मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १६

3
नागरखण्डः · 16

तस्मात्सर्वप्रयत्नेन त्यक्त्वाऽन्या निखिलाः क्रियाः

सूत उवाच

तस्मात्सर्वप्रयत्नेन त्यक्त्वाऽन्या निखिलाः क्रियाः ॥

रक्तशृंगस्य सांनिध्यं सेवनीयं विचक्षणैः

॥१॥

किं दानैः किं क्रियाकांडैः किं यज्ञैः किं व्रतैरपि ॥

तत्क्षेत्रं सेवयेद्भक्त्या हाटकेश्वरसंभवम्

॥२॥

अग्निष्टोमादयो यज्ञाः सर्वे संपूर्णदक्षिणाः ॥

तस्य क्षेत्रस्य पुरतः कलां नार्हंति षोडशीम्

॥३॥

चान्द्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥

तस्य क्षेत्रस्य पुरतः कलां नार्हंति षोडशीम्

॥४॥

प्रभासाद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ॥

तस्य क्षेत्रस्य पुरतः कलां नार्हंति षोडशीम्

॥५॥

भूमिदानानि सर्वाणि धर्माः सर्वे दयादिकाः ॥

तस्य क्षेत्रस्य पुरतः कलां नार्हंति षोडशीम्

॥६॥

तत्र राजर्षयः पूर्वं प्रभूताः सिद्धिमागताः ॥

पशवः पक्षिणः सर्पाः सिंहव्याघ्रा मृगादयः

॥७॥

तत्र कालवशान्नष्टास्तेऽपि प्राप्ता दिवालयम् ॥

यस्तत्र व्रतहीनोऽपि कृषिकर्मरतोऽपि वा

॥९॥

निवासं कुरुते विप्रा मृतस्तत्र दिवं व्रजेत् ॥

किंवा च बहुनोक्तेन भूयोभूयो द्विजोत्तमाः

॥९॥

श्रूयतां परमं गुह्यं तस्य क्षेत्रस्य संभवम् ॥

पुनंति क्षेत्रतीर्थानि संवासादिह मानवान्

॥१०॥

हाटकेश्वरजं क्षेत्रं पुनाति स्मरणादपि ॥

किं पुनर्दर्शनाद्विप्राः स्पर्शनाच्च विशेषतः

॥११॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रक्तशृङ्गसांनिध्यसेवनफलश्रैष्ठ्यवर्णनंनाम षोडशोऽ ध्यायः ॥ १६ ॥