मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २२९

3
नागरखण्डः · 229

एतस्मिन्नंतरे शम्भुर्गणैः सर्वैः समावृतः

सूत उवाच

एतस्मिन्नंतरे शम्भुर्गणैः सर्वैः समावृतः ॥

इन्द्राद्यैश्च सुरैः सर्वेः क्रोधसंरक्तलोचनः ॥

जगाम वृषमारुह्य पुरीं चैवामरावतीम्

॥१॥

अंधकोऽपि समालोक्य संप्राप्तां देववाहिनीम् ॥

सगणां च महादेवं परितोषं परं गतः

॥२॥

निश्चक्रामाथ युद्धाय बलेन चतुरंगिणा ॥

वरं स्यंदनमारुह्य सुश्वेताश्ववहं शुभम्

॥३॥

ततः समभवद्युद्धं देवानां दानवैः सह ॥

गणैश्च विकृताकारैर्मृत्युं कृत्वा निवर्तनम्

॥४॥

एकवर्षसहस्रांतं यावद्युद्धमवर्तत ॥

दिनेदिने क्षयं यांति तत्र देवा न दानवाः ॥

ततो वर्षसहस्रांते संक्रुद्धः शशिशेखरः ॥

त्रिशूलेन समुद्यम्य स्वहस्तेन व्यभेदयत्

॥६॥

स विद्धोऽपि स्वयं तेन त्रिशूलेन महासुरः ॥

ब्रह्मणो वरमाहात्म्यान्नैव प्राणैविर्युज्यते

॥७॥

ततो भूयोऽपि चोत्थाय चक्रे युद्धं महात्मना ॥

जघान च स संक्रुद्धो विशेषेण बहून्गणान्

॥८॥

शंकरं ताडयामास गदाघातैर्मुहुर्मुहुः

॥९॥

एवं वर्षसहस्रांतमभूत्सार्द्धं पिनाकिना ॥

रौद्रं युद्धमन्धकस्य सर्वलोकभयावहम्

॥१०॥

त्रिशूलभिन्नो दैत्यः स यदा मृत्युं न गच्छति ॥

उत्थायोत्थाय कुरुते प्रहारान्गदया बली

॥११॥

तथा तं शंकरो ज्ञात्वा मृत्युना परिवर्जितम् ॥

ब्रह्मणो वरदानेन सर्वेषां च दिवौकसाम्

॥१२॥

ततो निर्भिद्य शूलाग्रैः प्रोत्क्षिप्य गगनांगणे ॥

छत्रवद्धारयामास लंबमानमधोमुखम् ॥

अक्षरद्रुधिरं भूमौ गात्रेभ्यो वर्ष्मसंभवम्

॥१३॥

यावद्वर्षसहस्रांते चर्मास्थि स्नायुरेव च ॥

धातुत्रयं स्थितं तस्य नष्टमन्यच्चतुष्टयम्

॥१४॥

स ज्ञात्वा बल संहीनमात्मानं धातुसंक्षयात् ॥

सामोपायं ततश्चके स्तुत्वा सार्धं पिनाकिना

॥१५॥

अन्धक उवाच

न त्वं देवो मया ज्ञातो वाग्दुष्टेन दुरात्मना ॥

ईदृग्वीर्यसमोपेतस्तद्युक्तं भवता कृतम्

॥१६॥

अनुरूपं मदांधस्याविवेकस्य सुरोत्तम ॥

स्ववीर्यमदयुक्तस्य विवेक रहितस्य च

॥१७॥

दुर्विनीतः श्रियं प्राप्य विद्यामैश्वर्यमेवच ॥

न तिष्ठति चिरं कालं यथाऽहं मदगर्वितः

॥१८॥

पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ॥

त्राहि मां देव ईशान सर्वपापहरो भव

॥१९॥

दुःखितोऽहं वराकोऽहं दीनोऽहं शक्तिवर्जितः ॥

त्रातुमर्हसि मां देव प्रपन्नं शरणं विभो

॥२०॥

दुष्टोऽहं पापयुक्तोऽहं सांप्रतं परमेश्वर ॥

तेन बुद्धिरियं जाता तवोपरि ममानघ

॥२१॥

सर्वपापक्षये जाते शिवे भवति भावना

॥२२॥

नाममात्रमपि त्र्यक्ष यस्ते कीर्तयति प्रभो ॥

सोऽपि मुक्तिमवाप्नोति किं पुनः पूजने रतः

॥२३॥

तव पूजा विहीनानां दिनान्यायांति यांति च ॥

यानि देव मृतानां च तानि यांति न जीवताम्

॥२४॥

कुष्ठी वा रोगयुक्तो वा पंगुर्वा बधिरोऽपि वा ॥

मा भूत्तस्य कुले जन्म शंभुर्यत्र न देवता

॥२५॥

तस्मान्मोचय मां देव स्वागतं कुरु सांप्रतम् ॥

गतो मे दानवो भावस्त्यक्तं राज्यं तथा विभो

॥२६॥

त्यक्ताः पुत्राश्च पौत्राश्च पत्न्यश्च विभवैः सह ॥

त्रिः सत्येन सुरश्रेष्ठ तव पादौ स्पृशाम्यहम्

॥२७॥

तस्य तद्वचनं श्रुत्वा ज्ञात्वा तं गतकल्मषम् ॥

उत्तार्य शनकैः शूलाद्विनयावनतं स्थितम्

॥२८॥

ततो नाम स्वयं चक्रे भृंगिरीटिरिति प्रभुः ॥

अब्रवीच्च सदा मे त्वं वल्लभः संभविष्यसि

॥२९॥

नन्दिनोऽपि गजास्यस्य महाकालस्य पुत्रक ॥

तिष्ठ सौम्य मया सौख्यं न स्मरिष्यसि बांधवान्

॥३०॥

स तथेति प्रतिज्ञाय प्रणम्य शशिशेखरम् ॥

तस्थौ सर्वगणैर्युक्तः प्रभुसंश्रयसंयुतः

॥३१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये भृंगीरिट्युत्पत्तिवर्णनंनामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २२९ ॥