मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २१

3
नागरखण्डः · 21

मार्कंडेन कदा तत्र स्थापितः प्रपितामहः

ब्राह्मणा ऊचुः

मार्कंडेन कदा तत्र स्थापितः प्रपितामहः ॥

कस्मिन्स्थाने कृतस्तेन स्वाश्रमो मुनिना वद

॥१॥

सूत उवाच

मृकण्डाख्यो द्विजश्रेष्ठ आसीद्वेदविदां वरः ॥

चमत्कारपुराभ्याशेवानप्रस्याश्रमे स्थितः

॥२॥

शांतात्मा नियमोपेतश्चकार सुमहत्तपः ॥

तस्यैवं वर्तमानस्य वानप्रस्थस्य चाश्रमे

॥३॥

पश्चिमे वयसि प्राप्ते पुत्रो जज्ञे सुशोभनः ॥

सर्वलक्षणसंपूर्णः पूर्णचंद्रसमप्रभः

॥४॥

मार्कंड इति नामाऽथ तस्य चक्रे पिता स्वयम् ॥

सोऽतीव ववृधे बालस्तस्मिन्नाश्रम उत्तमे

॥५॥

शुक्लपक्षं समासाद्य तारापतिरिवांबरे ॥

वर्धमानस्य तस्यैवमतीताः पंच वत्सराः ॥

बालक्रीडाप्रसक्तस्य पितुरुत्सङ्गवर्तिनः

॥६॥

कस्यचित्त्वथ कालस्य कश्चित्तत्र समागतः ॥

सामुद्रिकस्य कृत्स्नस्य वेत्ता ज्ञानविधानभू_

॥७॥

स तं शिशुं समालोक्य नखाग्रान्मूर्द्धजावधिम् ॥

विस्मयोत्फुल्लनयन ईषद्धास्यमथाऽकरोत्

॥८॥

मृकंडोऽपि समालोक्य ज्ञानिनं सस्मिताननम् ॥

पप्रच्छ विनयोपेतः किंचित्तुष्टेन चेतसा

॥९॥

मृकण्ड उवाच

कस्मात्त्वं विप्रशार्दूल वीक्ष्येमं मम दारकम् ॥

सुचिरं विस्मयाविष्टस्ततोऽभूः सस्मिताननः

॥१०॥

सूत उवाच

असकृत्तेन संपृष्टः सकृद्ब्राह्मणसत्तमः ॥

ततश्च कथयामास हास्यकारणमेव हि

॥११॥

ब्राह्मण उवाच

लक्षणानि शिशोरस्य दृश्यंते यानि सन्मुने ॥

गात्रस्थानि भवेत्सत्यं तैः पुमानजरामरः

॥१२॥

अस्य भावि पुनश्चाऽस्माद्दिवसान्निधनं शिशोः ॥

षड्भिर्मासैर्न सन्देहः सत्यमेतन्मयोदितम्

॥१३॥

एवं ज्ञात्वा द्विजश्रेष्ठ कुरुष्वाऽस्य हितं च यत् ॥

इह लोके परे चैव बालकस्य ममाऽऽज्ञया

॥१४॥

एवमुक्त्वा स विप्रेंद्रो जगामाऽभीप्सितां दिशम् ॥

मृकण्डोऽपि ततस्तस्य चक्रे मौंजीनिबन्धनम्

॥१५॥

अकालेऽपि कुमारस्य किंचिद्ध्यात्वा निजे हृदि ॥

कारणं कारणज्ञः स ततः प्रोवाच तं सुतम्

॥१६॥

यं कं चिद्वीक्षसे पुत्र भ्रममाणं द्विजोत्तमम् ॥

तस्यावश्यं त्वया कार्यं विनयादभि वादनम्

॥१७॥

एवं तस्य व्रतस्थस्य षण्मासा दिवसैस्त्रिभिः ॥

हीनाः स्युर्ब्राह्मणेंद्राणां नमस्कारपरस्य च

॥१९॥

एतस्मिन्नंतरे प्राप्ता अग्नि तीर्थपरायणाः ॥

सप्तर्षयः स्थितो यत्र मार्कंडो धृतमेखलः

॥१९॥

तान्दृष्ट्वा स मुनीन्सर्वान्नमश्चक्रे मुनेः सुतः ॥

दीर्घायुर्भव तैरुक्तः सर्वैरपि पृथक्पृथक्

॥२०॥

अथ तं बालभावेन कौतुकाद्ब्रह्मचारिणः ॥

चिरं दृष्ट्वाऽब्रवीद्वाक्यं वसिष्ठो मुनिपुंगवः

