मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १५७

3
नागरखण्डः · 157

वरलब्धिवर्णनम्

सूत उवाच

एवं संबोधितस्तैस्तु लोकैः पुष्पस्तदा द्विजाः ॥

तानब्रवीत्ततः कुद्धो न करिष्यामि भोजनम्

॥१॥

यावन्न चास्य पापस्य करिष्यामि प्रतिक्रियाम् ॥

तद्वदध्वं महाभागा देवो वा देवताऽथवा

॥२॥

तथान्ये सिद्धमन्त्रा वा सद्यः प्रत्ययकारकाः ॥

आराधिता यथा सद्यो मानुषाणां वरप्रदाः

॥३॥

जना ऊचुः

एको देवः स्थितश्चात्र सद्यःप्रत्ययकारकः ॥

तथैका देवता चात्र श्रूयते जगती तले

॥४॥

पुष्प उवाच

कोऽसौ देवः कियद्दूरे कस्मिन्स्थाने व्यवस्थितः ॥

तथा च देवता ब्रूत दयां कृत्वा ममोपरि

॥५॥

जना ऊचुः

चमत्कारपुरे सूर्यो याज्ञवल्क्यप्रतिष्ठितः ॥

अस्ति विप्र श्रुतोऽस्माभिः सद्यः प्रत्ययकारकः

॥६॥

सूर्यवारेण सप्तम्यां फलहस्तः प्रदक्षिणाम् ॥

यः करोति नरस्तस्य ह्यष्टोत्तरशतं द्विज

॥७॥

तस्य सिद्धिप्रदः सम्यङ्मनसा वांछितं ददेत् ॥

तथान्या शारदा नाम देवी काश्मीरसंस्थिता

॥८॥

उपवासकृतेरेव सापि सिद्धिप्रदायिनी ॥

तच्छ्रुत्वा वचनं तेषां जनानां स द्विजोत्तमाः

॥९॥

समुद्दिश्य चमत्कारं तस्मात्स्थानात्ततः परम् ॥

चमत्कारपुरं प्राप्य सप्तम्यां सूर्यवासरे

॥१०॥

तत्रागत्य ततः स्नात्वा शुचिर्भूत्वा समाहितः ॥

गतः संति ष्ठते यत्र याज्ञवल्क्यकृतो रविः

॥११॥

ततः प्रदक्षिणाः कृत्वा अष्टोत्तरशतं मिताः ॥

नालिकेराणि चादाय श्रद्धया परयाः युतः

॥१२॥

ततः क्षुत्क्षामकंठः स परिश्रांतस्तदग्रतः ॥

उपविष्टो जपं कुर्वन्सूर्येष्टैः स्तवनैस्तदा

॥१३॥

मंडलब्राह्मणाद्यैश्च तारं स्वरमुपाश्रितः ॥

सप्तयुंजर वाद्यैश्च अग्निरेवेति भक्तितः

॥१४॥

आदित्यव्रतसंज्ञाद्यैः सामभिर्दृढभक्तिभाक् ॥

क्षुरिकामंत्रपूर्वैश्च तथैवाथर्वणोद्भवैः

॥१५॥

यावदन्योर्कवारस्तु नैव तुष्टो दिवाकरः ॥

पौर्णमासीदिने प्राप्ते वैराग्यं परमं गतः

॥१६॥

ततः पुष्पो विधायाथ स्नानं धौतांबरः शुचिः ॥

भूनाम्ना साध्य भूमिं च स्थंडिलार्थं द्विजोत्तमाः

॥१७॥

स्थंडिलं हस्तमात्रं च स्थंडिले प्रत्यकल्पयत् ॥

अग्निमीळेतिमंत्रेण ततोऽग्निं स निधाय च

॥१८॥

तृणैः परिस्तृणामीतिकृत्वोपस्तरणं ततः ॥

आब्रह्मन्निति मन्त्रेण दत्त्वा ब्रह्मासनं ततः

॥१९॥

सुत्रामाणमिति प्रोच्य समिधःस्थापनं च यत् ॥

प्रोक्षणीपात्रमासाद्य प्रोक्षणं कृतवांस्ततः

॥२०॥

पात्राणामथ सर्वेषां स्रुवादीनां यथाक्रमम् ॥

ततः प्रकल्पयामास हविःस्थाने निजां तनुम्

॥२१॥

न्यायं तु देवतास्थाने स आचार्यविधानतः ॥

ग्रहणं प्रोक्षणं चैव सूर्याय त्वेति चोत्तरम्

॥२२॥

अयं त इध्म आत्मेति जप्त्वाथ समिधं ततः ॥

अग्निसोमेति मन्त्राभ्यां हुत्वा चाज्याहुती ततः

॥२३॥

कृत्वा व्याहृतिहोमं तु भूर्भुवः स्वेति भो द्विजाः ॥

ये ते शतेति मन्त्राद्यैर्हुत्वात्रैव च दारुणम्

॥२४॥

आह्वयामास वह्निं च प्रत्यक्षो भव देव मे ॥

एवं मन्त्रेण कृत्वा तं संमुखं ज्वलनं ततः

॥२५॥

कालीकरालिकाद्याश्च सप्तजिह्वाश्च याः स्मृताः ॥

