मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १७८

3
नागरखण्डः · 178

एवं राज्यं मया प्राप्तं गौरीपूजा कृते विभो

लक्ष्मीरुवाच

एवं राज्यं मया प्राप्तं गौरीपूजा कृते विभो ॥

सौभाग्यं परमं चैव दुर्लभं सर्वयोषिताम्

॥१॥

न चापत्यं मया लब्धं तथापि परमेश्वर ॥

तादृशेऽपि च सौभाग्ये तारुण्ये तादृशे स्थिते

॥२॥

दह्यामि तेन दुःखेन दिवानक्तं सुखं न मे ॥

कस्यचित्त्वथ कालस्य दुर्वासा मुनिसत्तमः

॥३॥

आनर्ताधिपतेर्हर्म्यं संप्राप्तो गौरवाय सः ॥

चातुर्मास्यकृते चैव मृत्तिकाग्रहणाय च

॥४॥

ततः संपूजितो राज्ञा आनर्तेन यथाक्रमम् ॥

दत्त्वार्घ्यं मधुपर्कं च ततः प्रोक्तं प्रणम्य च

॥५॥

स्वागतं ते मुनिश्रेष्ठ भूयः सुस्वागतं च ते ॥

नान्यो धन्यतमो लोके भूयोऽस्ति सदृशो मया

॥६॥

यौ ते पादौ रजोध्वस्तौ केशैर्मे निर्मलीकृतौ ॥

तद्ब्रूहि किंकरोम्यद्य गृहायातस्य ते मुने

॥७॥

अपि राज्यं प्रयच्छामि का वार्तान्येषु वस्तुषु

॥८॥

दुर्वासा उवाच

चातुर्मासीविधानं ते करिष्ये नृप मंदिरे ॥

मृत्तिकाग्रहणं तावच्छुश्रूषा क्रियतां मम ॥

स तथेति प्रतिज्ञाय मामूचे पार्थिवोत्तमः

॥९॥

शुश्रूषा चास्य कर्तव्या सर्व दैव वरानने ॥

चातुर्मासीव्रतं यावद्देवतार्चनपूर्वकम्

॥१०॥

बाढमित्येवमुक्त्वाथ मया सर्वमनुष्ठितम् ॥

शुश्रूषार्हं च यत्कर्म दुहितेव पितुर्यथा

॥११॥

चातुर्मास्यां व्यतीतायां यदा संप्रस्थितो मुनिः ॥

तदा प्रोवाच मां तुष्टः पुत्रि किं करवाणि ते

॥१२॥

ततः स भगवान्प्रोक्तः प्रणिपत्य मया मुहुः ॥

अपत्यं नास्ति मे ब्रह्मंस्तेन दह्याम्यहर्निशम्

॥१३॥

ईदृशे सति राज्ञोऽपि यौवने च महत्तरे ॥

तत्त्वं वद मुनिश्रेष्ठ येन स्यान्मम संततिः

॥१४॥

व्रतेन नियमेनाथ दानेन च हुतेन च ॥

ततः स सुचिरं ध्यात्वा मामुवाच स्मयन्निव

॥१५॥

अन्यदेहांतरे पुत्रि त्वया गौरी प्रपूजिता ॥

तप्ताभिर्वालुकाभिः सा मृत्युकाल उपस्थिते

॥१६॥

तद्भक्त्या लब्धराज्यापि दाहेन परियुज्यसे ॥

गौरी यत्तापसंयुक्ता बालुकाभिः कृता त्वया

॥१७॥

न देवो विद्यते काष्ठे पाषाणे मृत्तिकासु च ॥

भावेषु विद्यते देवो मन्त्रसंयोगसंयुतः

॥१८॥

भावभक्तिसमा युक्ता मंत्रसंयोजनेन च ॥

देवी मन्त्रसमायाता त्वया वालुकयाऽर्चिता

॥१९॥

त्वत्काये तेन संतापः सर्वदाऽयं व्यवस्थितः ॥

तस्माद्रत्नमयीं गौरीं कृत्वा त्वं पंचपिंडिकाम् ॥