॥२१॥

सर्वैरेष शिशुः प्रोक्तो दीर्घा युरिति सादरम् ॥

तृतीयेऽह्नि पुनः प्राणांस्त्यक्ष्यत्ययमसंशयः

॥२२॥

तन्न युक्तं भवेदीदृगस्माकं वचनं द्विजाः ॥

तस्मात्तत्क्रियतां कर्म येनायं स्याच्चिरायुधृक्

॥२३॥

ततो मिथः समालोच्य सर्वे ते मुनिपुंगवाः ॥

प्रोचुर्न जीवनोपायो भवेन्मुक्त्वा पितामहम्

॥२४॥

तस्मात्तस्य पुरो नीत्वा बालोऽयं क्षीणजीवितः ॥

क्रियतां तस्य वाक्येन यथा स्याच्चिरजीवभाक्

॥२५॥

ततस्तु ते समादाय सत्वरं ब्रह्मचारिणम् ॥

ब्रह्मलोकं समाजग्मुस्त्यक्त्वा तीर्थपराक्रमम्

॥२६॥

ततः प्रणम्य तं देवं वेदोक्तैः स्तवनैर्द्विजाः ॥

स्तुत्वाऽथ संविधे तस्य निषेदुस्तदनन्तरम्

॥२७॥

तेषामनंतरं सोऽपि नमश्चक्रे पितामहम् ॥

बालः प्रोक्तश्च दीर्घायुर्भवेति च स्वयंभुवा

॥२८॥

अथोवाच मुनीन्सर्वान्विश्रांतान्पद्मयोनिजः ॥

कुतो यूयं समायाताः सांप्रतं केन हेतुना

॥२९॥

प्रोच्यतां चापि यत्कृत्यं युष्माकं क्रियतेऽधुना ॥

मद्गृहे संप्रयातानां कोऽयं बालोऽपि सद्व्रती

॥३०॥

मुनय ऊचुः

तीर्थयात्राप्रसंगेन भ्रममाणा महीतलम् ः।

चमत्कारपुराभ्याशे वयं प्राप्ताः पितामह

॥३१॥

तत्रानेन वयं देव बालकेनाऽभिवादिताः ॥

क्रमात्सर्वेरपि प्रोक्तो दीर्घायुरिति सादरम्

॥३२॥

एतस्य तु पुनः शेषमायुषो दिवसत्र यम् ॥

विद्यते विबुधश्रेष्ठ व्रीडितास्तेन वै वयम्

॥३३॥

ततश्चैनं समादाय वयं प्राप्तास्तवांतिकम् ॥

भवताऽपि तथा प्रोक्तो दीर्धायु र्बालकोऽस्त्वयम्

॥३४॥

तस्माद्यथा वयं सत्या भवता सह पद्मज ॥

भवाम कुरु तत्कृत्यमेतस्मादागता वयम्

॥३५॥

सूत उवाच

तेषां तद्वचनं श्रुत्वा मुनीनां पद्मसंभवः ॥

प्रोवाच प्रहसन्वाक्यं समादाय च बालकम्

॥३६॥

मत्प्रसादादयं बालोजरामृत्युवि वर्जितः ॥

भविष्यति न संदेहो वेदविद्याविचक्षणः

॥३७॥

तस्मात्प्राग्धरणीपृष्ठं व्रजध्वं मुनिसत्तमाः ॥

बालमेनं समादाय तस्मिन्नेवास्य मंदिरं

॥३८॥

यावदस्य पिता वृद्धः पुत्रदर्शनविह्वलः ॥

न याति निधनं सार्धं धर्मपत्न्या द्विजोत्तमाः ॥

अथाऽऽयाताश्च तं बालं सर्वे ते मुनि सत्तमाः ॥

आगत्य वसुधापृष्ठं तस्यैवाश्रमसंनिधौ

॥४०॥

अमुंचन्नग्नितीर्थे तं समाभाष्य ततः परम् ॥

तीर्थयात्राकृते पश्चाज्जग्मुरन्यत्र सत्वरम्

॥४१॥

एतस्मिन्नंतरे विप्रो मृकंडः सुतवत्सलः ॥

नापश्यत्स्वसुतं पश्चाद्विललाप सुदुःखितः

॥४२॥

अहो मे तनयोऽभीष्टः कथमद्य न दृश्यते ॥

कूपांतः पतितः किं नु किं व्यालैर्वा निपातितः

॥४३॥

कृत्वा मां दुःखसंतप्तं मातरं चापि पुत्रकः ॥

