मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १०९

3
नागरखण्डः · 109

एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि वरानने

ईश्वर उवाच

एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि वरानने ॥

सर्वेषामेव तीर्थानां सारं तीर्थसमुच्चयम्

॥१॥

एतेष्वहं वरारोहे सर्वेष्वेव व्यवस्थितः ॥

नाम्ना चान्येषु तीर्थेषु त्रिदशानां हितार्थतः

॥२॥

यो मामेतेषु तीर्थेषु स्नात्वा पश्यति मानवः ॥

कीर्तयेत्कीर्तनान्नाम्ना स नूनं मोक्षमाप्नुयात्

॥३॥

श्रीदेव्युवाच

येषु तीर्थेषु यन्नाम कीर्तनीयं तव प्रभो ॥

तत्कार्त्स्येन मम ब्रूहि यच्चहं तव वल्लभा

॥४॥

ईश्वर उवाच

वाराणस्यां महादेवं प्रयागे च महेश्वरम् ॥

नैमिषे देवदेवं च गयायां प्रपितामहम्

॥५॥

कुरुक्षेत्रे विदुः स्थाणुं प्रभासे शशिशेखरम् ॥

पुष्करे तु ह्यजागन्धिं विश्वं विश्वेश्वरे तथा

॥६॥

अट्टहासे महानादं महेन्द्रे च महाव्रतम् ( १०) ॥

उज्जयिन्यां महाकालं मरुकोटे महोत्कटम्

॥७॥

शंकुकर्णे महातेजं गोकर्णे च महाबलम् ॥

रुद्रकोट्यां महायोगं महालिंगं स्थलेश्वरे

॥८॥

हर्षिते च तथा हर्षं वृषभं वृषभध्वजे ॥

केदारे चैव ईशानं शर्वं मध्यमकेश्वरे ( २० )।

ं

॥९॥

सुपर्णाक्षं सहस्राक्षे सुसूक्ष्मं कार्तिकेश्वरे ॥

भवं वस्त्रापथे देवि ह्युग्रं कनखले तथा

॥१०॥

भद्रकर्णे शिवं चैव दण्डके दण्डिनं तथा ॥

ऊर्ध्वरेतं त्रिदण्डायां चण्डीशं कृमिजांगले

॥११॥

कृत्तिवासं तथैकाम्रे छागलेये कपर्दिनम् ०३०) ॥

कालिञ्जरे नीलकण्ठं श्रीकण्ठं मण्डलेश्वरे

॥१२॥

विजयं चैव काश्मीरे जयन्तं मरुकेश्वरे ॥

हरिश्चन्द्रे हरं चैव पुरश्चन्द्रे च शंकरम्

॥१३॥

जटिं वामेश्वरे विन्द्यात्सौम्यं वै कुक्कुटेश्वरे ॥

भूतेश्वरं भस्मगात्रे ओंकारेऽमरकण्टकम् ( ४०)

॥१४॥

त्र्यंबकं च त्रिसंध्यायां विरजायां त्रिलोचनम् ॥

दीप्तमर्केश्वरे ज्ञेयं नेपाले पशुपालकम्

॥१५॥

यमलिंगं च दुष्कर्णे कपाली करवीरके ॥

जागेश्वरे त्रिशूली च श्रीशैले त्रिपुरांतकम्

॥१६॥

रोहणं तु अयोध्यायां पाताले हाटकेश्वरम् ( ५०) ॥

कारोहणे नकुलीशं देविकायामुमापतिम्

॥१७॥

भैरवे भैरवाकारममरं पूर्वसागरे ॥

सप्तगोदावरे भीमं स्वयंभूर्निर्मलेश्वरे

॥१८॥

कर्णिकारे गणाध्यक्षं कैलासे तु गणाधिपम् ॥

गंगाद्वारे हिमस्थानं जल लिंगे जलप्रियम्( ६०)

॥१९॥

अनलं वाडवेऽग्नौ च भीमं बदरिकाश्रमे ॥

श्रेष्ठे कोटीश्वरं चैव वाराहं विन्ध्यपर्वते

॥२०॥

हेमकूटे विरूपाक्षं भूर्भुवं गन्धमादने ॥

लिंगेश्वरे च वरदं लंकायां च नरांतकम् (६८)

॥२१॥

अष्टषष्टिरियं देवि तवाख्याता विशेषतः ॥

पठतां शृण्वतां वापि सर्वपातकनाशिनी

॥२२॥

तस्मात्सर्वप्रयत्नेन कीर्तनीया विचक्षणैः ॥

कालत्रयेऽपि शुचिभिर्विशेषाच्छिवदीक्षितैः

॥२३॥

लिखितापि वरारोहे यस्यैषा तिष्ठते गृहे ॥

न तत्र जायते दोषो भूतप्रेतसमुद्भवः

॥२४॥

न व्याधेर्न च सर्पाणां न चौराणां वरानने ॥

नान्येषां भूभुजादीनां कदाचिदपि कुत्रचित्

॥२५॥

इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्येऽष्टषष्टितीर्थमाहात्म्य कथनंनाम नवोत्तरशततमोध्यायः ॥ १०९ ॥