मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ५१

3
नागरखण्डः · 51

सत्यं मत्वा पुनः प्राह नन्दिनीं पुत्रवत्सलाम्

सूत उवाच

अथ ताच्छपथाञ्छ्रुत्वा स व्याघ्रो विस्मयान्वितः ॥

सत्यं मत्वा पुनः प्राह नन्दिनीं पुत्रवत्सलाम्

॥१॥

यद्येवं तद्गृहं गच्छ वीक्षयस्व निजात्मजम् ॥

सखीनामर्पयित्वाथ भूय आगमनं कुरु

॥२॥

सूत उवाच

इति व्याघ्रवचः श्रुत्वा सुशीला नन्दिनी तदा ॥

गतालयं समुद्दिश्य यत्र बालः सुतः स्थितः

॥३॥

अथाकालागतां दृष्ट्वा मातरं त्रस्तचेतसम् ॥

रंभमाणां समालोक्य वत्सः प्रोवाच विस्मयात्

॥४॥

कस्मात् प्राप्तास्यकाले तु कस्मादुद्भ्रांतमानसा ॥

वाष्पक्लिन्नमुखी कस्माद्वद मातर्द्रुतंमम

॥५॥

नंदिन्युवाच

यदि पृच्छसि मां पुत्र स्तनपानं समाचर ॥

येन तृप्तस्य ते सर्वं वृत्तांतं तद्वदाम्यहम्

॥६॥

सूत उवाच

सोऽपि तद्वचनं श्रुत्वा पीत्वा क्षीरं यथोचितम् ॥

आघ्रातश्च तया मूर्ध्नि ततः प्रोवाच सत्वरम्

॥७॥

सर्वं कीर्तय वृत्तांतमद्यारण्यसमुद्भवम् ॥

येन मे जायते स्वास्थ्यं श्रुत्वा मातस्तवास्यतः

॥८॥

नंदिन्युवाच

अहं गता महारण्ये ह्यद्य पुत्र यथेच्छया ॥

व्याघ्रेणासादिता तत्र भ्रममाणा इतस्ततः

॥९॥

स मया प्रार्थितः पुत्र भक्षमाणो नखायुधः ॥

शपथैरागमिष्यामि गोकुले वीक्ष्य चात्मजम्

॥१०॥

साहं तेन विनिर्मुक्ता शपथैर्बहुभिः कृतैः ॥

भूयस्तत्रैव यास्यामि दृष्टः संभाषितो भवान्

॥११॥

वत्स उवाच

अहं तत्रैव यास्यामि यत्र त्वं हि प्रगच्छसि ॥

श्लाघ्यं हि मरणं सम्यङ्मातुरग्रे ममाधुना

॥१२॥

एकाकिनापि मर्तव्यं त्वया हीनेन वै मया ॥

विनापि क्षीरपानेन स्वल्पेन समयेन तु

॥१३॥

यदि मातस्त्वया सार्धं व्याघ्रो मां सूदयिष्यति ॥

या गतिर्मातृभक्तानां सा मे नूनं भविष्यति

॥१४॥

अथवा ये त्वया तस्य विहिताः शपथाः शुभे ॥

ते संतु मम तिष्ठ त्वं तस्मादत्रैव गोकुले ॥

नास्ति मातृसमो बन्धुर्बालानां क्षीरजीविनाम् ॥

नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः

॥१६॥

नास्ति मातृसमः पूज्यो नास्ति मातृसमः सखा ॥

नास्ति मातृसमो देव इह लोके परत्र च

॥१७॥

एवं मत्वा सदा मातुः कर्तव्या भक्तिरुत्तमैः ॥

तमेनं परमं धर्मं प्रजापतिविनिर्मितम् ॥

अनुतिष्ठंति ये पुत्रास्ते यांति परमां गतिम्

॥१८॥

तस्मादहं गमिष्यामि त्वं च तिष्ठात्र गोकुले ॥

आत्मप्राणैस्तव प्राणान्रक्षयिष्याम्यसंशयम्

॥१९॥

नंदिन्युवाच

ममैव विहितो मृत्युर्न ते पुत्राद्य वासरे ॥

तत्कथं मम जीवं त्वं रक्षस्यसुभिरात्मनः

॥२०॥

अपश्चिममिदं पुत्र मातृसंदिष्टमुत्तमम् ॥

त्वया कार्यं प्रयत्नेन मद्वाक्यमनुतिष्ठता

॥२१॥

भ्रममाणो वने पुत्र मा प्रमादं करिष्यसि ॥

लोभात्संजायते नाश इहलोके परत्र च

॥२२॥

