मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ६५

3
नागरखण्डः · 65

आनर्तकेश्वरशूद्रकेश्वरमाहात्म्यवर्णनम्

सूत उवाच

तथान्यदपि तत्रास्ति तडागं देवनिर्मितम् ॥

यत्रानर्तो नृपः सिद्धः सुहयो नाम नामतः

॥१॥

तेनैव भूभुजा तत्र लिंगं संस्थापितं शुभम् ॥

आनर्तेश्वरसंज्ञं च सर्व सिद्धिप्रदं नृणाम्

॥२॥

तत्रांगारकषष्ठ्यां यस्तडागे स्नानमाचरेत् ॥

स प्राप्नोति नरः सिद्धिं यथाऽऽनर्ताधिपेन च

॥३॥

ऋषय ऊचुः

कथं सिद्धिस्तु संप्राप्ता आनर्तेन महात्मना ॥

सर्वं कथय तत्सूत सर्वं वेत्सि न संशयः

॥४॥

सूत उवाच

आनर्तः सुहयो नाम पुरासीत्पृथिवीपतिः ॥

सर्वारिभिर्हतो युद्धे पलायनपरायणः ॥

उच्छिष्टो म्लेच्छसंस्पृष्ट एकाकी बहुभिर्वृतः

॥५॥

अथ तस्य कपालं च कापालिक व्रतान्वितः ॥

जगृहे निजकर्मार्थं ज्ञात्वा तं वीरसंभवम्

॥६॥

आनर्तेश्वरसांनिध्ये वसमानो वने स्थितः ॥

स रात्रौ तेन तोयेन सर्वदेवमयेन च

॥७॥

तडागोत्थेन संपूर्णं रात्रौ कृत्वा प्रमुंचति ॥

आसीत्पूर्वं वणिङ्नाम्ना सिद्धसेन इति स्मृतः ॥

धनी भृत्यसमोपेतः सदा पुण्यपरायणः

॥८॥

कस्यचित्त्वथ कालस्य पण्यबुद्ध्या द्विजोत्तमाः ॥

प्रस्थितश्चोत्तरां काष्ठां स सार्थेन समन्वितः

॥९॥

अथ प्राप्तः क्रमात्सर्वैः स गच्छन्मरुमंडल म् ॥

वृक्षोदकपरित्यक्तं सर्वसत्त्वविवर्जितम्

॥१०॥

तत्र रात्रिं समासाद्य श्रांताः पांथाः समन्ततः ॥

सुप्ताः स्थानानि संसृत्य गता निद्रावशं तथा

॥११॥

ततः प्रत्यूषमासाद्य समुत्थाय च सत्वरम् ॥

प्रस्थिता उत्तरां काष्ठां मुक्त्वैकं शूद्रसेवकम्

॥१२॥

स वै मार्गपरिश्रांतो गत्वा निद्रावशं भृशम् ॥

न जजागार जातेऽपि प्रयाणे बहुशब्दिते

॥१३॥

न च तैः स स्मृतः सार्थैर्यैः समं प्रस्थितो गृहात् ॥

न च केनापि संदृष्टः स तु रोधसि संस्थितः

॥१४॥

एवं गते ततः सार्थे प्रोद्गते सूर्यमंडले ॥

तीव्रतापपरिस्पृष्टो जजागार ततः परम्

॥१५॥

यावत्पश्यति नो किञ्चित्तस्मिन्स्थाने स सार्थकम् ॥

न च तेषां मरौ तस्मिँल्लक्ष्यते पदपद्धतिः

॥६॥

ततो दुःखपरीतात्मा धावमान इतस्ततः ॥

पतितो मेदिनीपृष्ठे मध्याह्ने क्षुत्तृषार्दितः

॥७॥

एवं तस्य तृषार्तस्य पतितस्य धरातले ॥

धृतप्राणस्य कृच्छ्रेण संयातोऽस्ताचलं रविः

॥१८॥

ततः किंचित्ससंज्ञोऽभून्मंदीभूते दिवाकरे ॥

चिन्तयामास चित्तेन क्वाहं गच्छामि सांप्रतम्

॥१९॥

न लक्ष्यते क्वचिन्मार्गो दृश्यते न च मानुषम् ॥

नात्र तोयं न च च्छाया नूनं मे मृत्यु रागतः

॥२०॥

एवं चिन्ताप्रपन्नस्य तस्य शूद्रस्य निर्जने ॥

मरौ तस्मिन्समायाता शर्वरी तदनन्तरम्

॥२१॥

अथ क्षणेन शुश्राव स गीतं मधुरध्वनि ॥

पठतां नन्दिवृद्धानां तथा शब्दं मनोहरम्

॥२२॥

