मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १३१

3
नागरखण्डः · 131

एषा रात्रिः समादिष्टा दानवानां सुरेश्वरि

देव उवाच

एषा रात्रिः समादिष्टा दानवानां सुरेश्वरि ॥

पिशाचानां च भूतानां राक्षसानां विशेषतः

॥१॥

यत्किंचित्क्रियते कर्म तत्र स्नानादिकं शुभम् ॥

तत्सर्वं जायते तेषां पुरा दत्तं स्वयंभुवा

॥२॥

मर्यादा तैः समं येन देवानां च यदा कृता ॥

अर्हाणां यज्ञभागस्य काश्यपानामथाग्रजाम्

॥३॥

तदर्थं दशसाहस्रा दानवा युद्ध दुर्मदाः ॥

कुंतप्रासकरा भानुं रुंधन्त्युद्गतकार्मुकाः

॥४॥

तमुद्दिश्य सहस्रांशुं यज्जलं परिक्षिप्यते।

सावित्रेण च मन्त्रेण तेषां तज्जायते फलम्

॥५॥

ते हतास्तेन तोयेन वज्रतुल्येन तत्क्षणात् ॥

प्रमुंचंति सहस्रांशुं नित्यमेव सुरेश्वरि

॥६॥

एतस्मात्कारणात्तोयमस्त्ररूपं क्षिपाम्यहम् ॥

संध्या कालं समुद्दिश्य भानुं संध्यां न पार्वति

॥७॥

यद्यदाचरति श्रेष्ठस्तत्तदुत्तरतः स्थितः ॥

उदयार्थं रविं यान्तं निरुन्धन्ति च दारुणाः

॥८॥

तेऽपि संध्याजलैर्देवि निहता ब्राह्मणोत्तमैः ॥

मया च तं विमुञ्चंति मूर्च्छिता निपतन्ति च

॥९॥

एतस्मात्कारणाद्देवि सन्ध्ययोरुभयोरपि ॥

अहं चान्ये च विप्रा ये ते नमंति दिवाकरम्

॥१०॥

तस्मात्त्वं गृहमागच्छ त्यक्त्वेर्ष्यां पर्वतात्मजे ॥

प्रशस्यां त्वां परित्यक्त्वा नान्यास्ति हृदये मम

॥११॥

देव्युवाच

निष्कामो वा सकामो वा संध्यां स्त्रीसंज्ञितामिमाम् ॥

यत्त्वं नमसि देवेश तन्मे दुःखं प्रजायते

॥१२॥

तस्माद्गङ्गापरित्यागं सन्ध्यायाश्च विशेषतः ॥

यावन्न कुरुषे देव तावत्तुष्टिर्न मे भवेत्

॥१३॥

एवमुक्त्वाऽथ सा देवी विशेषव्रतमास्थिता ॥

अवमन्य महादेवं प्रार्थयानमपि स्वयम्

॥१४॥

ततः स चिन्तयामास किमेतत्कारणं स्थितम् ॥

विरक्ताऽपि ममोत्कण्ठां येनैषा प्रकरोति न

॥१९॥

न च साम्ना व्रजेत्तुष्टिं कथंचिदपि पार्वती ॥

मृषेर्ष्यांधारिणी देवी नैतत्स्वल्पं हि कारणम्

॥१६॥

ततो मन्त्रप्रभावं तं विज्ञाय परमेश्वरः ॥

ध्यानं धृत्वा सुसूक्ष्मेण ज्ञानेनाथ स्वयं ततः

॥१७॥

तमेव मन्त्रं मन्त्रेण न्यासेन च विशेषतः ॥

सम्यगाराधयामास संपूज्यात्मानमात्मना

॥१८॥

यथा देव्यात्मभूतानि पृथक्कृत्वा च पंच च ॥

पूजितानि तथा देवः सर्वेषामंतरे गतः

॥१९॥

तान्येव पूजयामास पृथक्कृत्वा समाधितः ॥

नियोज्य च पुनर्बाह्ये ततः पूजां समाचरत्

॥२॥

तस्मान्नास्ति परः कश्चित्पूज्यपूज्यः स एव च ॥

ऐश्वर्यात्सर्वदेवानामीशानस्तेन निर्मितः

॥२१॥

एवं यावत्स ईशानः समाराधयति प्रभुः ॥

तावद्देवी समायाता मन्त्राकृष्टा च यत्र सः

॥२२॥

ततः प्रोवाच तं देवं प्रणिपत्यकृतांजलिः ॥

ज्ञातं मया विभो सर्वं न मां त्यज तव प्रियाम्

॥२३॥

तस्मादागच्छ गच्छावो यत्र त्वं वाञ्छसि प्रभो ॥

क्षम्यतां देव मे सर्वं न कृतं यद्वचस्तव

॥२४॥

ततस्तुष्टो महादेवस्तामालिङ्ग्य शुचिस्मिताम् ॥

इदमूचे विहस्योच्चैर्मेघगम्भीरया गिरा

॥२५॥

यैषा त्वयाऽऽत्मभूतोत्था निर्मिता परमा तनुः ॥

एतां या कामिनी काचित्पूजयिष्यति भक्तितः ॥

अनेनैव विधानेन तस्या भर्ता भविष्यति

॥२६॥

तृतीयायां विशेषेण यावत्संवत्सरं शुभे ॥

सा लभिष्यति सत्कान्तं पुत्रदं सर्वकामदम्

॥२७॥