हाटकेश्वरजे क्षेत्रे संस्थापय शुभानने

॥२०॥

वृषस्थे भास्करे पश्चात्तस्या उपरि स्रावि यत् ॥

जलयन्त्रं दिवारात्रं धारयस्व प्रयत्नतः

॥२१॥

ततो यथायथा तस्याः शीतभावो भविष्यति ॥

तथातथा च ते दाहः शांतिं यास्यत्यहर्निशम्

॥२२॥

दाहांते भविता गर्भस्ततः पुत्रमवाप्स्यसि ॥

राज्यभारक्षमं शूरं त्रिषु लोकेषु विश्रुतम्

॥२३॥

अन्यापि कामिनी यात्र एवं तां पूजयिष्यति ॥

ज्येष्ठे मासे तथा सापि यथा त्वं प्रभविष्यति

॥२४॥

लक्ष्मीरुवाच

ततो मया पुनः प्रोक्तो भगवान्स मुनीश्वरः ॥

मानुषत्वे न मे रागो विरक्तिर्महती स्थिता

॥२५॥

नदीवेगोपमं दृष्ट्वा जीवितंसर्वदेहिनाम् ॥

तन्मे वद महाभाग यत्किंचिद् व्रतमुत्तमम्

॥२६॥

मानुषत्वं न येन स्यात्सम्यक्चीर्णेन सद्द्विज ॥

ततः स सुचिरं ध्यात्वा मामाह परमेश्वर

॥२७॥

अस्ति पुत्रि व्रतं पुण्यं गौरी तुष्टिकरं परम् ॥

येन चीर्णेन वै सम्यग्योषिद्देवत्वमाप्नुयात्

॥२८॥

गोमयाख्या महादेवी कृता वै गोमयेन सा ॥

ततो गोलोकमापन्नाः सर्वास्ता वरवर्णिनि

॥२९॥

तां त्वं कुरुष्व कल्याणि येन देवत्वमाप्स्यसि ॥

ततो मया पुनः प्रोक्तः स मुनिः सुरसत्तम

॥३०॥

कस्मिन्काले प्रकर्तव्या विधिना केन सन्मुने ॥

सर्वं विस्तरतो ब्रूहि येन तां प्रकरोम्यहम्

॥३१॥

दुर्वासा उवाच

नभस्ये चासिते पक्षे तृतीयादिवसे स्थिते ॥

प्रातरुत्थाय पश्चाच्च भक्षयेद्दंतधावनम्

॥३२॥

ततश्च नियमं कृत्वा उपवाससमुद्भवम् ॥

गौरीनामसमुच्चार्य श्रद्धापूतेन चेतसा

॥३३॥

ततो निशागमे प्राप्ते कृत्वा गौरीचतुष्टयम् ॥

मृन्मयं यादृशं चैव तदिहैकमनाः शृणु

॥३४॥

एका गौरी प्रकर्तव्या पंचपिंडा यथोदिता ॥

प्रहरेप्रहरे प्राप्ते तासु पूजां समाचरेत् ॥

यैर्मंत्रैस्तान्निबोध त्वमेकैकस्याः पृथक्पृथक्

॥३५॥

हिमाचलगृहे जाता देवि त्वं शंकरप्रिये ॥

मेनागर्भसमुद्भूता पूजां गृह्ण नमोस्तु ते

॥३६॥

धूपं दद्यात्ततश्चैव कर्पूरं श्रद्धया सह ॥

रक्तसूत्रेण दीपं च घृतेन परिकल्पयेत्

॥३७॥

जातिपुष्पैः समभ्यर्च्य नैवेद्ये मोदकान्न्यसेत् ॥

रक्तवस्त्रेण संछाद्य अर्घ्यं दत्त्वा ततः परम्

॥३८॥

यस्य वृक्षस्य पुष्पं च तस्य स्याद्दन्तधावनम् ॥

मातुलिंगेन तस्यास्तु मन्त्रेणानेन भक्तितः

॥३९॥

अर्घ्यं दद्यात्प्रयत्नेन गन्धपुष्पाक्षतान्वितम् ॥

शंकरस्य प्रिये देवि हिमाचलसुते शुभे ॥

