मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ८

3
नागरखण्डः · 8

एवं स्वर्गमनुप्राप्ते त्रिशंकौ नृपसत्तमे

सूत उवाच

एवं स्वर्गमनुप्राप्ते त्रिशंकौ नृपसत्तमे ॥

सशरीरे द्विजश्रेष्ठा विश्वामित्रसमुद्यमात्

॥१॥

तत्तीर्थं ख्यातिमायातं समस्ते भुवनत्रये ॥

ततःप्रसूति लोकानां धर्मकामार्थमोक्षदम्

॥२॥

अस्पृष्टं कलिदोषेण तथान्यैरुपपातकैः ॥

ब्रह्महत्यादिकैश्चैवत्रिपुरारेः प्रभावतः

॥३॥

यस्तत्र त्यजति प्राणाञ्छ्रद्धा युक्तेन चेतसा ॥

स मोक्षमाप्नुयान्मर्त्यो यद्यपि स्यात्सुपापकृत्

॥४॥

कृमिपक्षिपतंगा ये पशवः पक्षिणो मृगाः ॥

तेऽपि तत्र मृता यांति शिवलोकमसंशयम्

॥५॥

स्नानं ये तत्र कुर्वंति श्रद्धापूतेन चेतसा ॥

त्रिशंकुरिव ते स्वर्गे प्रयांत्यपि विधर्मिणः

॥६॥

घर्मार्त्ता वा तृषार्ता वा येऽवगाहंति तज्जलम् ॥

तेऽपि यांति परं स्थानं यत्र देवो महेश्वरः

॥७॥

विश्वामित्रोऽपि तद्दृष्ट्वा तीर्थमाहात्म्यमुत्तमम् ॥

कुरुक्षेत्रं परित्यज्य तत्र वासमथाकरोत्

॥८॥

तथान्ये मुनयः शांतास्त्यक्त्वा तीर्थानि दूरतः ॥

तत्राश्रमपदं कृत्वा प्रयाताः परमं पदम्

॥९॥

तथैव मनुजाः सर्वे दूरादागत्य सत्वराः ॥

तत्र स्नात्वा दिवं यांति कृत्वा पापशतान्यपि

॥१०॥

एवं तस्य प्रभावेण तीर्थस्य द्विजसत्तमाः ॥

गच्छमानेषु लोकेषु सुखेन त्रिदिवालयम्

॥११॥

अग्निष्टोमादिका सर्वाः समुच्छेदं गताः क्रियाः ॥

न कश्चिद्यजते मर्त्यो न व्रतं कुरुते नरः

॥१२॥

न यच्छति तथा दानं न च तीर्थं निषेवते ॥

केवलं कुरुते स्नानं लिंगभेदे समाहितः

॥१३॥

ततः प्रगच्छति स्वर्गं विमानवरमाश्रितः

॥१४॥

ततः प्रपूरिताः सर्वे स्वर्गलोका नरैर्द्विजाः ॥

ब्रह्मविष्णुशिवेन्द्रादीन्स्पर्धमानैः सुरोत्तमान्

॥१५॥

ततो देवगणाः सर्वे यज्ञभागविवर्जिताः ॥

कृच्छ्रं परमनुप्राप्ता मन्त्रं चक्रुः परस्परम्

॥१६॥

हाटकेश्वरमाहात्म्यात्स्वर्गलोकः प्रपूरितः ॥

ऊर्ध्वबाहुभिराकीर्णः स्पर्धमानैः समंततः

॥१७॥

तस्मात्तत्क्रियतां कर्म येनोच्छेदं प्रगच्छति ॥

तीर्थमेद्धरापृष्ठे हाटकेश्वरसंज्ञितम्

॥१८॥

ततः संवर्तको वायुः शक्रादेशात्समंततः ॥

तत्क्षेत्रं पूरयामास पांसुभिर्द्विजसत्तमाः

॥१९॥

एवं नाशमनुप्राप्ते तस्मिंस्तीर्थे स्थलोच्चये ॥

जाते जाताः क्रियाः सर्वा भूयोऽपि क्रतुसंभवाः

॥२०॥

ततः कालेन महता वल्मीकः समपद्यत ॥

तस्मिन्क्षेत्रे स पाताले संप्रयातः शनैःशनैः

॥२१॥

अथ पातालतो नागास्तेन मार्गेण कौतुकात् ॥

मर्त्यलोकं समायांति भ्रमंति च धरातले

॥२२॥

