मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १४३

3
नागरखण्डः · 143

जाबालिक्षोभणः

सूत उवाच

तथान्योऽपि च तत्रास्ति देवश्चित्रेश्वरो द्विजाः ॥

चित्रपीठस्य मध्यस्थश्चित्रसौख्यप्रदो नृणाम्

॥१॥

यं दृष्ट्वा पूजयित्वा च स्नापयित्वाथवा नरः ॥

मुच्यते परदारोत्थैः पातकैश्चोपपातकैः

॥२॥

धर्षयित्वा गुरोः पत्नीं कन्यां वा निजवंशजाम् ॥

नीचां वा व्रतयुक्तां वा कामासक्तेन चेतसा

॥३॥

चैत्रशुक्लचतुर्दश्यां यस्तं पूजयते नरः ॥

स तत्पापं निहत्याशु स्वर्गलोकं ततो व्रजेत्

॥४॥

तथा चित्रांगदस्तत्र जाबालिसहितो नृपः ॥

कुमार्या सहितः सार्द्धं नग्नया तत्समुत्थया ॥

सन्तिष्ठते तदग्रे तु शप्तो जाबालिना पुरा

॥५॥

त्रयाणामपि यस्तेषां तस्मिन्नहनि निर्वपेत् ॥

स इष्टां लभते नारीं सिद्धिं च मनसि स्थिताम्

॥६॥

ऋषय ऊचुः

कस्माज्जाबालिना शप्तः पूर्वं चित्रांगदो युवा ॥

सा च तत्तनया कस्मात्कुमारी वस्त्रवर्जिता

॥७॥

अद्यापि तिष्ठते तत्र विरुद्धं रूपमाश्रिता ॥

जनहास्य करं नित्यं तस्मात्सूत वदस्व नः

॥८॥

सूत उवाच

आर्सोत्पूर्वं मुनिर्नाम्ना जाबालिरिति विश्रुतः ॥

कौमारब्रह्मचर्येण येन चीर्णं तपः सदा

॥९॥

हाटकेश्वरजं क्षेत्रं समासाद्य स सद्द्विजाः ॥

बाल्येऽपि वयसि प्राप्ते समारेभे महत्तपः

॥१०॥

कृच्छ्रचांद्रायणादीनि पाराकाणि शनैःशनैः ॥

कुर्वता तेन ते देवाः संनीता भयगोचरम्

॥११॥

ततः शक्रादयो देवाः संत्रस्ता मेरुमूर्धनि ॥

मिलित्वा चक्रिरे मंत्रं तस्य विघ्नकृते मिथः

॥१२॥

यद्यस्य तपसो वृद्धिरेवं यास्यति नित्यशः ॥

च्यावयिष्यति तन्नूनं स्वर्गराज्याच्छतक्रतुम्

॥१३॥

तस्माद्गच्छतु रंभाख्या तत्पार्श्वे ऽप्सरसां वरा ॥

ब्रह्मचर्यविघाताय तस्यर्षेर्भावितात्मनः

॥१४॥

ब्रह्मचर्यं तपोमूलं यतः संकीर्तितं द्विजैः ॥

तस्याभावात्परिक्लेशः केवलं न फलं व्रते

॥१५॥

एवं ते निश्चयं कृत्वा समाहूय ततः परम् ॥

रंभामूचुर्महेंद्रेण सर्वे देवास्तदादरात्

॥१६॥

गच्छ शीघ्रं महाभागे जाबालिर्यत्र तिष्ठति ॥

हाटकेश्वरजे क्षेत्रे तपोविघ्नाय तस्य वै

॥१७॥

ते ते भावाः प्रयोक्तव्याः कथास्तास्ता मनोहराः ॥

वर्धयंती तथा चित्ते तस्य कामं निरर्गलम्

॥१८॥

रंभोवाच

स मुनिर्न विजानाति कामधर्मं सुरेश्वर ॥

अरसज्ञं कथं देव करिष्यामि स्मरान्वितम्

॥१९॥

इन्द्र उवाच

एष यास्यति मद्वाक्याद्वसंतस्तस्य सन्निधौ ॥

अस्य संदर्शनादेव भविष्यति स सस्मरः

॥२०॥

तस्माद्गच्छ द्रुतं तत्र सहानेन वरानने ॥

संसिद्धिर्जायते येन देवकृत्यं भवेद्द्रुतम्

॥२१॥

अथ सा तं प्रणम्योच्चैः प्रस्थिता धरणीतलम् ॥

वसंतेन समायुक्ता जाबालिर्यत्र तिष्ठति

॥२२॥

अथाकस्मादशोकस्य संजातः पुष्पसंचयः ॥

तिलकस्य च चूतस्य मंजर्यः समुपस्थिताः

॥२३॥

शिशिरे च सरोजानि विकासं प्रापुरेव हि ॥

ववौ च सुरभिर्वायुर्दाक्षिणात्यः सुकामदः

॥२४॥

एतस्मिन्नंतरे प्राप्ता रंभा तत्र वराप्सराः ॥

सलिलाशयतीरस्थो जाबालिर्यत्र तिष्ठति

॥२५॥

अक्षमालाधृतकरो जपन्मंत्रमनेकधा ॥