तासामाह्वानकं कृत्वा ततो दीप्ते हविर्भुजि

॥२६॥

जुहाव च स मांसानि स्वानि चोत्कृत्त्य शस्त्रतः ॥

लोमभ्यः स्वाहेति विदिशो दिग्भ्यो दत्त्वा ततः परम्

॥२७॥

अग्नये स्विष्टकृतइति यावदात्मानमाक्षिपेत् ॥

तावद्धृतः स सूर्येण स्वहस्तेन समंततः

॥२८॥

धृतश्च सादरं तेन मा विप्र कुरु साहसम् ॥

नेदृग्घोमः कृतः क्वापि कदाचित्केनचिद्द्विज

॥२९॥

तुष्टोऽहं च महाभाग ब्रूहि किं करवाणि ते ॥

अदेयमपि दास्यामि यत्ते मनसिवर्तते

॥३०॥

पुष्प उवाच

यदि तुष्टोसि देवेश यदि देयो वरो मम ॥

तद्देयं गुटिकायुग्मं यदर्थं प्रार्थयाम्यहम्

॥३१॥

वैदिशे नगरे चास्ति मणिभद्रो महाधनी ॥

कुब्जांगः क्षत्रियो देव जरावलिसमन्वितः

॥३२॥

अब्रह्मण्यो महानीचः कीनाशो जनदूषितः ॥

द्वयोरेकां यदा वक्त्रे सदा चैव करोम्यहम्

॥३३॥

तदा मे तादृशं रूपमविकल्पं भवत्विति ॥

यदा पुनर्गृहीत्वा तां द्वितीयां प्रक्षिपाम्यहम्

॥३४॥

ततश्च सहजं रूपं मम भूयात्सुरेश्वर ॥

वैदिशे नगरे चास्ति मणिभद्रः सुरेश्वर

॥३५॥

अपरं तस्य यत्किंचिद्धनधान्यादिकं गृहे ॥

तत्सर्वं विदितं मे स्यात्तथा देव प्रजायताम्

॥३६॥

किं वानेन बहूक्तेन तस्य मित्राणि बांधवाः ॥

व्यवहारास्तथा सर्वे प्रकटाः स्युः सदैव हि

॥३७॥

न कश्चिज्जायते तत्र विकल्पः कस्यचित्क्वचित् ॥

मम तस्याधम स्यापि सर्वकृत्येषु सर्वदा

॥३८॥

भास्कर उवाच

गृहाण त्वं महाभाग गुटिकाद्वितयं शुभम् ॥

शुक्लं कृष्णं च वक्त्रस्थं विभेद जननं महत्

॥३९॥

शुक्लया तस्य रूपं च तव नूनं भविष्यति ॥

कृष्णयापि पुनः स्वं च संप्राप्स्यसि महाद्विज

॥४०॥

पुष्प उवाच

अपरं वद मे देव संदेहं हृदये स्थितम् ॥

यत्त्वां पृच्छामि देवेश तव कीर्तिविवर्धनम्

॥४१॥

मया श्रुतं सुरश्रेष्ठ सप्तम्यां सूर्यवासरे ॥

यस्ते प्रदक्षिणानां च कुर्यादष्टोत्तरं शतम् ॥

तस्य त्वं तत्क्षणादेव फलहस्तस्य सिद्धिदः

॥४२॥

मूर्खस्यापि च पापस्य सर्वदोषान्वितस्य च ॥

चतुर्वेदस्य मे कस्मात्तीर्थयात्रापरस्य च

॥४३॥

सप्तरात्रे गते तुष्टो होम एवंविधे कृते

॥४४॥

श्रीसूर्य उवाच

तामसेन तु भावेन त्ववा सर्वमिदं कृतम् ॥

तेन सर्वं वृथा जातं त्वया सर्वं च यत्कृतम्

॥४९॥

यत्किंचित्क्रियते विप्र तामसं भावमाश्रितैः ॥

तत्सर्वं जायते व्यर्थं किं न वेत्ति भवा निदम्

॥४६॥

एवमुक्त्वा ततः सूर्यस्तस्य गात्राण्युपास्पृशत् ॥

खंडितानि स्वहस्तेन निर्व्रणानि कृतानि च

॥४७॥

अब्रवीच्च पुनः पुष्पं प्रसन्न वदनः स्थितः ॥

अनेनैव विधानेन यः करोति कुशंडिकाम्

॥४८॥

सोम्यभावं समाश्रित्य समिद्भिश्चार्कसंभवैः ॥

तिलाक्षतैर्विशेषेण होमं यस्तु समाचरेत्

॥४९॥

छन्दऋषिसमोपेतमेकं यावत्सहस्रकम् ॥

तस्य दास्याम्यहं हृत्स्थमधिकेभ्योऽधिकं फलम्

॥५॥

एवमुक्त्वा सहस्रांशुस्तत्रैवां तरधीयत ॥

दीपवल्लक्षितो नैव केन मार्गेण निर्गतः

॥५१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सूर्यसकाशात्पुष्पब्राह्मणस्य वरलब्धिवर्णनंनाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५७ ॥