तत्र ते मानवान्भोगान्भुक्त्वा चैव यथेच्छया ॥

पुनर्निर्यांति तेनैव मार्गेण निजमंदिरम्

॥२३॥

ततो नागबिलः ख्यातः स सर्वस्मिन्धरातले ॥

गतागतेन नागानां स वल्मीको द्विजोत्तमाः

॥२४॥

कस्यचित्त्वथ कालस्य भगवान्पाकशासनः ॥

ब्रह्महत्यासमोपेतो निस्तेजाः समपद्यत

॥२५॥

ततः पितामहादेशं लब्ध्वा मार्गेण तेन सः ॥

प्रविश्य चेक्षयामास पाताले हाट केश्वरम्

॥२६॥

अथाऽभूत्पापनिर्मुक्तस्तत्क्षणात्तस्य दर्शनात् ॥

तेजसा च समायुक्तः पुनः प्राप त्रिविष्टपम्

॥२७॥

स दृष्ट्वा तत्प्रभावं तल्लिंगं देवस्य शूलिनः ॥

हाटकेश्वरसंज्ञस्य भयं चक्रे नरोद्भवम्

॥२८॥

यदि कश्चित्पुमानत्र त्रिशंकुरिव भूपतिः ॥

पूजयिष्यति तल्लिंगं विपाप्मा श्रद्धया सह

॥२९॥

यापयिष्यति तन्नूनं मामस्मात्त्रिदशालयात् ॥

तस्मात्संपूरयाम्येनं मार्गं पाता लसंभवम्

॥३०॥

ततश्च त्वरया युक्तो रक्तशृंगं नगोत्तमम् ॥

प्रचिक्षेप बिले तस्मिन्स्वयमेव शतक्रतुः

॥३१॥

ऋषय ऊचुः

ब्रह्महत्या कथं जाता देवेन्द्रस्य महात्मनः ॥

कस्मिन्काले च सर्वं नो विस्तरात्सूत कीर्तय

॥३२॥

रक्तशृंगो गिरिः कोऽयं संक्षिप्तस्तत्र तेन यः ॥

मानुषाणां भयं तस्य कतमस्य शचीपतेः

॥३३॥

सूत उवाच

पुरा त्वष्ट्रा द्विजश्रेष्ठा हिरण्यकशिपोः सुता ॥

विवाहिता रमानाम श्रेष्ठरूपगुणान्विता

॥३४॥

अथ तस्या ययौ कालः सुप्रभूतः सुतं विना ॥

ततो वैराग्यसंपन्ना सुतार्थं तपसि स्थिता

॥३५॥

ध्यायमाना सुराधीशं देवदेवं महेश्वरम् ॥

बलिपूजोपहारेण सम्यक्छ्रद्धासमन्विता

॥३६॥

नियता नियताहारा स्नानजप्यपरायणा ॥

यच्छमाना द्विजाग्र्येभ्यो दानानि विविधानि च

॥३७॥

ततो वर्षसहस्रांते तस्यास्तुष्टो महेश्वरः ॥

उवाच वरदोऽस्मीति वृणुष्व यदभीप्सितम्

॥३८॥

सा वव्रे मम पुत्रोऽस्तु भगवंस्त्वत्प्रसादतः ॥

शूरः शस्त्रैरवध्यश्च विप्रदानवरूपधृक्

॥३९॥

वेदाध्ययन संपन्नो यज्ञकर्मसमुद्यतः ॥

तेजसा यशसा ख्यातः सर्वेषामपि देहिनाम्

॥४०॥

भगवानुवाच

भविष्यति न संदेहः पुत्रस्ते बलवान्सुधीः ॥

अवध्यः सर्वशस्त्राणां महातेजोभिरन्वितः

॥४१॥

यज्वा दानपतिः शूरो वेदवेदांगपारगः ॥

ब्राह्मणोक्ताः क्रियाः सर्वाः करिष्यति स कृत्स्नशः ॥

अजेयः संगरे चैव कृत्स्नैरपि सुरासुरैः

॥४२॥

एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥

ऋतौ सापि दधे गर्भं सकाशाद्विश्वकर्मणः

॥४३॥

ततश्च सुषुवे पुत्रं दशमे मासि शोभनम् ॥

द्वादशार्कप्रतीकाशं सर्वलक्षणलक्षितम्

॥४४॥

तस्य चक्रे पिता नाम प्राप्ते द्वादशमे दिने ॥

प्रसिद्धं वृत्र इत्येव पूजयित्वा द्विजोत्तमान्