अथापश्यत्क्षणेनैव प्रेतसंघैः सभावृतम् ॥

प्रेतमेकं च सर्वेषामाधिपत्ये व्यव स्थितम्

॥२३॥

ततस्ते पार्श्वगाः प्रेता एके नृत्यं प्रचक्रिरे ॥

तत्पुरो गीतमन्ये तु स्तुतिं चैव तथा परे

॥२४॥

अथासौ प्राह तं शूद्रमतिथे कुरु भोजनम् ॥

स्वेच्छया पिब तोयं च श्रेयो येन भवेन्मम

॥२५॥

ततः स भोजनं चक्रे क्षुधार्तश्च पपौ जलम् ॥

भयं त्यक्त्वा सुविश्रब्धः प्रेतराजस्य शासनात्

॥२६॥

ततः प्रेताश्च ते सर्वे प्रेतत्वेन समन्विताः ॥

यथाज्येष्ठं यथान्यायं प्रचक्रुर्भोजनक्रियाम्

॥२७॥

एवं तेषां समस्तानां विलासैः पार्थिवोचितैः ॥

अतिक्रान्ता निशा सर्वा क्रीडतां द्विजसत्तमाः

॥२८॥

ततः प्रभाते विमले प्रोद्गते रविमंडले ॥

यावत्पश्यति शूद्रः स तावत्तत्र न किञ्चन

॥२९॥

ततश्च चिन्तयामास किमेतत्स्वप्नदर्शनम् ॥

चित्तभ्रमोऽथवाऽस्माकमिन्द्रजालमथापि वा

॥३०॥

अथवा सत्यमेतद्धि यतो मे तृप्तिरुत्तमा ॥

संजातेयं क्षुधार्त्तस्य पिपासाकुलितस्य च

॥३॥

एवं चिन्तयमानस्य भास्करो गगनांगणम् ॥

समारुरोह तापेन तापयन्धरणीतलम्

॥३२॥

ततः कंचित्समाश्रित्य स्वल्पच्छायं महीरुहम् ॥

प्राप्तवान्दिवसस्यांतं क्षुत्पिपासाप्रपीडितः

॥३३॥

ततो निशामुखे प्राप्ते भूयोऽपि प्रेतराजकम् ॥

प्रेतैस्तैश्चसमोपेतं तथारूपं व्यलोकयत्

॥३४॥

तथैव भोजनं चक्रे तस्यातिथ्यसमुद्भवम् ॥

भयेन रहितः शूद्रो हर्षेण महतान्वितः

॥३५॥

एवं तस्य निशावक्त्रे नित्यमेव स भूपतिः ॥

आतिथ्यं प्रकरोत्येव समागत्य तथैव च

॥३६॥

ततोऽन्यदिवसे प्राप्ते तेन शूद्रेण भूपतिः ॥

पृष्टः किमेतदाश्चर्यं दृश्यते रजनीमुखे

॥३७॥

विभवस्ते महाभाग प्रणश्यति निशाक्षये ॥

एतत्कीर्तय मे गुह्यं न चेत्प्रेतप संस्थितम् ॥

अत्र कौतूहलं जातं दृष्ट्वेदं सुविचेष्टितम्

॥३८॥

प्रेत उवाच

अस्ति पुण्यं महाक्षेत्रं हाटकेश्वरसंज्ञितम् ॥

गंगा च यमुना चैव स्थिते तत्र च संगमे

॥३९॥

ताभ्यामतिसमीपस्थं शिवस्यायतनं शुभम् ॥

महाव्रतधरस्तत्र तपस्यति सुनैष्ठिकः

॥४०॥

स सदा रात्रिशौचार्थं कपालं जलपूरितम् ॥

मदीयं शयने चक्रे तत्र कृत्वा निजां क्रियाम्

॥४१॥

तत्प्रभावान्ममेयं हि विभूतिर्जायते निशि ॥

दिवा रिक्ते कृते याति भूय एव महामते

॥४२॥

तस्मात्कुरु प्रसादं मे तत्र गत्वा कपालकम् ॥

चूर्णं कृत्वा मदीयं तत्तस्मिंस्तोये विनिक्षिप

॥४३॥

येन मे जायते मोक्षः प्रेतभावात्सुदारुणात्

॥४४॥

तथा तत्रास्ति पूर्वस्यां दिशि तत्तीर्थमुत्तमम् ॥

गयाशिर इति ख्यातं प्रेतत्वान्मुक्तिदा यकम्

॥४५॥

तत्र गत्वा कुरु श्राद्धं सर्वेषां त्वं महामते ॥

दृश्यते तव पार्श्वस्था भद्र संपुटिका शुभाम्

॥४६॥

अस्यां नामानि सर्वेषां यथाज्येष्ठं समालिख ॥