प्रस्थितो दीर्घमध्वानं विरुद्धं कृतवान्विधिः

॥४४॥

पश्य ब्राह्मणि पापेन मया दुष्कृतकारिणा ॥

न बालस्य मुखं दृष्टं प्रस्थितस्य यमालये

॥४५॥

कथितं ज्ञानिना तेन मम पूर्वं महात्म ना ॥

षङ्भिर्मासैः सुतस्तेऽयं देहत्यागं करिष्यति

॥४६॥

सोऽहं पुत्रस्य दुःखेन साधयिष्ये हुताशनम् ॥

यावच्छोकाग्निना कायो दह्यते न वरान ने

॥४७॥

ब्राह्मण्युवाच

ममापि मतमेतद्धि यत्त्वया परिकीर्तितम् ॥

तत्किं चिरयसि ब्रह्मञ्छीघ्रं दारूणि चानय

॥४८॥

येनाऽहं भवता सार्धं प्रवेक्ष्यामि हुताशनम् ॥

पुत्रशोकेन संतप्ता सुभृशं दुःखशांतये

॥४९॥

सूत उवाच

एवं तयोः प्रवदतोर्दंपत्योर्द्विज सत्तमाः ॥

आजगामाऽथ संहृष्टः स बालः सन्निधिं तयोः

॥५०॥

तं दृष्ट्वा ब्राह्मणो हृष्टो ब्राह्मण्या सहितस्तदा ॥

आनंदाश्रुप्लुताक्षोऽथ सम्मुख स्तमुपाद्रवत्

॥५१॥

भूयोभूयः परिष्वज्य सभार्यः पृष्टवांस्तदा ॥

क्व गतः स्वाश्रमाद्वत्स चिरात्कस्मादिहाऽऽगतः

॥५२॥

शोकार्णवे परिक्षिप्य मां सभार्यं वयोऽधिकम् ॥

तन्मा पुत्रक भूयस्त्वमीदृक्कर्म करिष्यसि

॥५३॥

मार्कंडेय उवाच

अत्राऽद्य मुनयः प्राप्ता मया ते चाभिवादिताः ॥

क्रमेण विनयात्तात स्मरमाणेन ते वचः ॥

५४ दीर्घायुर्भव तैरुक्तः सर्वैरेव द्विजोत्तमैः ॥

दृष्ट्वा मां विस्मयाविष्टैर्बालकं व्रतिनं विभो

॥५५॥

अथ तात समालोक्य तेषां मध्यगतो मुनिः ॥

वसिष्ठस्तान्मुनीन्सर्वान्प्रोवाच प्रहसन्निव

॥५६॥

वसिष्ठ उवाच

दीर्घायुर्भव यः प्रोक्तो युष्माभिर्मुनिपुंगवाः ॥

तृतीये दिवसे सोऽयं बालः पंचत्वमेष्यति

॥५७॥

ततस्ते मुनयो भीता असत्यात्तात तत्क्षणात् ॥

समादाय ययुस्तत्र यत्र ब्रह्मा व्यवस्थितः

॥५८॥

नमस्कृतेन तेनाऽपि प्रोक्तोऽहं पद्मयोनिना ॥

दीर्घायुर्भव पृष्टश्च कुतस्त्वमिह चागतः ५९ ॥

अथ तैर्मुनिभिः सर्वैर्वृत्तांतं तस्य कीर्तितम् ॥

आशीर्वादोद्भवं प्रोक्तं ततो वयमिहागताः

॥६०॥

यथाऽयं बालको देव त्वत्प्रसादात्पितामह ॥

दीर्घायुर्जायते लोके तथा त्वं कर्तुमर्हसि

॥६१॥

ततोऽहं ब्रह्मणा तात जरामरणवर्जितः ॥

विहितः प्रेषितस्तूर्णं स्वगृहं प्रति तैः समम्

॥६२॥

ते तु मां मुनयोत्रैव प्रमुच्याश्रमसन्निधौ ॥

स्नानार्थं विविशुः सर्वे ह्रदेऽत्रैव सुशोभने

॥६३॥

तच्छ्रुत्वा वचनं तस्य मृकंडो हर्षसंयुतः ॥

प्रययौ सत्वरं तत्र यत्र ते मुनयः स्थिताः

॥६४॥

प्रणम्य तान्मुनीन्सर्वान्कृताञ्जलिपुटः स्थितः ॥

प्रोवाच वः प्रसादेन कुलं मे वृद्धिमागतम्

॥६५॥

साधु प्रोक्तमिदं कैश्चिदाचार्यैर्मुनिसत्तमाः ॥

