्छति ॥

तस्यैनसा स युक्तोस्तु बिसस्तैन्यं करोति यः

॥७१॥

नृशंसोऽस्तु स सर्वत्र समृद्ध्या चाप्यहंकृतः ॥

मत्सरी पिशुनश्चैव बिसस्तैन्यं करोति यः

॥७२॥

विश्वामित्र उवाच

एकाकी मृष्टम श्नातु प्रशंस्यादथ चात्मनः ॥

वेदविक्रयकर्तास्तु बिसस्तैन्यं करोति यः

॥७३॥

जमदग्निरुवाच

कन्यां यच्छतु वृद्धाय स भूयाद्वृषली पतिः ॥

अस्तु वार्धुषिको नित्यं बिसस्तैन्यं करोति यः

॥७४॥

गौतम उवाच

स गृह्णात्वविकादानं करोतु हयविक्रयम् ॥

प्रकरो तु गुरोर्निंदां बिसस्तैन्यं करोति यः

॥७५॥

अत्रिरुवाच

मातरं पितरं नित्यं दुर्मतिः सोऽवमन्यताम् ॥

शूद्रं पृच्छतु धर्मार्थं बिसस्तैन्यं करोति यः

॥७६॥

प्रतिश्रुत्य न यो दद्याद्ब्राह्मणाय गवादिकम् ॥

तस्यैनसा स युज्येत बिसस्तैन्यं करोति यः ॥

अरुंधत्युवाच ॥

करोतु पत्युः पूर्वं सा भोजनं शयनं तथा ॥

नारी दुष्टसमाचारा बिसस्तैन्यं करोति या

॥७८॥

चण्डोवाच

स्वामिनः प्रतिकूलास्तु धर्मद्वेषं करोतु च ॥

साधुद्वेषपरा चैव बिसस्तैन्यं करोति या

॥७९॥

पशुमुख उवाच

स्वामिद्रोहरतो नित्यं स भूयात्पापकृन्नरः ॥

साधु द्वेषपरश्चैव बिसस्तैन्यं करोति यः

॥८०॥

शुनोमुख उवाच

वेदान्स पठतु न्यायाद्गृहस्थः स्यात्प्रियातिथिः ॥

सत्यं वदतु चाजस्रं बिसस्तैन्यं करोति यः

॥८१॥

ऋषय ऊचुः

इष्ट एव द्विजातीनां यस्त्वया शपथः कृतः ॥

बिसस्तैन्यं हि चास्माकं तन्नूनं भवता कृतम्

॥८२॥

शुनोमुख उवाच

मया हृतानि सर्वेषां बिसानीमानि वो द्विजाः ॥

धर्मान्वै श्रोतुकामेन मां जानीत पुरंदरम्

॥८३॥

युष्माकं परितुष्टोऽस्मि लोभाभावाद्द्विजोत्तमाः ॥

तस्मात्स्वर्गं मया सार्द्धं शीघ्रमागम्यतामिति ।

ा ८४ ॥

ऋषय ऊचुः ॥

मोक्षमार्गं समासक्ता न वयं स्वर्गलिप्सवः ॥

तस्मात्तपश्चरिष्यामः सरसीह विमुक्तये

॥८५॥

पूर्णा सागरपर्यंतां चरित्वा पृथिवी मिमाम् ॥

प्राणयात्रां प्रकुर्वाणा मृणालैर्मुनिसत्तमाः ॥

तस्माद्गच्छ तव श्रेयो भूयादस्मात्समागमात्

॥८६॥

शक्र उवाच

न वृथा दर्शनं मे स्यात्कदाचिदपि सुव्रताः ॥

तस्माद्गृह्णीत यच्चित्ते सदाभीष्टं व्यवस्थितम्

॥८७॥

ऋषय ऊचुः

, आश्रमोऽयं सुविख्यातो भूयाच्छक्र महीतले ॥

नाम्नास्माकं तथा नृणां सर्वपातकनाशनः

॥८८॥

वयं स्थास्यामहे नित्यमत्रैव सुरसत्तम ॥

तपोऽर्थं भावितात्मानो यावन्मोक्षगतिर्ध्रुवा

॥८९॥

इन्द्र उवाच

त्रैलोक्येऽपि सुविख्यात आश्रमो वो भविष्यति ॥

तथा कामप्रदश्चैव लोकानां संभविष्यति

॥९०॥

यो यं काममभिध्याय श्राद्धमत्र करिष्यति ॥

श्रावणे पौर्णमास्यां च स तं सर्वमवा प्स्यति

॥९१॥

निष्कामो वा नरो यस्तु श्राद्धं दानमथापि वा ॥

प्रकरिष्यति मोक्षं स समवाप्स्यत्यसंशयम्

॥९२॥

ये चात्र देहं त्यक्ष्यंति युष्माकं चाश्रमे शुभे ॥

अपि पापसमायुक्तास्ते यास्यंति परां गतिम्

॥९३॥

इंगुदैर्बदरैर्वापि बिल्वैर्भल्लातकैरपि ॥

पितॄनुद्दिश्य यः श्राद्धं करिष्यति समाहितः

॥९४॥

स यास्यति परां सिद्धिं दुर्लभां त्रिदशैरपि ॥

सर्वपापविनिर्मुक्तः स्तूयमानश्च किंनरैः

॥९५॥

सूत उवाच

एवमुक्त्वा सहस्राक्षस्तैः सर्वैरभिनंदितः ०।

जगामादर्शनं तेऽपि स्थितास्तत्र द्विजोत्तमाः

॥९६॥

ततः काले गते तेऽपि कृत्वा तीव्रं महत्तपः ॥

संप्राप्ताः परमं स्थानं जरामरणवर्जितम्

॥९७॥

तैस्तत्र स्थापितं लिङ्गं देवदेवस्य शूलिनः ॥

तस्य संदर्शनादेव नरः पापाद्विमुच्यते

॥९८॥

यस्तल्लिंगं पुनर्भक्त्या पुष्पधूपानुलेपनैः ॥

अर्चयेत्स ध्रुवं मुक्तिं प्राप्नोति द्विजसत्तमाः

॥९९॥

एतत्पवित्र मायुष्यं सर्वपातकनाशनम् ॥

सप्तर्षोणां समाख्यातमाश्रमस्यानुकीर्तनम्

॥१००॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सप्तर्ष्याश्रममाहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