समुद्रमटवीं युद्धं विशंते लोभमोहिताः ॥

इह तन्नास्ति लोभेन यत्र कुर्वंति मानवाः

॥२३॥

लोभात्प्रमादाद्विश्रंभात्पुरुषो वध्यते त्रिभिः ॥

तस्माल्लोभो न कर्तव्यो न प्रमादो न विश्वसेत्

॥२४॥

आत्मा पुत्र त्वया रक्ष्यः सर्वदैव प्रय त्नतः ॥

सर्वेभ्यः श्वापदेभ्यश्च भ्रमता गहने वने

॥२५॥

विषमस्थं तृणान्नाद्यं कथंचित्पुत्रक त्वया ॥

नैकाकिना प्रगंतव्यं यूथं त्यक्त्वा निजं क्वचित्

॥२६॥

एवं संभाष्य तं वत्समवलिह्य मुहुर्मुहुः ॥

शोकेन महताविष्टा बाष्पव्याकुललोचना

॥२७॥

ततः सखीजनं सर्वं गता द्रष्टुं द्विजोत्तमाः ॥

नन्दिनीं पुत्रशोकेन पीडितांगी सुविह्वला

॥२८॥

ततः प्रोवाच ताः सर्वा गत्वाऽरण्यं द्विजोत्तमाः ॥

चरंतीः स्वेच्छया हृष्टा वांछितानि तृणानि ताः

॥२९॥

बहुले चंपके दामे वसुधारे घटस्रवे ॥

हंसनादि प्रियानंदे शुभक्षीरे महोदये

॥३०॥

तथान्या धेनवो याश्च संस्थिता गोकुलांतिके ॥

शृण्वंतु वचनं मह्यं कुर्वंतु च ततः परम् ॥

अद्याहं निजयूथस्य भ्रमंती नातिदूरतः

॥३१॥

ततश्च गहनं प्राप्ता वनं मानुषवर्जितम् ॥

व्याघ्रेणासादिता तत्र भ्रमंती तृणवांछया

॥३२॥

युष्माकं दर्शनार्थाय सुतसंभाषणाय च ॥

संप्राप्ता शपथैः कृच्छ्रात्तं विश्वास्य नखायुधम्

॥३३॥

दृष्टः संभाषितः पुत्रः शासितश्च मया हि सः ॥

अधुना भवतीनां च प्रदत्तः पुत्रको यथा

॥३४॥

अज्ञानाज्ज्ञानतो वापि भवतीनां मया कृतम् ॥

यत्किंचिद्दुष्कृतं भद्रास्तत्क्षंतव्यं प्रसादतः

॥३५॥

अनाथो ह्यबलो दीनः क्षीरपो मम बालकः ॥

मातृशोकाभिसंतप्तः पाल्यः सर्वाभिरेव सः

॥३६॥

भ्रममाणोऽसमे स्थाने व्रजमानोऽन्यगोकुले ॥

अकार्येषु च संसक्तो निवार्यः सर्वदाऽऽदरात्

॥३७॥

अहं तत्र गमिष्यामि स व्याघ्रो यत्र संस्थितः ॥

अपश्चिमप्रणामोऽयं सर्वासां विहितो मया

॥३८॥

धेनव ऊचुः

न गंतव्यं त्वया तत्र कथंचिदपि नंदिनि ॥

आपद्धर्मं न वेत्सि त्वं नूनं येन प्रगच्छसि

॥३९॥

न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु जातिर्न विवाहकाले ॥

प्राणात्यये सर्वधनापहारे पंचानृतान्याहुरपातकानि

॥४०॥

तस्मात्तत्र न गंतव्यं दोषो नास्त्यत्र ते शुभे ॥

पालयस्व निजं पुत्रं व्रजास्माभिर्निजं गृहम्

॥४१॥

नंदिन्युवाच

परेषां प्राणयात्रार्थं तत्कर्तुं युज्यते शुभाः ॥

आत्मप्राणहितार्थाय न साधूनां प्रशस्यते

॥४२॥

सत्ये प्रतिष्ठितो लोको धर्मः सत्ये प्रतिष्ठितः ॥

उदधिः सत्यवाक्येन मर्यादां न विलंघयेत्

॥४३॥

विष्णवे पृथिवीं दत्त्वा बलिः पातालमाश्रितः ॥

सत्यवाक्यं समाश्रित्य न निष्क्रामति दैत्यपः

॥४४॥

यः स्वं वाक्यं प्रतिज्ञाय न करोति यथोदितम् ॥

किं तेन न कृतं पापं चौरेणाकृत बुद्धिना

॥४५॥

सख्य ऊचुः

त्वं नंदिनि नमस्कार्या सर्वेरपि सुरासुरैः ॥

