ऽष्टषष्टितीर्थमाहात्म्यवर्णनम्
श्रीदेव्युवाच
नैतेष्वपि सुरश्रेष्ठ सर्वेषु भुवि मानवाः ॥
अपि दीर्घायुषो भूत्वा स्नातुं शक्ताः कथंचन
॥१॥एतेषामपि साराणि मम तीर्थानि कीर्तय ॥
येषु स्नातो नरः सम्यक्सर्वेषां लभते फलम्
॥२॥ईश्वर उवाच
एतेषां मध्यतो देवि तीर्थाष्टकमनुत्तमम् ॥
अस्ति स्नातैर्नरैस्तत्र सर्वेषां लभ्यते फलम्
॥३॥नैमिषं चैव केदारं पुष्करं कृमिजांगलम् ॥
वाराणसी कुरुक्षेत्रं प्रभासं हाटकेश्वरम्
॥४॥अष्टास्वेतेषु यः स्नातः सम्यक्छ्रद्धासमन्वितः ॥
स स्नातः सर्वतीर्थेषु सत्यमेतन्मयोदितम्
॥५॥श्रीदेव्युवाच
कलिकाले महादेव भविष्यति कथंचन ॥
स्नानं तस्मान्मम ब्रूहि यत्सारं तीर्थमेव हि
॥६॥अष्टानामपि चैतेषां देवदेव त्रिलोचन ॥
यद्यहं वल्लभा भक्ता तथा चित्तानुवर्तिनी
॥७॥ईश्वर उवाच
अष्टानामपि देवेशि क्षेत्राणामस्ति चोत्तमम् ॥
एतेषामपि तत्क्षेत्रं हाटकेश्वरसंज्ञितम्
॥८॥यत्र सर्वाणि क्षेत्राणि संस्थितानि ममाज्ञया ॥
तथान्यानि च तीर्थानि कलिकालेऽपि संस्थिते
॥९॥तस्मात्सर्वप्रयत्नेन तत्क्षेत्रं सेव्यमेव हि ॥
मानुषैर्मोक्षमिच्छद्भिः सत्यमेतन्म योदितम्
॥१०॥सूत उवाच
एतद्वः सर्वमाख्यातमष्टषष्टिसमुद्भवम् ॥
समुच्चयं द्विजश्रेष्ठा नामदेवसमन्वितम्
॥११॥यथा देवेन चाख्यातं पार्वत्या गुह्यमुत्तमम् ॥
प्रसन्नेन मया कृत्स्नं युष्माकं समुदाहृतम्
॥२॥यश्चैतत्पठते भक्त्या ह्यष्टषष्टिसमुद्भवम् ॥
स्नानजं लभते पुण्यं शृण्वानः श्रद्धयान्वितः
॥१३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्य ऽष्टषष्टितीर्थमाहात्म्यवर्णनंनाम दशोत्तरशततमोऽध्यायः ॥ ११० ॥