तथैतां मामकीं मूर्तिमीशानाख्यां च ये नराः ॥

तेषां दुष्टापि या कान्ता सौम्या चैव भविष्यति

॥२८॥

ये पुनः कन्यकाहेतोः पूजयिष्यंति भक्तितः ॥

यां कन्यां मनसि स्थाप्य तां लभिष्यन्त्यसंशयम्

॥२९॥

निष्कामाश्चापि ये मर्त्या पूजयिष्यंति सर्वदा ॥

ते यास्यंति परां सिद्धिं जरामरणवर्जिताम्

॥३०॥

एवमुक्त्वा महादेवो वृषमारोप्य तां प्रियाम् ॥

स्वयमारुह्य पश्चाच्च कैलासं पर्वतं गतः

॥३१॥

नारद उवाच

तस्मात्तव सुतेयं या तामाराधयतु द्रुतम् ॥

पञ्चपिण्डमया गौरीं यावत्संवत्सरं शुभाम्

॥३२॥

तृतीयायां विशेषेण ततः प्राप्स्यति सत्पतिम् ॥

मुखप्रेक्षमतिप्रीतं रूपादिभिर्गुणैर्युतम्

॥३३॥

शांडिल्युवाच

एवमुक्त्वा मुनिश्रेष्ठो नारदः प्रययौ ततः ॥

तीर्थयात्रां प्रति प्रीत्या मम मात्रा विसर्जितः

॥३४॥

मयापि च तदादेशात्कौमार्येपि च संस्थया ॥

पूजया वत्सरं यावत्पूजिता पतिकाम्यया

॥३५॥

तृतीयायां विशेषेण मार्गमासादितः शुभे ॥

नैवेद्यैर्विविधैर्दानैर्गंधमाल्यानुलेपनैः

॥३६॥

तत्प्रभावादयं प्राप्तो जैमिनिर्नाम सद्द्विजः ॥

कात्यायनि यथा दृष्टस्त्वया किं कीर्तितैः परैः ॥

३७ तस्मात्त्वमपि कल्याणि पूजयैनां समाहिता ॥

संप्राप्स्यसि सुसौभाग्यं मैत्रेय्या सदृशं शुभे

॥३८॥

त्वया न पूजिता चेयं कौमार्ये वर्तमानया ॥

यावत्संवत्सरं गौरी तृतीयायां न चाधिकम्

॥३९॥

सापत्न्यं तेन संजातं सौभाग्येपि निरर्गले ॥

यथोक्तविधिना देवी सत्यमेतन्मयोदितम्

॥४०॥

सूत उवाच

श्रुत्वा कात्यायनी सर्वं शांडिल्या यत्प्रकीर्तितम् ॥

ततः प्रणम्य तां पृष्ट्वा स्वमेव भवनं ययौ

॥४१॥

मार्गशीर्षेऽथ संप्राप्ते तृतीयादिवसे सिते ॥

तां देवीं पूजयामास वर्षं यावकृतक्षणा

॥४२॥

गौरिणीर्भोजयामास मृष्टान्नैर्भोजनै रसैः ॥

तैलक्षारपरित्यक्तैर्गन्धैः कुंकुमपूर्वकैः

॥४३॥

ततस्तु वत्सरे पूर्णे याज्ञवल्क्यस्तदन्तिकम् ॥

गत्वा प्रोवाच किं कष्टं त्वं करोषि शुचिस्मिते

॥४४॥

मया कांतेन रक्तेन कामदेन सदैव तु ॥

तस्मादागच्छ गच्छाव स्वमेव भवनं शुभे

॥४५॥

एवमुक्त्वा तु तां हृष्टां गृहीत्वा दक्षिणे करे ॥

जगाम भवनं पश्चात्पुलकांकितगात्रजाम्

॥४६॥

ततः परं तया सार्धं वर्तते हर्षिताननः ॥

मैत्रेय्या सहितो यद्वदविशेषेण सर्वदा

॥४७॥

ततः संजनयामास तस्यां पुत्रं गुणान्वितम् ॥

कात्यायनाभिधानं च यज्ञ विद्याविचक्षणम्

॥४८॥

पुत्रो वररुचिर्यस्य बभूव गुणसागरः ॥

सर्वज्ञः सर्वकृत्येषु वेदवेदांगपारगः

॥४९॥

स्थापितोऽत्र शुभे क्षेत्रे येन विद्यार्थिनां कृते ॥

समाराध्य विशेषेण चतुर्थ्यां शुक्लवासरे

॥५०॥

महागणपतिर्भक्त्या सर्वविद्याप्रदायकः ॥

यस्तस्य पुरतो विप्राः शांतिपाठविधानतः

॥५१॥

गृह्णाति पुष्पमालां यः पठेच्छक्त्या द्विजोत्तमाः ॥

वेदांतकृत्स विप्रः स्यात्सदा जन्मनिजन्मनि

॥५२॥

अशक्त्या चाथ पाठस्य यो गृह्णाति धनेन च ॥

स विशेषाद्भवेद्विप्रो वेदवेदांगपारगः

॥५३॥

विदुषां स गृहे जन्म याज्ञिकानां सदा लभेत् ॥

न कदाचित्तु मूर्खार्णां निन्दितानां कथञ्चन

॥५४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्य ईशानोत्पत्तिपंचपिंडिकागौरीमाहात्म्य वररुचिस्थापितगणपतिमाहात्म्यवर्णनं नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥ १३१ ॥