केनासौ मुनिशार्दूलो मांडव्यः सुमहातपाः
ऋषय ऊचुः
केनासौ मुनिशार्दूलो मांडव्यः सुमहातपाः ॥
शूलायां स्थापितः केन कारणेन च नो वद
॥१॥सूत उवाच
स मांडव्यो मुनिः पूर्वं तीर्थयात्रां समाचरन् ॥
अस्मिन्क्षेत्रे समायातः श्रद्धया परया युतः
॥२॥विश्वामित्रीयमासाद्य सत्तीर्थं पावनं महत् ॥
पितॄणां तर्पणं चक्रे भास्करं प्रति स व्रती
॥३॥जपन्विभ्राडिति श्रेष्ठं सूक्तं भास्करवल्लभम् ॥
एतस्मिन्नंतरे चौरो लोप्त्रमादाय कस्यचित्
॥४॥कोपि तत्र समायातः पृष्ठे लग्नैर्जनैर्द्विजाः ॥
ततश्चौरोऽपि तं दृष्ट्वा मौनस्थं मुनिसत्तमम्
॥५॥लोप्त्रं मुक्त्वा तदग्रेऽथ प्रविवेश गुहांतरे ॥
एतस्मिन्नंतरे प्राप्तास्ते जना लोप्त्रहेतवे
॥६॥दृष्ट्वा लोप्त्रं तदग्रस्थं तमूचुर्मुनिपुंगवम् ॥
मार्गेणानेन चायातो लोप्त्रहस्तो मलिम्लुचः ॥
ब्रूहि शीघ्रं महाभाग केन मार्गेण निर्गतः
॥७॥स च जानन्नपि प्राज्ञो गुहासंस्थं मलिम्लुचम् ॥
न किंचिदपि चोवाच मौनव्रत परायणः
॥८॥असकृत्प्रोच्यमानोऽपि परचिंतासमन्वितः ॥
यदा प्रोवाच नो किंचित्स रक्षंश्चौरजीवितम्
॥९॥ततस्तैर्मंत्रितं सर्वैरेष नूनं मलिम्लुचः ॥
संप्राप्तः पृष्ठतोऽस्माभिर्मुनिरूपो बभूव ह
॥१०॥अविचार्य ततः सर्वैराभीरैस्तैर्दुरात्मभिः ॥
शूलीमारोपितः सद्यो नीत्वा किंचिद्वनांतरम्
॥११॥एवं प्राप्ता तदा शूली मुनिना तेन दारुणा ॥
पूर्वकर्मविपाकेन दोषहीनेन धीमता
॥१२॥इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मांडव्यशूलीप्राप्तिवृत्तान्तवर्णनंनाम सप्तत्रिंशदुत्तरशततमोक्ययायः
॥१३७॥