या त्वं सत्यप्रतिष्ठार्थं प्राणांस्त्यजसि दुस्त्यजान्

॥४६॥

किं त्वां कल्याणि वक्ष्यामः स्वयं धर्मार्थवादिनीम् ॥

सवरेंपि गुणैर्युक्ता नित्यं सत्ये प्रतिष्ठिताम्

॥४७॥

तस्माद्गच्छ महाभागे न शोच्यः पुत्रकस्तव ॥

भवत्या यद्वयं प्रोक्तास्तत्करिष्याम एव हि

॥४८॥

एतत्पुनर्वयं विद्मः सदा सत्यवतां नृणाम् ॥

न निष्फलः क्रियारंभः कथंचिदपि जायते

॥४९॥

सूत उवाच

एवं संभाष्य तं सर्वं नंदिनी स्वसखीजनम् ॥

प्रस्थिता व्याघ्रमुद्दिश्य पुत्रशोकेन पीडिता

॥५०॥

शोकाग्निनापि संतप्ता निराशा पुत्रदर्शने ॥

वियुक्ता चक्रवाकीव लतेव पतिता तरोः

॥५१॥

अंधेव दृष्टिनिर्मुक्ता प्रस्खलंती पदेपदे ॥

वनाधिदेवताः सर्वाः प्राऽर्थयच्च सुतार्थतः

॥५२॥

प्रसुप्तं भ्रममाणं वा मम पुत्रं सुबालकम् ॥

वनाधिदेवताः सर्वा रक्षंतु वचनान्मम

॥५३॥

एवं प्रलप्य मनसा संप्राप्ता तत्र यत्र सः ॥

आस्ते विस्फूर्जितास्यश्च तीक्ष्णदंष्ट्रो भयावहः

॥५४॥

व्याघ्रः क्षुत्क्षामकण्ठश्च तस्या मार्गावलोककः ॥

संरंभाटोपसंयुक्तः सृक्किणी परिलेहयन्

॥५५॥

नंदिन्युवाच

आगताहं महाव्याघ्र सत्ये च शपथे स्थिता ॥

कुरु तृप्तिं यथाकामं मम मांसेन सांप्रतम्

॥५६॥

तां दृष्ट्वा सोऽपि दुष्टात्मा वैराग्यं परमं गतः ॥

सत्याशया पुनः प्राप्ता संत्यज्य प्राणजं भयम्

॥५७॥

व्याघ्र उवाच

स्वागतं तव कल्याणि सुधेनो सत्यवादिनि ॥

न हि सत्यवतां किंचिदशुभं विद्यते क्वचित्

॥५८॥

त्वयोक्तं शपथैर्भद्रे आगमिष्याम्यहं पुनः ॥

तेन मे कौतुकं जातं किमेषा प्रकरिष्यति

॥५९॥

सोऽहं भद्रे दुराचारो नृशंसो जीवघातकः ॥

यास्यामि नरकं घोरं कर्मणानेन सर्वदा

॥६०॥

तस्मात्त्वं मे महाभागे पापास्यातिदुरात्मनः ॥

उपदेशप्रदानेन प्रसादं कर्तुमर्हसि

॥६१॥

येन मे स्यात्परं श्रेय इह लोके परत्र च ॥

न तेऽस्त्यविदितं किंचित्सत्याचारान्मतिर्मम

॥६२॥

तस्मात्त्वं धर्मसर्वस्वं संक्षेपान्मम कीर्तय ॥

सत्संगमफलं येन मम संजायतेऽखिलम्

॥६३॥

नंदिन्युवाच

तपः कृते प्रशंसंति त्रेतायां ध्यानमेव च ॥

द्वापरे यज्ञयोगं च दानमेकं कलौ युगे ॥

सर्वेषामेव दानानां नास्ति दानमतः परम्

॥६४॥

चराचराणां भूतानामभयं यः प्रयच्छति ॥

स सर्वभयनिर्मुक्तः परं ब्रह्मा धिगच्छति

॥६५॥

व्याघ्र उवाच

अन्येषां चैव भूतानां तद्दानं युज्यते शुभे ॥

अहिंसया भवेद्येषां प्राणयात्रान्नपूर्वकम्

॥६६॥

न हिंसया विनाऽस्माकं यतः स्यात्प्राणधारणम् ॥

तस्माद्ब्रूहि महाभागे किञ्चिन्मम सुखावहम् ॥

उपदेशं सुधर्माय हिंसकस्यापि देहिनाम्

॥६७॥

नन्दिन्युवाच

अत्रास्ति सुमहल्लिंगं पुरा बाणप्रतिष्ठितम् ॥

गहने यत्प्रभावेन त्वया मुक्तास्म्यहं ध्रुवम्

॥६८॥

तस्य त्वं प्रातरुत्थाय कुरु नित्यं प्रदक्षिणाम् ॥