॥४५॥

अथासौ ववृधे बालः शुक्लपक्षे यथोडुराट् ॥

पितृमातृकृतानंदो बन्धुवर्गेण लालितः

॥४६॥

ततोऽस्य प्रददौ काले व्रतं विप्रजनोचितम् ॥

समभ्येत्य स्वयं शुक्रो दानवस्यापि संद्विजः

॥४७॥

स चापि चतुरो वेदान्ब्रह्मचारिव्रते स्थितः ॥

वेदांगैः सहितान्वृत्रः पपाठ गुरुवत्सलः

॥४८॥

ततो यौवनमासाद्य भूमिपालानशेषतः ॥

जित्वा धरां वशे चक्रे पातालं तदनंत रम्

॥४९॥

ततश्चेंद्रजयाकांक्षी समासाय सुरालयम् ॥

सहस्राक्षमुखान्देवान्युद्धे चक्रे पराङ्मुखान्

॥५०॥

अथ तेन समं वज्री चक्रेऽष्टादश संयुगान् ॥

एकस्मिन्नपि नो लेभे विजयं द्विजसत्तमाः

॥५१॥

हतशेषैः सुरैः सार्धं सर्वांगक्षतविक्षतैः ॥

ततो जगाम वित्रस्तो ब्रह्मलोकं दिवा लयात्

॥५२॥

वृत्रोऽपि बुभुजे कृत्स्नं त्रैलोक्यं सचराचरम् ॥

शाक्रं पदं समास्थाय निहताशेषकंटकम्

॥५३॥

यज्ञभागभुजश्चक्रे दानवान्बल गर्वितान् ॥

देवस्थानेषु सर्वेषु यथोक्तेषु महाबलः

॥५४॥

एवं त्रैलोक्यराज्येऽपि लब्धे तस्य द्विजोत्तमाः ॥

न संतोषश्च संजज्ञे ब्रह्मलोकाभि कांक्षया

॥५५॥

ततः शुक्रं समाहूय प्रोवाच मधुरं वचः ॥

विनयावनतो भूत्वा चतुर्भिः सचिवैः सह

॥५६॥

वृत्र उवाच

ब्रह्मलोकं गतः शक्रो भयाद्गुरुकुलोद्वह ॥

कथं गतिर्भवेत्तत्र मम ब्रूहि यथातथम्

॥५७॥

येन शक्रं विरंचिं च सूदयिष्ये तथाखिलम् ॥

तुभ्यं दत्त्वा ब्रह्म लोकं भोक्ष्यामि त्रिदिवं स्वयम्

॥५८॥

शुक्र उवाच

न गतिर्विद्यते तत्र तव दानवसत्तम ॥

तस्मात्त्रैलोक्यराज्येन संतोषं कर्तुम र्हसि

॥५९॥

वृत्र उवाच

यावत्तिष्ठति सुत्रामा तावन्नास्ति सुखं मम ॥

तस्मान्निष्कंटकार्थाय यतिष्येऽहं द्विजोत्तम

॥६०॥

कथं शक्रस्य संजाता गतिस्तत्र भृगूद्वह ॥

न भविष्यति मे ब्रूहि कथं साऽद्य महामते

॥६१॥

शुक्र उवाच

तेन पूर्वं तपस्तप्तं नैमिषे दानवोत्तम ॥

यावद्वर्षसहस्रांतं ध्यायमानेन शंकरम्

॥६२॥

तत्प्रभावाद्गतिस्तस्य तत्र जाता सदैव हि ॥

सभृत्यपरिवारस्य नान्यदस्तीह कारणम्

॥६३॥

योऽन्योऽपि नैमिषारण्ये तद्रूपं कुरुते तपः ॥

ब्रह्मलोके गतिस्तस्य जायते नात्र संशयः

॥६४॥

सूत उवाच

तच्छ्रुत्वा सत्वरं गत्वा नैमिषं तीर्थमुत्तमम् ॥

तपश्चक्रे ततस्तीव्रं ध्यायमानो महेश्वरम्

॥६५॥

त्रैलोक्यरक्षणार्थाय संनिरूप्य दनूत्त मान् ॥

महाबलसमोपेताञ्छक्राधिकपराक्रमान्

॥६६॥

वर्षास्वाकाशस्थायी स हेमन्ते सलिलाश्रयः ॥

पंचाग्निसाधको ग्रीष्मे स वभूवा निलाशनः

॥६७॥

एवं तस्य व्रतस्थस्य जग्मुर्वर्षशतानि च ॥

तत्र भीतास्ततो देवा ब्रह्मविष्णुपुरःसराः

