मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ५७

3
नागरखण्डः · 57

गांगेययात्राख्यानम्

सूत उवाच

तस्मिन्क्षेत्रे तथादित्यः स्थापितो द्विजसत्तमाः ॥

भीष्मेण ब्राह्मणेंद्राणां संमतेन तथात्मना

॥१॥

शंतनोर्दयितः पुत्रो गांगेय इति विश्रुतः ॥

आसीत्पुरा वरो नृणामूर्ध्वरेताः सुविश्रुतः

॥२॥

तस्यासीत्तुमुलं युद्धं भार्गवेण समं महत् ॥

त्रयोविंशद्दिनान्येव देवासुररणोपमम् ॥

अंबाकृते शितैः शस्त्रैरस्त्रैश्च तदनंतरम्

॥३॥

ततो ब्रह्मादयो देवाः स्वयमेव व्यवस्थिताः ॥

ताभ्यां निवारणार्थाय शांत्यर्थं सर्वदेहिनान् ॥

गताश्च ते समुत्थाप्य पुनरेव त्रिविष्टपम्

॥४॥

अंबापि प्राप्य परमं गांगेयोत्थं पराभवम् ॥

प्रविष्टा कोपरक्ताक्षी सुसमिद्धे हुताशने

॥५॥

भर्त्सयित्वा नदीपुत्रं बाष्पव्याकुललोचना ॥

ततःप्रोवाच मध्यस्था वह्नेः कुरुपितामहम्

॥६॥

यस्माद्भीष्म त्वया त्यक्ता कामार्ताहं सुदुर्मते ॥

तस्मात्तव वधायाशु भविष्यामि पुनः क्षितौ

॥७॥

स्त्रीहत्यया समायुक्तस्त्वं च नूनं भविष्यसि ॥

प्रमाणं यदि धर्मोऽत्र स्मृतिशास्त्रसमुद्भवः

॥८॥

ततः स घृणयाऽऽविष्टो भीष्मः कुरुपितामहः ॥

मार्कंडेयं मुनिश्रेष्ठं पप्रच्छ विनयान्वितः

॥९॥

भगवन्काशिराजस्य सुतया मे प्रजल्पितम् ॥

मम मृत्युकरं पापं सकलं ते भविष्यति

॥१०॥

तत्किं स्याद्वाक्यमात्रेण नो वा ब्राह्मणसत्तम ॥

अत्र मे संशयस्तत्त्वं यथावद्वक्तुमर्हसि

॥११॥

श्रीमार्कंडेय उवाच

आक्षिप्तस्ताडितो वापि यमुद्दिश्य त्यजेदसून् ॥

स्त्रीजनो वा द्विजो वापि तस्य पापं तु तद्भवेत्

॥१२॥

स्त्रियं वा ब्राह्मणं वापि तस्मान्नैव प्रकोपयेत् ॥

निघ्नंतं वा शपंतं वा यदीच्छेच्छुभमात्मनः

॥१३॥

त्वया पुनर्वराकी सा कामार्ता समुपेक्षिता ॥

जित्वा स्वयंवरे पूर्वं तत्कथं स्यान्न पापभाक्

॥४॥

भीष्म उवाच

तदर्थं वद मे ब्रह्मन्प्रायश्चित्तं विशुद्धये ॥

तपो वा यदि वा दानं व्रतं नियममेव वा

॥१५॥

मार्कंडेय उवाच

दशानां ब्राह्मणेंद्राणां यद्वधे पातकं स्मृतम् ॥

तत्पापं स्त्रीवधे कृत्स्नं जायते भरतर्षभ

॥१६॥

तदत्र विषये दानं न तपो न व्रतादिकम् ॥

तीर्थसेवां परित्यज्य तस्मात्त्वं तां समाचर

॥१७॥

सूत उवाच

स तस्य वचनं श्रुत्वा भीष्मः कुरुपितामहः ॥

तीर्थयात्रापरो भूत्वा बभ्राम क्षितिमंडले

॥८॥

ततः क्रमात्समायातो भ्रममाणो महीतले ॥

चमत्कारपुरे क्षेत्रे नानातीर्थसमाकुले

॥१९॥

अथापश्यन्महात्मा स सुपुण्यं तद्गयाशिरः ॥

स्नात्वा श्राद्धं च विधिवद्यावच्छ्रद्धासम न्वितः

॥२०॥

चक्रे तावन्नभोवाणी वाक्यमेतदुवाच ह ॥

भीष्मभीष्म महाबाहो नार्हस्त्वं श्राद्धजं विधिम्

॥२१॥

कर्तुं स्त्रीहत्ययायुक्तस्तस्माच्छृणु वचो मम ॥

शर्मिष्ठातीर्थमित्येव ख्यातं पातकनाशनम्

॥२२॥

अस्मात्स्थानात्समीपस्थं वारुण्यां दिशि पुण्यकृत् ॥

