मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १७५

3
नागरखण्डः · 175

याज्ञवल्क्येश्वरोत्पत्तिमाहात्म्यवर्णनम्

सूत उवाच

एवं संशोचते यावदात्मानं परिगर्हयन् ॥

ततस्तु ब्रह्मणा प्रोक्तः स्वयमभ्येत्य भो द्विजाः

॥१॥

त्वया शंका न कर्तव्या सुतस्यास्य कृते द्विज ॥

अज्ञानादेव ते जातो दैवयोगेन बालकः

॥२॥

याज्ञवल्क्य उवाच

तथापि देव मे शुद्धिर्हृदयस्य न जायते ॥

तस्माद्वद सुरश्रेष्ठ प्रायश्चित्तं विशुद्धये

॥३॥

ब्रह्मोवाच

यदि ते चित्तशुद्धिस्तु न कथंचित्प्रवर्तते ॥

तत्स्थापय महाभाग लिंगं देवस्य शूलिनः

॥४॥

अज्ञानाज्ज्ञानतोवापि यत्पापं कुरुते नरः ॥

ब्रह्महत्यादिकं चापि स्त्रीवधाद्वापि यद्भवेत्

॥५॥

पंचेष्टिकामयं वापि यः कुर्याद्धरमन्दिरम् ॥

तस्य तन्नाशमायाति तमः सूर्योदये यथा

॥६॥

विशेषेण महाभाग हाटकेश्वरसंभवे ॥

क्षेत्रे तत्र सुमेध्ये तु सर्वपातकनाशने

॥७॥

कलिकाले च संप्राप्ते यत्र पापं न विद्यते ॥

अहमप्यत्र वांछामि यज्ञं कर्तुं द्विजोत्तम

॥८॥

आनयिष्यामि तत्तीर्थं पुष्करं चात्मनः प्रियम् ॥

कलिकालभयाच्चैतद्यावन्नो व्यर्थतां व्रजेत्

॥९॥

कलिकाले तु संप्राप्ते तीर्थानि सकलानि च ॥

यास्यंति व्यर्थतां विप्र मुक्त्वेदं क्षेत्रमुत्तमम्

॥१०॥

सूत उवाच

एवमुक्त्वा चतुर्वक्त्रस्ततश्चादर्शनं गतः ॥

याज्ञवल्क्योऽपि तच्छ्रुत्वा पितामहवचोऽ खिलम्

॥११॥

लिंगं संस्थापयामास ज्ञात्वा क्षेत्रमनुत्तमम् ॥

अब्रवीच्च ततो वाक्यं मेघगंभीरया गिरा

॥१२॥

अष्टम्यां च चतुर्दश्यां यो लिंगं मामकं त्विदम् ॥

स्नापयिष्यति सद्भक्त्या तस्य पापं प्रयास्यति

॥१३॥

परदारकृतं यच्च मात्रापि च समं कृतम् ॥

क्षालयिष्यति तत्पापं स्नापितं पूजितं परैः

॥१४॥

अस्मिन्नहनि संप्राप्ते तस्य पक्षसमुद्भवम् ॥

प्रयास्यति कृतं पापं यदज्ञानाद्विनिर्मितम्

॥१५॥

ततःप्रभृति विख्यातो याज्ञव ल्क्येश्वरः शुभः ॥

तस्मिन्क्षेत्रे द्विजश्रेष्ठा हाटकेश्वरसंज्ञके

॥१६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये याज्ञवल्क्येश्वरोत्पत्तिमाहात्म्यवर्णनंनाम पंचसप्तत्युत्तरशततमोऽध्यायः ॥ १७५ ॥