मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १८७

3
नागरखण्डः · 187

राक्षसप्राप्यश्राद्धवर्णनम्

सूत उवाच

चतुर्थे दिवसे प्राप्ते ततो यज्ञसमुद्भवे ॥

ऋत्विग्भिर्याज्ञिकं कर्म प्रारब्धं तदनंतरम्

॥१॥

सोमपानादिकं सर्वं पशोर्हिंसादिकं तथा ॥

पशोर्गुदं समादाय प्रस्थाता च व्यधारयत्

॥२॥

एकांते सदसो मध्ये होमार्थं द्विजसत्तमाः ॥

तस्मिन्व्याकुलतां याते ब्राह्मणः कश्चिदागतः

॥३॥

युवा तत्र प्रविष्टस्तु मांस भक्षणलालसः ॥

ततो गुदं पशोर्दृष्ट्वा भक्षयामास चोत्सुकं

॥४॥

एतस्मिन्नंतरे प्राप्तः प्रस्थाता तस्य संनिधौ ॥

भक्षमाणं समालोक्य तं शशाप ततः परम्

॥५॥

धिग्धिक्पापसमाचार होमार्थं यद्गुदं धृतम् ॥

तत्त्वया दूषितं लौल्याद्यज्ञविघ्नकरं कृतम्

॥६॥

उच्छिष्टेन मया होमः कर्तव्यो नैव सांप्रतम् ॥

राक्षसानामिदं कर्म यत्त्वया समनुष्ठितम्

॥७॥

तस्मात्त्वं मम वाक्येन राक्षसो भव मा चिरम्

॥८॥

एतस्मिन्नेव काले तु ह्यूर्ध्वकेशोऽभवद्धि सः ॥

रक्ताक्षः शंकुकर्णश्च कृष्णदन्तोऽतिभैरवः

॥९॥

लम्बोष्ठो विकरालास्यो मांसमेदोविवर्जितः ॥

त्वगस्थिस्नायुशेषश्च।

चामुण्डाकृतिरेव च

॥१०॥

स च विश्वावसुर्नाम पुलस्त्यस्य सुतो मुनिः ॥

मंत्रपूतस्य मांसस्य भक्षणार्थं समागतः

॥११॥

वेदवेदांगतत्त्वजः पौत्रस्तु परमेष्ठिनः ॥

तं दृष्ट्वा राक्षसाकारं वित्रेसुः सर्वतो द्विजाः

॥१२॥

राक्षोघ्नानि च सूक्तानि जजपुश्चापरे तथा ॥

केचिच्छरणमापन्ना विष्णो रुद्रस्य चापरे

॥१३॥

पितामहस्य चान्ये तु गायत्र्याः शरणं गताः ॥

रक्षरक्षेति जल्पन्तो भयसंत्रस्तमानसाः

॥१४॥

सोऽपि दृष्ट्वा तदात्मानं गतं राक्षसतां द्विजाः ॥

बाष्पपूर्णेक्षणो दीनः पितामहमुपाद्रवत्

॥१५॥

स प्रणम्य ततो वाक्यं कृतांजलिरुवाच तम्

॥१६॥

पौत्रोऽहं तव देवेश पुलस्त्यस्य सुतो द्विजः ॥

नीतो राक्षसतामद्य प्रस्थात्रा कोपतो विभो

॥१७॥

जिह्वालौल्येन देवेश पशोर्गुदमजानता ॥

भक्षितं तन्मया देव होमार्थं यत्प्रकल्पितम्

॥१८॥

तस्मान्मानुषताप्राप्त्यै मम देहे दयां कुरु ॥

राक्षसत्वं यथा याति तथा नीतिर्विधीयताम्

॥१९॥

' तच्छ्रुत्वा जल्पितं तस्य दयां कृत्वा पितामहः ॥

प्रतिप्रस्थातरं सामवाक्यमेतदुवाच ह

॥२०॥

बालोऽयं मम पौत्रस्तु कृत्याकृत्यं न वेत्ति च ॥

तस्मात्त्वं राक्षसं भावं हरस्वास्य द्विजोत्तम

॥२१॥

तच्छ्रुत्वा स मुनिः प्राह प्रायश्चित्तं मखे तव ॥

अनेन जनितं देव गुदं दूषयता विभो

॥२२॥

तस्मादेष मया शप्तो यज्ञविघ्नकरो मम ॥

नाहमस्य हरिष्यामि राक्षसत्वं कथंचन

॥२३॥

नर्मणापि मया प्रोक्तं कदाचिन्नानृतं वचः

॥२४॥

ब्रह्मोवाच

प्रायश्चित्तं करिष्येऽहं यज्ञस्यास्य प्रसिद्धये ॥

दक्षिणा गौर्यथोक्ता च कृत्वा होमं विधानतः ॥

त्वमस्य राक्षसं भावं 'हरस्व मम वाक्यतः

॥२५॥

सोऽब्रवीच्छीतलो वह्निर्यदि स्यादुष्णगुः शशी ॥

तन्मे स्यादन्यथा वाक्यं व्याहृतं प्रपितामह

॥२६॥

तस्य तद्वचनं श्रुत्वा ज्ञात्वा चैव तु निश्चितम् ॥

विश्वावसुं विधिः प्राह ततो राक्षसरूपिणम्

॥२७॥

त्वं वत्सानेन रूपेण तिष्ठ तावद्वचो मम ॥

कुरुष्व ते प्रयच्छामि येन स्थानमनुत्तमम्

॥२८॥

चमत्कारपुरस्यास्य पश्चिमस्थानमाश्रिताः ॥

सन्त्यन्ये राक्षसास्तत्र मर्यादायां व्यवस्थिताः