अर्घ्यमेनं मया दत्तं प्रतिगृह्ण नमोऽस्तु ते

॥४०॥

तदेव प्राशनं कुर्यात्ततः कायविशुद्धये ॥

प्रहरांते च संपूज्य अर्धनारीश्वरं ततः

॥४१॥

सुरभ्या पूजयेद्भक्त्या मन्त्रेणानेन पार्वति ॥

वाममर्धं शरीरस्य या हरस्य व्यवस्थिता ॥

सा मे पूजां प्रगृह्णातु तस्यै देव्यै नमोऽस्तु ते

॥४२॥

अगरुं च ततो भक्त्या धूपं दद्यात्तथा शुभे ॥

नैवेद्ये गुणकांश्चैव नालिकेरेण चार्घकम्

॥४३॥

मन्त्रेणानेन दातव्यं तदेव प्राशनं स्मृतम् ॥

अर्धनारीश्वरौ यौ च संस्थितौ परमेश्वरौ

॥४४॥

अर्घ्यो मे गृह्यतां देवौ स्यातं सर्वसुखप्रदौ ॥

तृतीये प्रहरे प्राप्ते शतपत्र्या प्रपूजयेत्

॥४५॥

उमामहेश्वरौ देवौ मंत्रेणानेन पूजयेत्

॥४६॥

उमामहेश्वरौ देवौ यौ तौ सृष्टिलयान्वितौ ॥

तौ गृह्णीतामिमां पूजां मया दत्तां प्रभक्तितः

॥४७॥

गुग्गुलोत्थं ततो धूपं नैवेद्यं घारिकात्मकम् ॥

जातीफलेन चार्घ्यं च तदेव प्राशनं स्मृतम्

॥४८॥

ततश्चार्घ्यः प्रदातव्यो मंत्रेणानेन भक्तितः ॥

ग्रंथिचूर्णेन धूपं च अर्घ्यं मदनजं फलम्

॥४९॥

तदेव प्राशनं कार्यं ततः कायविशुद्धये

॥५०॥

उमामहेश्वरौ देवौ सर्वकामसुखप्रदौ ॥

गृह्णीतामर्घ्यमेतं मे दयां कृत्वा महत्तमाम्

॥९१॥

चतुर्थे प्रहरे प्राप्ते तां गौरीं पंचपिंडिकाम् ॥

भृंगराजेन संपूज्य मंत्रेणानेन भक्तितः

॥५२॥

पृथिव्यादीनि भूतानि यानि प्रोक्तानि पंच च ॥

पंचरूपाणि देवेशि पूजां गृह्ण नमोऽस्तु ते

॥५३॥

नैवेद्ये घृतपूपांश्च दद्याद्देव्याः प्रभक्तितः ॥

ग्रंथिचूर्णेन धूपं च ह्यर्घ्यं मदनजं फलम् ॥

तदेव प्राशनं कार्यमर्घ्यमंत्रमिदं स्मृतम्

॥५४॥

पंचभूतमयी देवी पंचधा या व्यवस्थिता ॥

अर्घ्यमेनं मया दत्तं सा गृह्णातु सुरे श्वरी

॥५५॥

एवं सर्वा निशा सा च गीतवाद्यादिनिःस्वनैः ॥

तासां चैवाग्रतो नेया नैव निद्रां समाचरेत्

॥५६॥

ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥

स्नात्वा संपूजयेद्विप्रं सह पत्न्या प्रभक्तितः

॥५७॥

वस्त्रैराभरणैश्चैव स्वशक्त्या नृपनंदिनि ॥

गौर्यै भक्ष्यं च दातव्यं मिष्टान्नेन शुचिस्मिते

॥५८॥

ततः करेणुमानीय वडवां वा सुमध्यमे ॥

गौरीचतुष्टयं तच्च समारोप्य तथोपरि

॥५९॥

गीतवादित्रशब्देन वेदध्वनियुतेन च ॥

नद्यां वाऽथ तडागे वा वाप्यां वाथ परिक्षिपेत्

॥६०॥

मंत्रेणानेन सद्भक्त्या तवेदं वच्मि सुन्दरि

॥६१॥

