तत्तद्दुरितप्राप्यैकविंशतिनरकयातनातन्निवारणोपायवर्णनम्
भर्तृयज्ञ उवाच
यतः सपिंडता प्रोक्ता पितृपिण्डैः समंततः ॥
यावत्सपिण्डता नैव तावत्प्रेतः स तिष्ठति
॥१॥अपि धर्मसमोपेतस्तपसाऽपि समन्वितः ॥
एतस्मात्कारणात्प्रोक्ता मुनिभिस्तु सपिंडता
॥२॥यस्ययस्य च योऽन्यत्र योनिं प्राप्नोति मानवः ॥
तत्रस्थस्तृप्तिमाप्नोति यद्दत्तं तस्य वंशजैः
॥३॥आनर्त उवाच
ये दृश्यंते निजाः स्वप्ने चिरात्पितृपितामहाः ॥
प्रार्थयंति निजान्कामांस्ततः किं स्यान्महामुने
॥४॥भर्तृयज्ञ उवाच
येषां गतिर्न संजाता प्रेतत्वे च व्यवस्थिताः ॥
दर्शयंति च ते सर्वे स्वयमात्मानमेव हि
॥५॥स्ववंश्यानां न चान्ये तु सत्यमेतन्मयोदितम् ॥
यथा लोकेऽत्र संजाता ये च कृत्यैः शुभाशुभैः
॥६॥आनर्त उवाच
यस्य नो विद्यते पुत्रः सपिण्डीकरणं कथम् ॥
तस्य कार्यं भवेदत्र तन्मे त्वं वक्तुमर्हसि
॥७॥भर्तृयज्ञ उवाच
यस्य नो विद्यते पुत्र औरसश्च महीपते ॥
चतुर्णां स्वपितॄणां तु कथं स स्याच्चतुर्थकः
॥८॥प्रकर्षेण व्रजेद्यस्मात्तस्मात्प्रेतः प्रकीर्तितः ॥
पुत्रेण भ्रात्रा पत्न्या वा तस्य कार्या सपिंडता
॥९॥चतुर्थो यदि राजेंद्र जायते न कथंचन ॥
क्षेत्रजादीन्सुतानेतानेकादश यथोदितान्
॥१०॥पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥
काले यदि न राजेंद्र जायतेऽस्योत्तरक्रिया
॥११॥नारायणबलिः कार्यः प्रेतत्वस्य विनाशकः ॥
यथान्येषां मनुष्याणामपमृत्युमुपेयुषाम् ॥
कार्यश्चैवात्महंतॄणां ब्राह्मणान्मृत्युमीयुषाम्
॥१२॥आनर्त उवाच
कथं मृत्युमवाप्नोति पुरुषोऽत्र महामते
॥१३॥स्वर्गं वा नरकं वापि कर्मणा केन गच्छति ॥
मोक्षं वाऽथ महाभाग सर्वं मे विस्त राद्वद
॥१४॥भर्तृयज्ञ उवाच
धर्मी पापी तथा ज्ञानी तिस्रोऽत्र गतयः स्मृताः ॥
धर्मात्संप्राप्यते स्वर्गः पापान्नरक एव च
॥१५॥ज्ञानात्संप्राप्यते मोक्षः सत्यमेतन्मयोदितम् ॥
एनमर्थं भविष्यं तु भीष्मं शांतनवं नृप
॥१६॥युधिष्ठिरो महाराज धर्मपुत्रो नृपोत्तमः ॥
कृष्णेन सह राजेंद्र पितामहमपृच्छत
॥१७॥युधिष्ठिर उवाच
कियंतो नरकाः ख्याता यमलोके पितामह ॥
केन पापेन गच्छंति तेषु सर्वेषु जंतवः
॥१८॥श्रीभीष्म उवाच
एकविंशत्प्रमाणाः स्युर्नरका यममंदिरे ॥
प्राणिनस्तेषु गच्छंति निजकर्मानुसारतः
॥१९॥ख्यातौ चित्रविचित्रौ च कायस्थौ यममंदिरे
॥२०॥चित्रोऽथ लिखते धर्मं सर्वं प्राणिसमुद्भवम् ॥
विचित्रः पातकं सर्वं परमं यत्नमास्थितः
॥२१॥यमदूताः सदैवाष्टौ धर्मराजसमुद्भवाः ॥
ये नयंति नरान्मृत्युलोकात्स्ववशगान्सदा
॥२२॥करालो विकरालश्च वक्रनासो महोदरः ॥
सौम्यः शांतस्तथा नंदः सुवाक्यश्चाष्टमः स्मृतः
॥२३॥एतेषां ये पुरा प्रोक्ताश्चत्वारो रौद्ररूपिणः ॥