॥६८॥

चक्रुश्च सततं मंत्रं तद्विनाशाय केवलम् ॥

वीक्षयंति च च्छिद्राणि न च पश्यंति दुःखिताः

॥६९॥

अथाब्रवीत्स्वयं विष्णुश्चिरं निश्चित्य चेतसा ॥

वधोपायं समालोक्य वृत्रस्य प्रमुदान्वितः

॥७०॥

विष्णुरुवाच

तस्य शक्र वधोपायो मया ज्ञातोऽधुना ध्रुवम् ॥

तच्छ्रुत्वा कुरु शीघ्रं त्वमुपायो नास्ति कश्चन

॥७१॥

अवध्यः सर्वशस्त्राणां स कृतः शूलपाणिना ॥

तस्मादस्थिमयं वज्रं तद्वधार्थं निरूपय

॥७२॥

इन्द्र उवाच

अस्थिभिः कस्य जीवस्य वज्रं देव भविष्यति ॥

गजस्य शरभस्याथ किं वान्यस्य वदस्व मे

॥७३॥

विष्णुरुवाच

शतहस्तप्रमाणं तत्षडस्रि च सुराधिप ॥

मध्ये क्षामं तु पार्श्वाभ्यां स्थूलं रौद्रसमाकृति

॥७४॥

इंद्र उवाच

न तादृग्दृश्यते सत्त्वं त्रैलोक्येपि सुरेश्वर ॥

यस्यास्थिभिर्विधीयेत वजमेवंविधाकृति

॥७५॥

विष्णुरुवाच

दधीचिर्नाम विप्रोऽस्ति तपः परममा स्थितः ॥

द्विगुणं च तथा दीर्घः सरस्वत्यां कृताश्रमः

॥७६॥

तं गत्वा प्रार्थयाशु त्वं स्वान्यस्थीनि प्रदास्यति ॥

नादेयं विद्यते किंचित्तस्य संप्रार्थितस्य हि ॥

ततः शक्रः सुरैः सार्धं गत्वा तस्य तदाश्रमम् ॥

प्राचीसरस्वतीतीरे पुष्करे द्विजसत्तमाः ॥

अथ देवान्समा लोक्य संप्राप्तान्निजमंदिरे ॥

दधीचिः संप्रहृष्टात्मा सत्वरः संमुखं ययौ

॥७९॥

स प्रणम्य सहस्राक्षं तथान्यानपि सन्मुनिः ॥

अर्घ्यादिभिस्ततः पूजां चक्रे तेषां ततः परम्

॥८०॥

ततः प्रोवाच हृष्टात्मा विनयावनतः स्थितः ॥

स्वयमेव सहस्राक्षं प्रणिपत्य मुहुर्मुहुः

॥८१॥

दधीचिरुवाच

किमर्थमागता देवाः कृत्यं चाशु निवेद्यताम् ॥

धन्योऽहमागतो यस्य गृहे त्वं बलसूदन

॥८२॥

शक्र उवाच

वृत्रेण निर्जिताः सर्वे वयं ब्राह्मणसत्तम ॥

स वध्यो नहि शस्त्राणां सर्वेषां वरपुष्टितः

॥८३॥

सोऽस्थिसंभववज्रस्य वध्यः स्यादब्रवीद्धरिः ॥

शतहस्तप्रमाणस्य न च जीवोस्ति तादृशः

॥८४॥

त्वां मुक्त्वा ब्राह्मणश्रेष्ठ तस्मादस्थीनि यच्छ नः ॥

स्वकीयानि भवेद्येन वज्रं तस्य विनाशकम्

॥८५॥

कुरु कृत्यं द्विजश्रेष्ठ देवानामार्तिनाशनम् ॥

अन्यथा विबुधाः सर्वे नाशं यास्यंति कृत्स्नशः

॥८६॥

सूत उवाच

तच्छ्रुत्वा संप्रहृष्टात्मा दधीचिर्भगवान्मुनिः ॥

अत्यजज्जीवितं तेषां हितार्थाय दिवौकसाम्

॥८७॥

ततो देवाः प्रहृष्टास्ते गृहीत्वास्थीनि कृत्स्नशः ॥

ततश्चक्रुर्महावज्रं यादृशं विष्णुनोदितम्

॥८८॥

अथ शक्रस्तदादाय नैमिषाभिमुखो ययौ ॥

भयेन महता युक्तो वेपमानो निशागमे

॥८९॥

तत्र ध्यानस्थितं वृत्रं दूरस्थस्त्रिदशाधिपः ॥

वज्रेण ताडयामास पलायनपरायणः