कृष्णांगारकषष्ठ्यां यो नरः स्नानं समाचरेत्

॥२३॥

स स्त्रीहत्याकृतात्पापान्मुच्यते नात्र संशयः ॥

तस्मादद्य दिने पुत्र भौमवारसमन्विता

॥२४॥

सैव षष्ठी तिथिः पुण्या तस्मात्तत्र द्रुतं व्रज ॥

अहं तव पिता पुत्र शंतनुः पृथिवीपतिः

॥२५॥

स्त्रीहत्ययान्वितं ज्ञात्वा ततस्तूर्णमिहागतः ॥

ततो भीष्मो द्रुतं गत्वा तत्र स्थाने समाहितः

॥२६॥

स्नानं कृत्वा ततः श्राद्धं चक्रे श्रद्धासमन्वितः ॥

ततो भूयः समागत्य स तं प्रोवाच शतनुः

॥२७॥

विपाप्मा त्वं कुरुश्रेष्ठ संजातोऽसि न संशयः ॥

तस्मान्निजं गृहं गच्छ राज्यचिंतां समाचर

॥२८॥

ततः स विस्मयाविष्टो ज्ञात्वा तीर्थमनुत्तमम् ॥

वासुदेवात्मिकामर्चां तथान्यां कुरुसत्तमः

॥२९॥

पारिजातमयीं मूर्तिं रवेर्लक्षणलक्षिताम् ॥

सुप्रमाणां सुरूपां च श्रद्धापूतेन चेतसा

॥३०॥

तथान्यत्स्थापयामास लिंगं देवस्य शूलिनः ॥

दुर्गां च भक्तिसंयुक्तो विधिदृष्टेन कर्मणा

॥३१॥

ततः सर्वान्समाहूय स विप्रान्पुरसंभवान् ॥

प्रोवाच कौरवो भीष्मो विनयावनतः स्थितः

॥३२॥

मया विनिर्मितं विप्रा देवागारचतुष्टयम् ॥

एतत्क्षेत्रे च युष्माकं दयां कृत्वा ममोपरि

॥३३॥

पालयध्वं प्रयास्यामि स्वगृहं प्रति सत्वरम् ॥

प्रेरितः पितृभिर्दिव्यैः स्वर्गमार्गसमाश्रितैः

॥३४॥

ब्राह्मणा ऊचुः

गच्छगच्छ कुरुश्रेष्ठ सुविश्रब्धः स्वमायया ॥

वयं सर्वे करिष्यामो युष्मच्छ्रेयोऽभिवर्धनम्

॥३५॥

देवश्रेणिरियं राजन्या त्वयात्र विनिर्मिता ॥

अस्याः पूजादिकं सर्वं करिष्यामः सदा वयम्

॥३६॥

तवापि विनयं दृष्ट्वा परितुष्टा वयं नृप ॥

सर्वान्प्रार्थय तस्मात्त्वं वरं स्वं मनसि स्थितम्

॥३७॥

भीष्म उवाच

एष एव वरोऽस्माकं यत्संतुष्टा द्विजोत्तमाः ॥

तथाप्याशु वचः कार्यं युष्मदीयं मयाधुना ॥

१ एतानि देवसद्मानि मदीयानि नरो भुवि ॥

यो यं काममभिध्याय पूजयेच्छ्रद्धयाऽन्वितः ॥

प्रसादादेव युष्माकं तस्य तत्स्यादसंशयम्

॥३९॥

ब्राह्मणा ऊचुः

आदित्यस्य करिष्यामो यात्रां भाद्रपदे वयम् ॥

सप्तम्यां सूर्यवारेण सर्वदैव समाहिताः

॥४०॥

तथा शिवस्य चाष्टम्यां चैत्रशुक्ले विशेषतः ॥

चतुर्दश्यां महाभाग तव स्नेहान्न संशयः

॥४१॥

शयने बोधने विष्णोः संप्राप्ते द्वादशीदिने ॥

विष्णोरपि च दुर्गायाः संप्राप्ते नवमीदिने

॥४२॥

आश्विने शुक्लपक्षे च गीतवादित्रनिस्वनैः ॥

महोत्सवं तथा चित्रैर्हास्यलास्यैः पृथग्विधैः ॥

यस्तत्र मानवो नित्यं श्रद्धया परया युतः ॥

करिष्यति च गीतादि स यास्यति परां गतिम्

॥४४॥

वयं तस्य भविष्यामः सदैव प्रीतमानसाः ॥

प्रदास्यामस्तथा कामान्मनसा वांछितान्नृप

॥४५॥

एवमुक्त्वाथ ते विप्राः स्वानि स्थानानि भेजिरे ॥

भीष्मोऽपि हर्षसंयुक्तः स्वगृहं प्रस्थितस्ततः

॥४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये गांगेययात्राख्यानंनाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