पापं जनं च ते सर्वे नयन्ति यमसादनम्
॥२४॥चत्वारो ये परे प्रोक्ताः सौम्यरूपवपुर्द्धराः ॥
धर्मिणं ते जनं सर्वं नयंति यमसादनम्
॥२५॥विमानेन समारूढमप्सरोगणसेवितम्
॥२६॥लिखितस्यानुरूपेण पापधर्मोद्भवस्य च ॥
एतेषां किंकरा ये च तेषां संख्या न जायते
॥२७॥अष्टोत्तरशतं तेषां व्याधीनां परिकल्पितम् ॥
सहायार्थं यमेनात्र ज्वरयक्ष्मांतरस्थितम्
॥२८॥ते गत्वा व्याधयः पूर्वं वशे कुर्वंति मानवम्
॥२९॥यमदूतास्ततो गत्वा नाभिमूलव्यवस्थितम् ॥
वायुरूपं समादाय जनैः सर्वैरलक्षिताः
॥३०॥गच्छंति यममार्गेण देहं संस्थाप्य भूतले ॥
षडशीतिसहस्राणि यममार्गः प्रकीर्तितः
॥३१॥तत्र वैतरणीनाम नदी पूर्वं परिश्रुता ॥
स्रोतोभ्यां सा महाभाग तत्र संस्था सदैव हि
॥३२॥तत्र शोणितमेकस्मिन्स्रोतस्यस्या वह त्यलम् ॥
शस्त्राणि च सुतीक्ष्णानि तन्मध्ये भरतर्षभ
॥३३॥मृत्युकाले प्रयच्छंति ये धेनुं ब्राह्मणाय वै ॥
तस्याः पुच्छं समाश्रित्य ते तरंति च तां नृप
॥३४॥स्वबाहुभिस्तथैवान्ये शतयोजनविस्तृतम् ॥
द्वितीयं चैव तत्स्रोतो वैतरण्या व्यवस्थितम् ॥
तस्यास्तत्सलिलस्रावि गम्यं धर्मवतां सदा
॥३५॥ये नरा गोप्रदातारो मृत्युकाले व्यवस्थिते ॥
ते गोपुच्छं समाश्रित्य तां तरंति पृथूदकाम् ॥
अन्ये स्वबाहुभिः कृत्वा गोप्रदानविवर्जिताः
॥३६॥गोप्रदानं प्रकर्तव्यं तस्माच्चैव विशेषतः।
. मृत्युकालेऽत्र संप्राप्ते य इच्छेद्गतिमात्मनः
॥३७॥तस्या अनन्तरं यांति पापमार्गेण पापिनः ॥
धर्मिष्ठा धर्ममार्गेण विमानवरमाश्रिताः
॥३८॥वैतरण्याः परं पारे पंचयोजनमायतम् ॥
असिपत्रवनंनाम पापलोकस्य दुःखदम्
॥३९॥तत्र लोहमयान्येवासिपत्राणां शतानि च ॥
यानि कृन्तंति मर्त्यानां शरीराणि समंततः
॥४०॥यैर्हृतं परवित्तं च कलत्रं च दुरात्मभिः ॥
नव श्राद्धानि तेषां चेत्तस्मान्मुक्तिः प्रजायते
॥४१॥तस्मात्परतरो ज्ञेयो विख्यातः कूटशाल्मलिः ॥
अधोमुखाः प्रलंबंते तस्मिन्कंटकसंकुले
॥४२॥अधस्ताद्वह्निना चैव दह्यमाना दिवानिशम् ॥
विश्वासघातका ये च सर्वदैव सुनिर्दयाः ॥
तस्मान्मुक्तिं प्रयांति स्म श्राद्धे ह्येकादशे कृते
॥४३॥यंत्रात्मकस्ततः प्रोक्तो नरको दारुणाकृतिः ॥
ब्रह्मघ्नास्तत्र पीड्यंते ये चाऽन्ये पापकर्मिणः
॥४४॥श्राद्धेन द्वादशोत्थेन तेभ्यो दत्तेन पार्थिव ॥
तस्मान्मुक्तिं प्रगच्छन्ति यन्त्राख्यनरकात्स्फुटम्
॥४५॥ततो लोहसमाः स्तंभा ज्वलमाना व्यवस्थिताः ॥
आलिंगंति च तान्सर्वान्परदाररताश्च ये
॥४६॥मासिकोत्थे कृते श्राद्धे तेभ्यो मुक्तिमवाप्नुयुः ४७ ॥
लोहदंष्ट्रास्ततो रौद्राः सारमेया व्यवस्थिताः ॥
भक्षयंति च ते पापान्पृष्ठमांसा शिनो नरान् ॥
त्रैपक्षिके कृते श्राद्धे तेभ्यो मुक्तिमवाप्नुयुः