॥९०॥

सोऽपि वजप्रहारेण भस्मसात्सम पद्यत ॥

वृत्रो दानवशार्दूलो वह्निं प्राप्य पतंगवत्

॥९१॥

शक्रोऽपि भयसंत्रस्तो गत्वा सागरमध्यगम् ॥

पर्वतं सुदुरारोहं तुंगशृंगं समाश्रितः

॥९२॥

न जानाति हतं वृत्रं वज्रघातेन तेन तम् ॥

केवलं वीक्षते मार्गं वृत्रागमनसंभवम्

॥९३॥

एतस्मिन्नंतरे देवाः संप्रहृष्टतनूरुहाः ।

सूत्रं विनिहतं दृष्ट्वा तुष्टुवुस्त्रिदशाधिपम्

॥९४॥

न जानंति भयान्नष्टं तस्मिन्सागरपर्वते ।

अन्विष्य चिरकालेन कृच्छ्रात्संप्राप्य तं ततः

॥९५॥

वीक्षांचक्रुः समासीनं विषमे गिरिगह्वरे ॥

तेजोहीनं तथा दीनं ब्रह्महत्यापरिप्लुतम्

॥९६॥

गात्रदुर्गंधितासंगैः पूरयन्तं दिशो दश

॥९७॥

अथोवाच चतुर्वक्त्रो दृष्ट्वा शक्रं तथाविधम् ॥

समस्तान्देवसंघातान्दूरस्थः पापशंकया

॥९८॥

शक्रोऽयं विबुधश्रेष्ठा ब्रह्महत्यापरिप्लुतः ।

तस्मातत्त्याज्यः सुदूरेण नो चेत्पापमवाप्स्यथ

॥९९॥

पश्यध्वं सर्वलिंगानि ब्रह्महत्यान्वितानि च ॥

अस्य गात्रेषु दृश्यंते तस्माद्गच्छामहे दिवि

॥१००॥

पितामहमुखान्दृष्ट्वा देवान्प्राप्तान्सुराधिपः ॥

पराङ्मुखानकस्माच्च संजातान्विस्मयान्वितः ॥

ततः प्रोवाच संभ्रांतः किमिदं गम्यते सुराः ॥

दृष्ट्वापि मामनाभाष्य कच्चित्क्षेमं गृहे मम

॥१०२॥

कच्चित्स निहतस्तेन मम वज्रेण दानवः ॥

कच्चिन्न मां स युद्धार्थमन्वेष यति दुर्मतिः

॥१०३॥

ब्रह्मोवाच

निहतः स त्वया शक्र तेन वज्रेण दानवः ॥

गतो मृत्युवशं पापो न भयं कर्तुमर्हसि

॥१०४॥

परं तस्य वधाज्जाता ब्रह्महत्या सुगर्हिता ॥

तव शक्र न तेनाद्य स्पृशामोऽस्पृश्यतां गतम्

॥१०५॥

इन्द्र उवाच

मया विनिहताः पूर्वं बहवः किल दानवाः ॥

ब्रह्महत्या न संजाता मम हत्याधुना कथम्

॥१०६॥

ब्रह्मोवाच

ते त्वया निहता युद्धे क्षात्रधर्मेण वासव ॥

विशुद्धा दानवाः सर्वे तेन जातं न पातकम्

॥१०७॥

एष यज्ञोपवीताढ्यो विशेषात्तपसि स्थितः।

छलेन निहतः शक्र तेन त्वं पापसंयुतः

॥१०८॥

इन्द्र उवाच

जानाम्यहं चतुर्वक्त्र स्वं कायं पापसंयुतम् ॥

चिह्नैर्ब्रह्मवधोद्भूतैस्तस्माच्छुद्धिं वदस्व मे

॥१०९॥

यया याति द्रुतं पापं ब्रह्महत्यासमुद्भवम् ॥

स्पृश्यो भवामि सर्वेषां देवानां प्रपितामह ॥

ब्रह्मोवाच ॥

तीर्थयात्रां सुरश्रेष्ठ तदर्थं कर्तुमर्हसि ।

तया विना न ते पापं नाशमायाति कृत्स्नशः

॥१११॥

सूत उवाच

ततस्तद्वचनाच्छक्रस्तीर्थयात्रापरायणः ॥

बभ्राम सकलां पृथ्वीं स्नानं कुर्वन्पृथक्पृथक्

॥११२॥

तीर्थेषु सुप्रसिद्धेषु नदीनदयुतेषु च ॥

वाराणस्यां प्रयागे च प्रभासे कुरुजांगले

