मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय ६४

3
नागरखण्डः · 64

चमत्कारीदुर्गामाहात्म्यवर्णनम्

सूत उवाच

चमत्कारी पुरा देवी तत्रैवास्ति द्विजोत्तमाः ॥

चमत्कारनरेंद्रेण स्थापिता श्रद्धया पुरा

॥१॥

यया स महिषः पूर्वं निहतो दानवो रणे ॥

कौमारव्रतधारिण्या मायाशतसहस्रधृक्

॥२॥

यदा तन्निर्मितं तत्र पुरं तेन महात्मना ॥

तस्य संरक्षणार्थाय तदा सा स्थापिता द्विजाः

॥३॥

पुरस्य तस्य रक्षार्थं तथा तत्पुरवासिनाम् ॥

सर्वेषां ब्राह्मणेंद्राणां भक्त्या भावितचेतसाम्

॥४॥

यस्तामभ्यर्चयेत्सम्यङ्महानवमिवासरे ॥

कृत्स्नं संवत्सरं तस्य न भयं जायते क्वचित्

॥५॥

भूतप्रेतपिशाचेभ्यः शत्रुतश्च विशेषतः ॥

रोगेभ्यस्तस्करेभ्यश्च दुष्टेभ्योऽन्येभ्य एव च

॥६॥

यंयं काममभिध्यायञ्छुक्लाष्टम्यां नरः शुचिः ॥

तां पूजयति सद्भक्त्या स तमाप्नोत्यसंशयम्

॥७॥

निष्कामः सुखमाप्नोति मोक्षं नास्त्यत्र संशयः ॥

तस्या देव्याः प्रसादेन सत्यमेतन्मयोदितम्

॥८॥

तामाराध्य गताः पूर्वं सिद्धिं भूरिर्महीभुजः ॥

ब्राह्मणाश्च तथान्येऽपि योगिनः परमेश्वरीम्

॥९॥

यस्तस्याः श्रद्धयोपेतः प्रकरोति प्रदक्षिणाम् ॥

नित्यं संवत्सरं यावत्तिर्यग्योनौ न स व्रजेत् ॥

६.६४,१० ॥

तस्या आयतने पूर्वमाश्चर्यमभवन्महत् ॥

यत्तद्वः कीर्तयिष्यामि शृणुध्वं सुसमाहिताः

॥११॥

आसीच्चित्ररथोनाम पूर्वं पार्थिवसत्तमः ॥

दशार्णाधिपतिः ख्यातः सर्वशत्रुनिबर्हणः

॥१२॥

शुक्लाष्टम्यां सदा भक्त्या स तस्याः श्रद्धयान्वितः ॥

अष्टोत्तरशतं यावत्प्रचकार प्रदक्षिणाम्

॥१३॥

ततः प्रणम्य तां देवीं संप्रयाति पुनर्गृहम् ॥

सैन्येन चतुरंगेण समंतात्परिवारितः

॥१४॥

एवं तस्य नरेंद्रस्य प्रदक्षिणरतस्य च ॥

जगाम सुमहान्कालो देव्या भक्तिरतस्य च

॥१५॥

कस्यचित्त्वथ कालस्य स राजा तत्र संगतः ॥

अपश्यद्ब्राह्मणश्रेष्ठान्देवीगृहसमाश्रितान्

॥१६॥

ततः प्रदक्षिणां कृत्वा तां देवीं स महीपतिः

॥१६॥

अग्रस्थांस्तान्द्विजान्सर्वान्नमश्चक्रे समाहितः

॥१७॥

ततस्तैः सहितैस्तत्र सहासीनः कथाः शुभाः ॥

राजर्षीणां पुराणानां विप्रर्षीणां चकार ह

॥१८॥

ततः कस्मिन्कथांते स पृष्टस्तैर्द्विजसत्तमैः ॥

कौतूहलसमोपेतैर्विनयावनतः स्थितः

॥१९॥

राजन्पृच्छामहे सर्वे त्वां वयं कौतुकान्विताः ॥

तस्मात्कीर्तय चेद्गुह्यं न तत्तव व्यवस्थितम्

॥२०॥

मासिमासि सदाष्टम्यां त्वं शुक्लायां सुदूरतः ॥

आगत्य देवतायाश्च प्रकरोषि प्रदक्षिणाम्

॥२१॥

यत्नेनान्याः परित्यज्य सर्वाः पूजादिकाः क्रियाः ॥

नूनं वेत्सि फलं कृत्स्नं यत्प्रदक्षिणसंभवम्

॥२२॥

राजोवाच

सत्यमेतद्द्विजश्रेष्ठा यद्भवद्भिरुदाहृतम् ॥

रहस्यमपि वक्तव्यं युष्माकं सांप्रतं मया

॥२३॥

अहमास शुकः पूर्वमस्मिन्नायतने शुभे ॥

देव्याः पश्चिमदिग्भागे कुलायकृतसंश्रयः

॥२४॥

तत्र निर्गच्छतो नित्यं कुर्वतश्चप्रवेशनम् ॥

प्रदक्षिणाभवद्देव्या नित्यमेव द्विजोत्तमाः

॥२५॥

ततः कालेन मे मृत्युः संजातोऽत्रैव मंदिरे ॥

तत्प्रभावेण संजातो राजा जातिस्मरोऽत्र हि

॥२६॥

एतस्मात्कारणाद्दूरात्समभ्येत्य प्रदक्षिणाम् ॥

करोम्यस्या द्विजश्रेष्ठा देवतायाः समाहितः

॥२७॥

पुरा भक्तिविहीनेन कुलाये वसता मया ॥

कृता प्रदक्षिणा देव्यास्तेन जातोऽस्मि भूपतिः

॥२८॥

अधुना श्रद्धया युक्तो यत्करोमि प्रदक्षिणाम् ॥

किं मे भविष्यति श्रेयस्तन्न वेद्मि द्विजोत्तमाः

॥२९॥

सूत उवाच

तच्छ्रुत्वा तस्य ते विप्रा विस्मयोत्फुल्ललोचनाः ॥

साधुवादं तथा चक्रुस्तस्य भूपस्य हर्षिताः

॥३०॥

ततः स पार्थिवः सर्वान्प्रणम्य द्विजसत्तमान् ॥

अनुज्ञाप्य ययौ तूर्णं स्वगृहाय ससैनिकः

॥३१॥

अधुना श्रद्धया युक्तो यः करोति प्रदक्षिणाम् ॥

सर्वपापविनिर्मुक्तो लभते वांछितं फलम्

॥३२॥

ततः प्रभृति ते विप्राः सर्वे भक्तिपुरःसराः ॥

तस्याः प्रदक्षिणां चक्रुस्तथान्ये मुक्तिहेतवे

॥३३॥

प्राप्ताश्च परमां सिद्धिं वांछितां तत्प्रभावतः ॥

इह लोके परे चैव दुर्लभां त्रिदशैरपि

॥३४॥

तस्मात्सर्वप्रयत्नेन तां देवीमिह संश्रयेत् ॥

सर्वकामप्रदां नृणां तस्मिन्क्षेत्रे व्यवस्थिताम्

॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये चमत्कारीदुर्गामाहात्म्यवर्णनंनाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