ततः श्राद्धं कुरुष्वाशु दयां कृत्वा गरीयसीम्

॥४७॥

वयं त्वां तत्र नेष्यामः सुखोपायेन भद्रक ॥

निधिं च दर्शयिष्यामः श्राद्धार्थं सुमहत्तरम्

॥४८॥

तथेति समनुज्ञाते तेन शूद्रेण सत्वरम् ॥

निन्युस्तं स्कन्धमारोप्य शूद्रं क्षेत्रे यथोदितम्

॥४९॥

दर्शयामासुरेवास्य निधानं भूरिवित्तजम् ॥

तदादाय गतस्तत्र यत्रासौ नैष्ठिकः स्थितः

॥५०॥

ततः प्रणम्य तं भक्त्या कथ यामास विस्तरात् ॥

तस्य भूतपतेः सर्वं वृत्तांतं विनयान्वितः

॥५१॥

ततो लब्ध्वा कपालं तच्चूर्णयित्वा समाहितः ॥

गंगायमुनयोर्मध्ये प्रचिक्षेप मुदान्वितः

॥५२॥

एतस्मिन्नंतरे प्रेतो दिव्यरूपवपुर्धरः ॥

विमानस्थोऽब्रवीद्वाक्यं शूद्रं तं हर्षसंयुतः

॥५३॥

प्रसादात्तव मुक्तोऽहं प्रेतत्वाद्दारुणादितः ॥

स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवालयम्

॥५४॥

एतेषामेव सर्वेषामिदानीं श्राद्धमाचर ॥

गत्वा गयाशिरः पुण्यं येन मुक्तिः प्रजायते

॥५५॥

ततः स विस्मयाविष्टस्तेषामेव पृथक्पृथक् ॥

श्राद्धं चक्रे च भूतानां नित्यमेव समाहितः

॥५६॥

तेऽपि सर्वे गताः स्वर्गं प्रेतास्तस्य प्रभावतः ॥

ददुश्च दर्शनं तस्य स्वप्रे हर्षसमन्विताः

॥५७॥

ततः शूद्रः स विज्ञाय तत्क्षेत्रं पुण्यवर्ध नम् ॥

न जगाम गृहं भूयस्तत्रैव तपसि स्थितः

॥५८॥

गंगायमुनयोः पार्श्वे शूद्रकेश्वरसंज्ञितम् ॥

लिगं संस्थापितं तेन सर्वपातकनाशनम्

॥५९॥

यस्तयोर्विधिवत्स्नानं कृत्वा पूजयते नरः ॥

शूद्रकेश्वरसंज्ञं च लिंगं श्रद्धासमन्वितः

॥६०॥

स सर्वैः पातकैर्मुक्तः प्रयाति शिव मंदिरम् ॥

स्तूयमानश्च गंधर्वैर्विमानवरमाश्रितः

॥६१॥

यस्तत्र त्यजति प्राणान्कृत्वा प्रायोपवेशनम् ॥

न च भूयोऽत्र संसारे स जन्माप्नोति ।

मानवः

॥६२॥

गंडूषमपि तोयस्य यस्तस्य निवसन्पिबेत् ॥

सोऽपि संमुच्यते पापादाजन्ममरणांतिकात्

॥६३॥

यस्तत्र ब्राह्मणेंद्राणां संप्रयच्छति भोजनम् ॥

पितरस्तस्य तृप्यंति यावत्कल्पशतत्रयम्

॥६४॥

त्रुटिमात्रं च यो दद्यात्तत्र स्वर्णं समाहितः ॥

स प्राप्नोति फलं कृत्स्नं राजसूयाश्वमेधयोः

॥६५॥

तस्मात्सर्वप्रयत्नेन तत्तीर्थवरमाश्रयेत् ॥

य इच्छेच्छाश्वतं स्वर्गं सदैव मनुजो द्विजाः

॥६६॥

अत्र गाथा पुरा गीता गौतमेन महर्षिणा ॥

गंगायमुनयोस्तं च प्रभावं वीक्ष्य विस्मयात्

॥६७॥

गंगायमुनयोः संगे नरः स्नात्वा समाहितः ॥

शूद्रेश्वरं समालोक्य सद्यः स्वर्गमवाप्नुयात्

॥६८॥

एतद्वः सर्वमाख्यातं गंगायमुनयोर्मया ॥

माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम्

॥६९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्य आनर्तकेश्वरशूद्रकेश्वरमाहात्म्यवर्णनंनाम पंचषष्टितमोऽध्यायः ॥ ६५ ॥