आहूतासि मया देवि पूजितासि मया शुभे ॥

मम सौभाग्यदानाय यथेष्टं गम्यतामिति

॥६२॥

लक्ष्मीरुवाच

एवं मया कृता देव सा तृतीया यथोदिता ॥

नभस्ये मासि संप्राप्ते भक्त्या परमया विभो

॥६३॥

द्वितीये च तथा प्राप्ते तृतीये च विशेषतः ॥

यावत्पश्यामि प्रत्यूषे तावद्गौरीचतुष्टयम् ॥

जातं रत्नमयं तच्च मया यत्परिपूजितम्

॥६४॥

प्रस्थितां मां नदीतीरमुद्दिश्य च विसर्जनम् ॥

करिष्यामीति सा प्राह व्यक्तीभूता सुरेश्वरी

॥६५॥

मा पुत्रि जलमध्येऽत्र मम मूर्तिचतुष्टयम् ॥

परिभावय मद्वाक्यं श्रुत्वा चैव विधीयताम्

॥६६॥

हाटकेश्वरजे क्षेत्रे स्थापय त्वं च मा क्षिप ॥

अक्षयं जायते येन सर्वस्त्रीणां हिताय च

॥६७॥

त्वं प्रार्थय वरं सर्वं ददाम्यहमिहार्चिता ॥

अभ्यर्चिता गिरिसुता मया प्रोक्ता सुरेश्वरी

॥६८॥

यदि यच्छसि मे देवि वरं तुष्टा सुरेश्वरि ॥

तदहं मानुषे गर्भे मा भूयासं कथंचन

॥६९॥

भर्त्ता भवतु मे विष्णुः शाश्वताभीष्टदः सदा ॥

नान्यत्किंचिदभीष्टं मे राज्यं त्रिदिवशोभनम् [

॥७०॥

अन्यापि कुरुते या च व्रतमेतत्समाहिता ॥

सर्वैर्त्रतैर्यथातुष्टिस्तथा देवि प्रजायते

॥७१॥

तथा तस्याः प्रकर्तव्यमकेनानेन पार्वति ॥

तथेति गौरी मामुक्त्वा ततश्चादर्शनं गता

॥७२॥

सा देवी च मया तत्र तच्च गौरीचतुष्टयम् ॥

हाटकेश्वरजे क्षेत्रे शुभे संस्थापितं विभो

॥७३॥

तत्प्रभावान्मया लब्धो भर्त्ता त्वं परमेश्वर ॥

शाश्वतश्चाक्षयश्चैव मुखप्रेक्षश्च सर्वदा

॥७४॥

एतत्त सर्वमाख्यातं यत्पृष्टास्मि सुरेश्वर ॥

सत्येनानेन देवेश तव पादौ स्पृशाम्यहम्

॥७५॥

सूत उवाच

तच्छ्रुत्वा वचनं तस्याः शंखचक्रगदाधरः ॥

विहस्याथ महालक्ष्मीं तामुवाच प्रहर्षितः ॥

मुहुर्मुहुः समालिंग्य वक्षसश्चोपरि स्थिताम्

॥७६॥

साधुमाधु महाभागे सत्यमेतत्त्वयोदितम् ॥

जानतापि मया पृष्टा भवतीं वरवर्णिनि

॥७७॥

सूत उवाच

एतद्वः सर्वमाख्यातं यत्पृष्टोऽस्मि द्विजोत्तमाः ॥

चतुर्भुजा यथा गौरी संजाता पंचपिंडिका

॥७८॥

यश्चैतत्पठते भक्त्या प्रातरुत्थाय मानवः ॥

न स लक्ष्म्या विमुच्येत न च दौर्भाग्यमाप्नुयात्

॥७९॥

तस्मात्सर्वप्रयत्नेन पठनीयमिदं शुभम् ॥

आख्यानं गौरिकं विप्रा यन्मया परिकीर्तितम्

॥८०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पंचपिंडिकागौर्युत्पत्तिमाहात्म्य वर्णनंनामाष्टसप्तत्युत्तरशततमोऽध्यायः ॥ १७८ ॥