अभीष्टं श्रद्धया युक्तो विधाय पितृतर्पणम्

॥२६॥

अथ संपश्यतस्तस्य मुक्त्वा वस्त्रपरिग्रहम् ॥

१ स्नानार्थं तज्जलं साऽथ प्रविवेश वराप्सराः

॥२७॥

विवस्त्रां तां समालोक्य सोऽपि यौवनशालिनीम् ॥

याम्यानिलेन च स्पृष्टः कामस्य वशगो ऽभवत्

॥२८॥

ततस्तस्याभवत्कंपस्तत्क्षणादेव सन्मुने ॥

अक्षमाला कराग्राच्च पपात धरणीतले

॥२९॥

पुलकः सर्वगात्रेषु संजज्ञेऽतीव दारुणः ॥

अश्रुपाताः पतंति स्म कोष्णाः प्लावितभूतलाः

॥३०॥

अथ तं क्षुभितं ज्ञात्वा चित्तज्ञा सा वराप्सराः ॥

निर्गत्य सलिलात्तस्माच्चक्रे वस्त्रपरिग्रहम्

॥३१॥

ततस्तस्यांतिके गत्वा प्रणिपत्य कृतादरा ॥

प्रोवाच मधुरं वाक्यं वर्द्धंती तस्य तन्मतम्

॥३२॥

आश्रमे सकलं ब्रह्मन्कच्चित्ते कुशलं मुने ॥

स्वाध्याये तपसि प्राज्ञ शिष्येषु मृगपक्षिषु ॥

३_३ ॥

मुनिरुवाच

॥९॥

कुशलं मे वरारोहे सर्वत्रैवाधुना स्थितम् ॥

विशेषेणात्र संप्राप्ता सर्वलक्षणलक्षिता

॥३४॥

का त्वं वद महाभागे मम मन्मथवर्धनी ॥

किं देवी वासुरी वा किं पन्नगी किं तु मानुषी

॥३५॥

निवेदय शरीरे मे किं न पश्यसि वेपथुम् ॥

निरर्गलश्च रोमांचो बाष्पपूरश्च नेत्रजः

॥३६॥

रंभोवाच

किं ते गात्रस्वभावोऽयम् किं वान्यो व्याधिसंभवः ॥

कच्चिदेव न ते स्वास्थ्यं प्रपश्यामि शरीरजम्

॥३७॥

मुनिरुवाच

न मे गात्रस्वभावो न व्याधिभिश्च सुलोचने ॥

शृणुष्व कारणं कृत्स्नं येनेदृक्संस्थितं वपुः

॥३८॥

यावती वर्तते वेला तव दर्शनसंभवा ॥

तावत्कालमिदं रूपं मम गात्रसमुद्भवम् ॥

तदहं मन्मथाविष्टो दर्शनात्तव शोभने ॥

ब्रह्मचर्यपरोपीत्थं महाव्रतधरोऽपि च

॥४०॥

रंभोवाच

यद्येवं ब्राह्मणश्रेष्ठ मां भजस्व यथासुखम् ॥

नात्र कश्चिद्भवेद्दोषः पण्यनारी यतोऽस्म्यहम्

॥४१॥

साधारणा वयं विप्र यतः सृष्टाः स्वयंभुवा ॥

सर्वेषामेव लोकानां विशेषेण द्विजन्मनाम्

॥४२॥

अहं चापि समालोक्य त्वां मुने मन्मथोपमम् ।

हता कामशरैस्तीक्ष्णैर्न च गंतुं समुत्सहे

॥४३॥

मया दृष्टाः सुराः पूर्वं यक्षा विद्याधरास्तथा ॥

सिद्धाश्च किंनरा नागा गुह्यकाः किमु मानुषाः

॥४४॥

नेदृग्रूपं वपुस्तेषामेकस्यापि विलोकितम् ॥

मध्ये ब्राह्मणशार्दूल तस्माद्भक्तां भजस्व माम्

॥४५॥

यो नारीं कामसंतप्तां स्वयं प्राप्तां परित्यजेत् ॥

स मूर्खः पच्यते घोरे नरके शाश्वतीः समाः

॥४६॥

एवमुक्त्वा तया सोऽथ परिष्वक्तो महामुनिः ॥

अनिच्छन्नपि वाक्येन हृदयेन च सस्पृहः

॥४७॥

ततो लतानि कुंजे तं समानीय मुनीश्वरम् ।

कामशास्त्रोदितैर्भावै रराम कृत्रिमैर्मुनिम्

॥४८॥

एवं तया समं तत्र स्थितो यावद्दिनक्षयम् ॥

कामधर्मसमासक्तः संत्यक्ताशेषकर्मकः

॥४९॥

ततो निष्कामतां प्राप्तो लज्जया परिवारितः ॥

विससर्ज च तां रंभां शौचं चक्रे ततः परम्

॥५०॥

सापि तेन विनिर्मुक्ता कृतकृत्या विलासिनी ।

प्रहृष्टा प्रययौ तत्र यत्र देवाः सवासवाः

॥५१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जाबालिक्षोभणोनाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४३ ॥