॥११३॥

तथान्येषु सहस्राक्षो विपाप्मा न व्यजायत ॥

ततो वैराग्यमापन्नश्चिन्तयामास चेतसि

॥१४॥

अहं स्नातः समस्तेषु तीर्थेषु धरणीतले ॥

न च पापेन निर्मुक्तः किं करोमि च सांप्रतम्

॥११५॥

किं पतामि गिरेः शृंगाद्विषं वा भक्षयामि किम् ॥

त्रैलोक्यराज्यविभ्रष्टो नाहं जीवितुमुत्सहे

॥११६॥

एवं वैराग्यमापन्नो गिरिमारुह्य वासवः ॥

यावत्क्षिपति चात्मानं मरणे कृतनिश्चयः

॥११७॥

तावद्देवोत्थिता वाणी गगनाद्द्विजसत्तमाः ॥

मा शक्र साहसं कार्षीर्वैराग्यं प्राप्य चेतसि

॥११८॥

त्वया राज्यं प्रकर्तव्यं स्वर्गेऽद्यापि युगाष्टकम् ॥

तस्मात्पापविशुद्ध्यर्थं शृणु शक्र समा हितः

॥११९॥

कुरुष्व वचनं शीघ्रं भावनीयं न चान्यथा ॥

यत्त्वया पांसुभिः पूर्वं विवरं परिपूरितः

॥१२०॥

हाटकेश्वरजे क्षेत्रे यत्र देवः स्वयं हरः ॥

तत्र नागबिलो जातो वल्मीकात्त्रिदशाधिप

॥१२१॥

येन नागा धरापृष्ठे निर्गच्छंति व्रजंति च ॥

तेन मार्गेण गत्वा त्वं पाताले हाटकेश्वरम् ॥

स्नात्वा पातालगंगायां पूजयस्व महेश्वरम्

॥१२२॥

ततः पापविनिर्मुक्तो भविष्यसि न संशयः ॥

संप्राप्स्यसि च भूयोऽपि देवराज्यमकण्टकम्

॥१२३॥

सूत उवाच

अथ शक्रः समाकर्ण्य तां गिरं गगनोत्थिताम् ॥

जगाम सत्वरं तत्र यत्र नागबिलः स च

॥१२४॥

ततः प्रविश्य पातालं गंगातोयपरिप्लुतः ॥

पूजयामास तल्लिंगं हाटकेश्वरसंज्ञितम्

॥१२५॥

अथ तस्य क्षणाज्जातं शरीरं मलवर्जितम् ॥

दुर्गन्धश्च गतो नाशं तेजोवृद्धिर्बभूव ह

॥१२६॥

एतस्मिन्नंतरे प्राप्ता ब्रह्मविष्णुमुखाः सुराः ॥

प्रोचुश्च देवराजं तं मुक्तपापं प्रहर्षिताः

॥१२७॥

प्राप्तस्तु मेध्यतां शक्र विमुक्तो ब्रह्महत्यया ॥

तस्मादागच्छ गच्छामः सहितास्त्रिदशालयम्

॥१२८॥

एतन्नाग बिलं शक्र पुनः पूरय पांसुभिः ॥

नो चेदागत्य चानेन मानुषाः सिद्धिहेतवः

॥१२९॥

एतल्लिंगं समभ्यर्च्य स्नात्वा भागीरथीजले ॥

अपि पापसमायुक्ता यास्यंति परमां गतिम्

॥१३०॥

ततस्ते त्रिदशाः सर्वे स च देवं शतक्रतुः ॥

प्रणिपत्य पुनः प्रोच्चैः प्रजग्मुस्त्रिदशालयम्

॥३॥

ततो जज्ञे महांस्तत्र स्वर्गे वृत्रवधोत्सवः ॥

देवेन्द्रत्वमनुप्राप्ते पुनः शक्रे द्विजोत्तमाः

॥१३२॥

सूत उवाच

एतद्वः सर्वमाख्यातं हाटकेश्वरसंभवम् ॥

माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम्

॥१३३॥

यश्चैतत्कीर्तयेद्भक्त्या शृणोति च समाहितः ॥

स याति परमं स्थानं जरा मरणवर्जितम्

॥१३४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वृत्रवधवर्णनंनामाष्टमो ऽध्यायः ॥ ८ ॥