॥२९॥

लंकायां राक्षसाश्चैव प्रार्थयन्तोऽत्र सद्गतिम् ॥

ते चागत्य तमुद्देशं तपः कुर्वंति सुव्रताः

॥३॥

तत्र प्रभुत्वमातिष्ठ नागराणां हिते स्थितः ॥

राक्षसा बहवः संति कूष्मांडाश्च पिशाचकाः

॥३१॥

ये चान्ये राक्षसाः केचिद्दुष्टभावसमाश्रिताः ॥

तत्र गच्छंति ये सर्वे निगृह्णंति च तत्क्षणात्

॥३२॥

भूताः प्रेताः पिशाचाश्च कूष्मांडाश्च विशेषतः ॥

नागरं तु पुरो दृष्ट्वा तद्भयाद्यांति दूरतः

॥३३॥

तद्गच्छ पुत्र तत्र त्वं सर्वेषामधिपो भव ॥

राक्षसानां मया दत्तं तव राज्यं च सांप्रतम्

॥३४॥

राक्षस उवाच

आधिपत्ये स्थितस्यैवं राक्षसानां पितामह ॥

किं मया तत्र भोक्तव्यं तेभ्यो देयं च किं वद

॥३५॥

राज्ञा चैव यतो देयं भृत्यानां भोजनं विभो ॥

तन्ममाचक्ष्व देवेश दयां कृत्वा ममोपरि

॥३६॥

न करोति च यो राजा।

भृत्यवर्गस्य पोषणम् ॥

रौरवं नरकं याति स एवं हि श्रुतं मया

॥३७॥

ब्रह्मोवाच

यच्छ्राद्धं दक्षिणाहीनं तिलैर्दर्भैर्विवर्जितम् ॥

तत्सर्वं ते मया दत्तं यद्यपि स्यात्सुतीर्थगम्

॥३८॥

यच्छ्राद्धं सूकरः पश्येन्नारी वाथ रजस्वला ॥

कौलेयकोऽथ वालेयस्तत्सर्वं ते भविष्यति

॥३९॥

विधिहीनं तु यच्छ्राद्धं दर्भेर्वा मूलवर्जितैः ॥

वितस्तेरधिकैर्वापि तत्सर्वं ते भविष्यति

॥४०॥

तिलं वा तैलपक्वं वा शूकधान्यमथापि वा ॥

न यत्र दीयते श्राद्धे तत्ते श्राद्धं भविष्यति

॥४१॥

अस्नातैर्यत्कृतं श्राद्धं यच्चाधौतांबरैः कृतम् ॥

तैलाभ्यंगयुतैश्चैव तत्ते सर्वं भविष्यति

॥४२॥

यद्वा माहिषिको भुंक्ते श्वित्री वा कुनखोऽपि वा ॥

कुष्ठी वाथ द्विजो भुंक्ते तत्ते श्राद्धं भविष्यति

॥४३॥

हीनांगो वाऽथ यद्भुंक्तेऽधिकांगो वाथ निंदितः ॥

महाव्याधिगृहीतो वा चौरो वार्द्धुषिकोऽपि वा ॥

यत्र भुंक्तेऽथवा श्राद्धे तत्ते श्राद्धं भविष्यति

॥४४॥

श्यावदन्तस्तु यद्भुंक्ते यद्भुंक्ते वृषलीपतिः ॥

विनग्नो वाथ यद्भुंक्ते तत्ते श्राद्धं भविष्यति

॥४५॥

यो यज्ञो दक्षिणाहीनो यश्चाशौचयुतैः कृतः ॥

ब्रह्मचर्यविहीनस्तु तत्फलं ते भविष्यति

॥४६॥

यस्मिन्नैवातिथिः पूज्यः श्राद्धे वा यज्ञकर्मणि ॥

संप्राप्ते वैश्वदेवांते तत्ते सर्वं भविष्यति

॥४७॥

१ आवाहनात्परं यत्र मौनं न श्राद्धदश्चरेत् ॥

ब्राह्मणो वाऽथ भोक्ता च तत्ते श्राद्धं भविष्यति

॥४८॥

मृन्मयेषु च पात्रेषु यः श्राद्धं कुरुते नरः ॥

भिन्नपात्रेषु वा यच्च तत्ते सर्वं भविष्यति

॥४९॥

प्रत्यक्षलवणं यत्र तक्रं वा विकृतं भवेत् ॥

जातीपुष्पप्रदानं च तत्ते सर्वं भविष्यति

॥५०॥

यजमानो द्विजो वाथ ब्रह्मचर्यविवर्जितः ॥

तच्छ्राद्धं ते मया दत्तं त्रिपात्रेण विवर्जितम्

॥५१॥

आयसेन तु पात्रेण यत्रान्नं च प्रदीयते ॥

तच्छ्राद्धं ते मया दत्तं तथान्यदपि हीयते

॥५२॥

मंत्रक्रियाभ्यां यत्किचिद्रात्रौ दत्तं हुतं तथा ॥

सक्रांतिसोमपर्वभ्यां व्यति रिक्तं तु कुत्सितम्

॥५३॥

इत्युक्त्वा विररामाशु ब्रह्मा लोकपितामहः ॥

राक्षसः सोऽपि तत्रापि लेभे स्थानं तु राक्षसम्

॥५४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठ नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये राक्षसप्राप्यश्राद्धवर्णनंनाम सप्ताशीत्युत्तरशततमोऽध्यायः ॥ १८७ ॥