मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १७१

3
नागरखण्डः · 171

एतस्मिन्नेव काले तु विश्वामित्रो महामुनिः

सूत उवाच

एतस्मिन्नेव काले तु विश्वामित्रो महामुनिः ॥

तां शक्तिं व्यर्थतां प्राप्तां ज्ञात्वा कोपसमन्वितः

॥१॥

मुमोच तद्वधार्थाय ब्रह्मास्त्रं सोऽभिमंत्रितम् ॥

तस्य संहितमात्रस्य प्रस्वनः समजायत

॥२॥

ततश्चोल्काः प्रभूताश्च प्रयांति च नभस्तलात् ॥

ततः कुन्ताः शक्तयश्च तोमराः परिघास्तथा

॥३॥

भिंडिपाला गदाश्चैव खड्गाश्चैव परश्वधाः ॥

बाणाः प्रासाः शतघ्न्यश्च शतशोऽथ सहस्रशः

॥४॥

वसिष्ठोऽपि परिज्ञाय प्रेषितं गाधिसूनुना ॥

ब्रह्मास्त्रं मृत्यवे तेन शुचिर्भूत्वा ततः परम्

॥५॥

इषीकां च समादाय ब्रह्मास्त्रं तत्र योजयन् ॥

अब्रवीद्गाधिपुत्राय स्वस्त्यस्तु तव पार्श्वतः

॥६॥

हन्यतामस्त्रमेतद्धिमम वाक्यादसंशयम् ॥

ततस्तेन हतं तच्च ब्रह्मास्त्रं तत्समुद्भवम्

॥७॥

वज्रास्त्रं च ततो मुक्तं वज्रास्त्रेण विनाशितम् ॥

यद्यदस्त्रं क्षिपत्येष विश्वामित्रः प्रकोपितः

॥८॥

तत्तद्धंति वसिष्ठस्तु मंत्रस्य च प्रभावतः ॥

एतस्मिन्नेव काले तु क्षुभितो मकरालयः

॥९॥

शीर्यंते गिरिशृंगाणि रक्तवृष्टिः परा स्थिता ॥

प्रलयस्येव चिह्नानि संजातानि धरातले ॥

किमकाले महानेष प्रलयः संभविष्यति

॥१०॥

ततः पितामहं जग्मुः सर्वे देवाः सवासवाः ॥

प्रोचुः प्रलयचिह्नानि यानि संति धरातले

॥११॥

ततो ब्रह्मा चिरं ध्यात्वा तानुवाच दिवौकसः ॥

विश्वामित्र वसिष्ठाभ्यां युद्धमेतद्व्यवस्थितम्

॥१२॥

दिव्यास्त्रसंभवं देवास्तेनैतद्व्याकुलं जगत्

॥१३॥

तस्माद्गच्छामहे तत्र यावन्नो जायते क्षयः ॥

सर्वेषामेव भूतानां दिव्यास्त्राणां प्रभावतः

॥१४॥

ततोऽभिगम्य ते देशं यत्र तौ मुनिसत्तमौ ॥

विचामित्रवसिष्ठौ तौ युध्यमानौ परस्परम्

॥१५॥

ततः प्रोवाच तौ ब्रह्मा साम्ना परमवल्गुना ॥

निवर्त्यतामिदं युद्धमेतद्दिव्यास्त्रसंभवम् ॥

यावन्न प्रलयो भावि समस्ते धरणीतले

॥१६॥

वसिष्ठ उवाच

नाहमस्त्रं प्रयुंजामि विश्वामित्रवधेच्छया ॥

आत्मरक्षाकृते देव अस्त्रमस्त्रेण शामयन्

॥१७॥

अयं मम विनाशाय केवलं चास्त्रमोक्षणम् ॥

कुरुते निर्दयो ब्रह्मंस्तं निवारय सांप्रतम्

॥१८॥

ब्रह्मोवाच

विश्वामित्र मुनिश्रेष्ठ वसिष्ठं ब्राह्मणोत्तमम् ॥

त्वं रक्ष मम वाक्येन तथा सर्वमिदं जगत्

॥१९॥

अस्त्रमोक्षविरामं त्वं ब्रह्मर्षे कुरु सत्वरम्

॥२०॥

विश्वामित्र उवाच

न मामेष द्विजं ब्रूते कथंचित्प्रपितामह ॥

तस्मादेष प्रकोपो मे संजातोऽस्य वधोपरि

॥२१॥

तस्माद्वदतु देवेश मामेष ब्राह्मणं द्रुतम् ॥

निवारयामि येनास्त्रं यदस्योपरि संधितम्

॥२२॥

ब्रह्मोवाच

त्वं वसिष्ठाधुना ब्रूहि विश्वामित्रं ममाज्ञया ॥

ब्राह्मणो जायते तेन तव जीवस्य रक्षणम्

॥२३॥

वसिष्ठ उवाच

नाहं क्षत्रियसंजातं ब्राह्मणं वच्मि पद्मज ॥

न वधे मम शक्तोऽयं कथंचित्क्षत्रियोद्भवः

॥२४॥

ब्राह्म्यं तेजो न क्षा त्त्रेण तेजसा संप्रणश्यति ।

एवं ज्ञात्वा चतुर्वक्त्र यद्युक्तं तत्समाचर

॥२५॥

ब्रह्मोवाच

विश्वामित्र द्विजश्रेष्ठ त्यक्त्वा दिव्यास्त्रसंभवम् ॥

कुरु युद्धं वसिष्ठेन नो चेच्छप्स्यामहं च ते

॥२६॥

विश्वामित्र उवाच

दिव्यास्त्राणि च संत्यज्य मया वध्यः सुदुर्मतिः ॥

किंचिच्छिद्रं समासाद्य त्वं गच्छ निजसंश्रयम् ॥

सूत उवाच ॥

बाढमित्येवमुक्ता च ब्रह्मलोकं गतो विधिः ॥

विश्वामित्रवसिष्ठौ च सरस्वत्यास्तटे स्थितौ

॥२८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वसिष्ठविश्वामित्र युद्धे दिव्यास्त्रनिवर्तनवर्णनंनामैकसप्तत्युत्तरशततमोऽध्यायः ॥ १७१ ॥