मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २६४

3
नागरखण्डः · 264

तारकासुरवधः

ब्रह्मोवाच

कार्तिकेयश्च पार्वत्याः प्राणेभ्यश्चातिवल्लभः ॥

संक्रीडति समीपस्थो नानाचेष्टाभिरुद्यतः

॥१॥

रक्तकांतिर्महातेजाः षण्मुखोऽद्भुत विक्रमः ॥

क्वचिद्गायति चात्यर्थं क्वचिन्नृत्यति स्वेच्छया

॥२॥

मातरं पितरं दृष्ट्वा विनयावनतः क्वचित् ॥

क्वचिच्च गंगापुलिने सिकतालेपनाकृतिः

॥३॥

गणैः सह विचिन्वानो विविधान्वनभूरुहान् ॥

एवं प्रक्रीडितस्तस्य दिवसाः पंच जज्ञिरे

॥४॥

ततो देवा महेन्द्राद्यास्तारकत्रासविद्रुताः ॥

स्तुवन्तः शंकरं सर्वे तारकस्य जिघृक्षया

॥५॥

चक्रुः कुमारं सेनान्यं जाह्नव्यां स्वगणैः सुराः ॥

सस्वनुर्देववाद्यानि पुष्पवर्षं पपात ह

॥६॥

वह्निस्तु स्वां ददौ शक्तिं हिमवान्वाहनं ददौ ॥

सर्वदेवसमुद्भूतगणकोटिसमावृतः

॥७॥

प्रणम्य मुनिसंघेभ्यः प्रययौ रिपुविग्रहे ॥

ताम्रवत्यां नगर्यां च शंखं दध्मौ प्रतापवान्

॥८॥

ततस्तारकसैन्यस्य दैत्यदानवकोटयः ॥

समाजग्मुस्तस्य पुराच्छंखनादभयातुराः

॥९॥

स्ववाहनसमारूढाः संयता बलदर्पिताः ॥

देवाः सर्वेऽपि युयुधुः स्कन्दतेजोपबृंहिताः

॥१०॥

तदा दानवसैन्यानि निजघान च सर्वशः ॥

विष्णुचक्रेण ते छिन्नाः पेतुरुर्व्यां सहस्रशः

॥११॥

ततो भग्नाश्च शतशो दानवा निहतास्तदा ॥

नद्यः शोणितसंभूता जाता बहुविधामुने

॥१२॥

तद्भग्नं दानवबलं दृष्ट्वा स युयुधे रणे ॥

बभंज सद्यो देवेशो बाणजालैरनेकधा

॥१३॥

शक्तिनायुध्य गंगिन्याश्चिक्षेप कृष्णप्रेरिताः ॥

सरथं च सयंतारं चक्रे तं भस्मसात्क्षणात्

॥१४॥

शेषाः पातालमगमन्हतं दृष्ट्वाऽथ तारकम् ॥

ततो देवगणाः सर्वे शसंसुस्तस्य विक्रमम्

॥१५॥

देवदुन्दुभयो नेदुः पुष्पवृष्टिस्तथाऽभवत् ॥

ते लब्धविजयाः सर्वे महेश्वरपुरोगमाः

॥१६॥

सिषिचुः सर्वदेवानां सेनापत्ये षडाननम् ॥

ततः स्कंदं समालिंग्य पार्वती हर्षगद्गदा

॥१७॥

मांगल्यानि तदा चक्रे स्वसखीभिः समावृता ॥

एवं च तारकं हत्वा सप्तमेऽहनि बालकः

॥१८॥

मंदराचलमासाद्य पितरौ संप्रहर्षयन् ॥

उवाच सकलं स्कन्दः परमानंदनिर्भरः

॥१९॥

काले दारक्रियां तस्य चिन्तयामास शंकरः ॥

स उवाच प्रसन्नात्मा गांगेयममितद्युतिम्

॥२०॥

प्राप्तः कालस्तव विभो पाणिग्रहणसंमतः ॥

कुरु दारान्समासाद्य धर्मस्ते पुंससंमतः ॥

क्रीडस्व विविधैर्भोगैर्विमानैः सह कामिकैः ॥