साधुलोकं समाश्रित्य विख्यातं च जगत्त्रये

॥६६॥

साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ॥

तीर्थं फलति कालेन सद्यः साधुसमागमः

॥६७॥

तस्मादतिथयः प्राप्ता यूयं सर्वेऽद्य मे गृहम् ॥

प्रकरोमि किमातिथ्यं प्रोच्यतां द्विजसत्तमाः

॥६८॥

ऋषय ऊचुः

एतदेव मुनेऽस्माकमातिथ्यं कोटिसंमितम् ॥

अल्पायुरपि ते बालो यज्जातो मृत्युवर्जितः

॥६९॥

मृकण्ड उवाच

मृत्युनाऽऽलिंगितं बालमस्मदीयं मुनीश्वराः ॥

भवद्भिरद्य संरक्ष्य कुलं कृत्स्नं समुद्धृतम्

॥७०॥

ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥

निष्कृतिर्विहिता सद्भिः कृतघ्ने नाऽस्ति निष्कृतिः

॥७१॥

तस्मात्कृतघ्नतादोषो न स्यान्मम मुनीश्वराः ॥

यथा कार्यं भवद्भिश्च तथा सर्वैर्न संशयः

॥७२॥

ऋषय ऊचुः

यदि प्रत्युपकाराय मन्यसे त्वं द्विजोत्तम ॥

गृहं कुरुष्व नो वाक्याद्देवस्य परमेष्ठिनः

॥७३॥

येनाऽयं बालकस्तेऽद्य कृतो मृत्युविवर्जितः ॥

तस्मात्स्थापय तीर्थेन देवं तं प्रपितामहम्

॥७४॥

पुत्रेण सहितः पश्चादाराधय दिवानिशम् ॥

वयमेव त्वया सार्धं तं च देवं पितामहम्

॥७५॥

नित्यं प्रपूजयिष्यामस्तथान्येऽपि द्विजोत्तमाः ॥

बालेनाऽनेन सार्धं ते सख्यमत्र स्थितं यतः ॥

बालसख्यमिति ख्यातं नाम्ना तेन भविष्यति

॥७६॥

तीर्थमन्यैरिति ख्यातं बालकानां हितावहम् ॥

रोगार्तानां भयार्तानामस्माकं वचनात्सदा

॥७७॥

अस्मिंस्तीर्थे शिशुं लोकाः स्नापयिष्यंति ये द्विज ॥

रोगार्तं वा भयार्तं वा पीडितं वा ग्रहादिभिः

॥७८॥

भविष्यति न संदेहः सर्वदोषविवर्जितः ॥

पितामहप्रसादेन तथाऽस्मद्वचनाद्द्विज

॥७९॥

ये पुनर्मानुषा विप्र निष्कामाः श्रद्धयान्विताः ॥

स्नानमात्रं करिष्यंति ते यांति परमां गतिम्

॥८०॥

एवमुक्त्वाथ ते सर्वे मुनयः शंसितव्रताः ॥

तमामंत्र्य मुनिं जग्मुस्तीर्थान्यन्यानि सत्वराः

॥८१॥

मृकण्डोऽपि सपुत्रश्च तस्मिन्स्थाने पितामहम् ॥

स्थापयामास संहृष्टो ज्येष्ठे ज्येष्ठास्थिते विधौ

॥८२॥

ततश्चाऽऽराधयामास दिवारात्रमतंद्रितः ॥

सपुत्रः श्रद्धया युक्तः संप्राप्तश्च परां गतिम्

॥८३॥

सूत उवाच

ततःप्रभृति तत्तीर्थं बालसख्यमिति स्मृतम् ॥

पावनं सर्वजंतूनां बालानां रोगनाशनम्

॥८४॥

ज्येष्ठे ज्येष्ठासु यो बालस्तत्र स्नानं समाचरेत् ॥

न स पीडामवाप्नोति यावत्संवत्सरं द्विजाः

॥८५॥

ग्रहभूतपिशाचानां शाकिनीनां विशेषतः ॥

अगम्यः सर्वदुष्टानां तथाऽन्येषां प्रजायते

॥८६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये बालसख्यतीर्थमाहात्म्यवर्णनंनामैकविंशोऽध्यायः ॥ २१ ॥