प्रणामं च ततः सिद्धिं वांछितां समवाप्स्यसि

॥६९॥

नान्यस्य कर्मणः शक्तिर्विद्यते ते नखायुध ॥

पूजादिकस्य हीनत्वाद्धस्ताभ्यामिति मे मतिः

॥७०॥

एवमुक्त्वाथ सा धेनुर्व्याघ्रस्याथ वनांतिके ॥

तल्लिंगं दर्शयामास पुरः स्थित्वा द्विजोत्तमाः

॥७१॥

सोऽपि संदर्शनात्तस्य तत्क्षणान्मुक्तिमाप्तवान् ॥

व्याघ्रत्वात्पार्थिवो भूयः स बभूव यथा पुरा

॥७२॥

शापं दुर्वाससा दत्तं राज्यं स्वं सहितैः सुतैः ॥

सस्मार स नृपश्रेष्ठस्ततः प्रोवाच नंदिनीम्

॥७३॥

नृपः कलशनामाहं हैहयान्वयसंभवः ॥

शप्तो दुर्वाससा पूर्वं कस्मिंश्चित्कारणांतरे

॥७४॥

ततः प्रसादितेनोक्तस्तेनाहं नंदिनी यदा ॥

दर्शयिष्यति तल्लिंगं तदा मुक्तिर्भविष्यति

॥७५॥

सा नूनं नन्दिनी त्वं हि ज्ञाता शापान्ततो मया ॥

तत्त्वं ब्रूहि प्रदेशोऽयं कतमो वरधेनुके

॥७६॥

येन गच्छाम्यहं भूयः स्वगृहं प्रति सत्वरम् ॥

मार्गं दृष्ट्वा महाभागे मानुषं प्राप्य कञ्चन

॥७७॥

नंदिन्युवाच

चमत्कारपुरक्षेत्रमेतत्पातकनाशनम् ॥

सर्वतीर्थमयं राजन्सर्वकामप्रदायकम्

॥७८॥

यदन्यत्र भवेच्छ्रेयो वत्सरेण तपस्विनाम् ॥

दिनेनैवात्र तत्सम्यग्जायते नात्र संशयः

॥७९॥

एवं मत्वा मया लिंगं स्नापितं पयसा सदा ॥

एतद्यूथं परित्यज्य भक्त्या पूतेन चेतसा

॥८०॥

राजोवाच

गच्छ नन्दिनि भद्रं ते निजं प्राप्नुहि बालकम् ॥

गोकुलं च सखीः स्वाश्च तथान्यं च सुहृज्जनम्

॥८१॥

एतत्क्षेत्रं मया पूर्वं ब्राह्मणानां मुखाच्छ्रुतम् ॥

वांछितं च सदा प्रष्टुं न च द्रष्टुं प्रपारितम्

॥८२॥

राज्यकर्मप्रसक्तेन भोगासक्तेन नंदिनि ॥

स्वयमेवाधुना लब्धं नाहं सन्त्यक्तुमुत्सहे

॥८३॥

दिष्ट्या मे मुनिना तेन दत्तः शापो महात्मना ॥

कथं स्यादन्यथा प्राप्तिः क्षेत्रस्यास्य सुशोभने

॥८४॥

सूत उवाच

एवमुक्त्वा महीपालो नन्दिनीं तां विसृज्य च ॥

स्थितस्तत्रैव तल्लिंगं ध्यायमानो दिवानिशम्

॥८५॥

प्रासादं तत्कृते मुख्यं विधायाद्भुतदर्शनम् ॥

कैलासशिखराकारं तपस्तेपे तदग्रतः

॥८६॥

ततस्तस्य प्रभावेन स्वल्पैरेव दिनैर्द्विजाः ॥

संप्राप्तः परमां सिद्धिं दुर्लभां याज्ञिकैरपि

॥८७॥

तत्र यः कार्तिके मासि दीपकं संप्रयच्छति ॥

सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥

८८ मार्गशीर्षे च सम्प्राप्ते गीतनृत्यादिकं नरः ॥

तदग्रे कुरुते भक्त्या स गच्छति परां गतिम्

॥८९॥

एतद्वः सर्वमाख्यातं सर्वपातकनाशनम् ॥

कलशेश्वरमाहात्म्यं विस्तरेण द्विजोत्तमाः

॥९०॥

भक्त्या पठति यश्चैतच्छ्रद्धया परया युतः ॥

सोऽपि पापविनिर्मुक्तः शिवलोके महीयते

॥९१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये कलशेश्वरमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽ ध्यायः ॥ ५१ ॥