तच्छ्रुत्वा भगवान्स्कन्दः पितरं वाक्यमब्रवीत् ॥

अहमेव हि सर्वत्र दृश्यः सर्वगणेषु च ॥

दृश्यादृश्यपदार्थेषु किं गृह्णामि त्यजामि किम्

॥२३॥

याः स्त्रियः सकला विश्वे पार्वत्या ताः समा हि मे ॥

नराः सर्वेऽपि देवेश भवद्वत्तान्विलोकये

॥२४॥

त्वं गुरुर्मां च रक्षस्व पुनर्नरकमज्जनात् ॥

येन ज्ञातमिदं ज्ञानं त्वत्प्रसादादखंडितम्

॥२५॥

पुनरेव महाघोरसंसाराब्धौ निमज्जये ॥

दीपहस्तो यथा वस्तु दृष्ट्वा तत्करणं त्यजेत्

॥२६॥

तथा ज्ञानमधिप्राप्य योगी त्यजति संसृतिम् ॥

ज्ञात्वा सर्वगतं ब्रह्म सर्वज्ञ परमेश्वर

॥२७॥

निवर्त्तंते क्रियाः सर्वा यस्य तं योगिनं विदुः ॥

विषये लुब्धचित्तानां वनेऽपि जायते रतिः

॥२८॥

सर्वत्र समदृष्टीनां गेहे मुक्तिर्हि शाश्वती ॥

ज्ञानमेव महेशान मनुष्याणां सुदुर्लभम्

॥२९॥

लब्धं ज्ञानं कथमपि पंडितो नैव पातयेत् ॥

नाहमस्मि न माता मे न पिता न च बांधवः

॥३०॥

ज्ञानं प्राप्य पृथक्भावमापन्नो भुवनेष्वहम् ॥

प्राप्यं भागमिदं दैवात्प्रभावात्तव नार्हसि

॥३१॥

वक्तुमेवंविधं वाक्यं मुमुक्षोर्मे न संशयः ॥

यदाग्रहपरा देवी पुनःपुनरभाषत

॥३२॥

तदा तौ पितरौ नत्वा गतोऽसौ क्रौञ्चपर्वतम् ॥

तत्राश्रमे महापुण्ये चचार परमं तपः

॥३३॥

जजाप परमं ब्रह्म द्वादशाक्षरबीजकम् ॥

पूर्वं ध्यानेन सर्वाणि वशीकृत्येन्द्रियाणि च

॥३४॥

ममतां संवियुज्याथ ज्ञानयोगमवाप्तवान् ॥

सिद्धयस्तस्य निर्विघ्ना अणिमाद्या यदाऽऽगताः

॥३५॥

तदा तासां गणा क्रुद्धो वाक्यमेतदुवाच ह ॥

ममापि दु्ष्टभावेन यदि यूयमुपागताः

॥३६॥

तदास्मत्समशांतानां नाभिभूतिं करिष्यथ ॥

एवं ज्ञात्वा महेशोऽपि यतो ज्ञानमहोदयम्

॥३७॥

मत्तोऽपि ज्ञानयोगेनस्कन्दोऽप्यधिकभावभृत् ॥

विस्मयाविष्टहृदयः पार्वतीमनुशिष्टवान्

॥३८॥

पुत्रशोकपरां चोमां शुभैर्वाक्यामृतैर्हरः ॥

चातुर्मासस्य माहात्म्यं सर्वपापप्रणाशनम्

॥३९॥

महेश्वरो वा मधुकैटभारिर्हृद्याश्रितो ध्यानमयोऽद्वितीयः ॥

अभेदबुद्ध्या परमार्तिहंता रिपुः स एवातिप्रियो भवेत्ततः

॥४०॥

सूत उवाच

एतद्वः कथितं विप्राश्चातुर्मास्यसमुद्भवम् ॥

माहात्म्यं विस्तरेणैव किमन्यच्छ्रोतुमिच्छथ

॥४१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तारकासुरवधो नाम चतुःषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६४ ॥