॥४८॥लोहचंचुमयाः काकाः संस्थितास्तदनंतरम् ॥
सरागैर्लोचेनैर्यैश्च ईक्षिताः पर योषितः
॥४९॥तेषां नेत्राणि ते घ्नंति भूयो जातानि भूरिशः ।
द्विमासिकं च यच्छ्राद्धं तेन मुक्तिः प्रजायते
॥५०॥ततः शाल्मलिकूटस्तु तथान्ये लोहकण्टकाः ॥
तेषां मध्येन नीयंते पैशुन्यनिरता नराः ॥
त्रिमासिकं तु यच्छ्राद्धं तेन मुक्तिः प्रजायते
॥५१॥रौरवोऽथ सुविख्यातो दारुणो नरको महान् ॥
ब्रह्मघ्नानां समादिष्टः स महाक्लेशकारकः
॥५२॥छिद्यंते विविधैः शस्त्रैस्तत्रस्था ये मुहुर्मुहुः ॥
चतुर्मासिकश्राद्धेन मुक्तिस्तेषां प्रजायते
॥५३॥अपरस्तु समाख्यातः क्षारोदस्तु सुदारुणः ॥
कृतघ्नानां समादिष्टः सदैव बहुवेदनः
॥५४॥अधोमुखा ऊर्ध्व पादाः पीड्यंते यत्र लंबिताः ॥
पञ्चमासिकदानेन मुक्तिस्तेषां प्रजायते
॥५५॥कुम्भीपाकस्ततो ज्ञेयो नरको दारुणाकृतिः ॥
तैलेन क्षिप्यमाणास्तु यत्र दण्डाभिसंधिताः ॥
दृश्यंते जनहंतारो बालहंतार एव च
॥५६॥पतंति नरके रौद्रे नरा विश्वासघातकाः ॥
षण्मासिकप्रदानेन मुच्यंते तत्र संकटात्
॥५७॥सर्पवृश्चिकसंयुक्तस्तथाऽन्यो नरकः श्रुतः ॥
तत्र ये दांभिका लोके ते गच्छन्ति नराधमाः ॥
सप्तमासिकदानेन तेषां मुक्तिः प्रजायते
॥५८॥तथा संवर्तकोनाम नरकोऽन्यः प्रकीर्तितः ॥
वेदविप्लावकाः साधुनिंदकाश्च दुरात्मकाः
॥५९॥उत्पाट्यते ततो जिह्वा सन्दंशैर्व ह्निसम्भवैः ॥
स्वकार्ये येऽनृतं ब्रूयुस्तद्गात्रं खाद्यते श्वभिः
॥६०॥परार्थेऽपि च ये ब्रूयुस्तेषां गात्राणि कृत्स्नशः ॥
अष्टमासिकदानेन तेषां मुक्तिः प्रजायते
॥६१॥अग्निकूटो महाप्लावो दारुणो नरको महान् ॥
तत्र ते यांति वै मूढाः कूटसाक्ष्यिप्रदा नराः
॥६२॥तत्रस्था यातनां रौद्रां सहं तेऽतीव दुःखिताः ॥
नवमासिकदानं च तेषामाह्लादनं परम्
॥६३॥ततो लोहमयैः कीलैः संचितोऽन्यः समंततः ॥
तत्र चाग्निप्रदातारः स्त्रीणां हन्तार एव च
॥६४॥तत्र धावंति दुःखार्तास्ताड्यमानाश्च किंकरैः ॥
दशमासिकजं दानं तत्र तेषां प्रमुक्तये
॥६८५॥ततोंऽगारमयैः पुंजैरावृताभूः समंततः ॥
स्वामिद्रोहरतास्तत्र भ्राम्यंते सर्वतो दिशः
॥६६॥एकादशोद्भवं दानं तत्र मुक्त्यै प्रजायते ॥
संतप्तसिकतापूर्णो नरको दारुणाकृतिः
॥६७॥स्वामिनं चागतं दृष्ट्वा पलायनपरायणाः ॥
ये भवन्ति नरास्तत्र पच्यंते तेऽपि दुःखिताः ॥
तेषां द्वादशमासीयं श्राद्धं चैवोपतिष्ठति
॥६८॥यत्किंचिद्दीयते तोयमन्नं वा वत्सरांतरे ॥
प्रभुंजते च तन्मार्गे प्रदत्तं निजबान्धवैः
॥६९॥ततः संवत्सरादूर्ध्वं निजकर्मसमुद्भवम् ॥
शुभाशुभं प्रपद्यंते धर्मराजसमीपगाः
॥७०॥एवं पंचदशैतानि संसेव्य नरकाणि ते ॥
प्राप्नुवंति ततो जन्म मर्त्यलोके पुनर्नराः
॥७१॥प्राप्नुवंति विदेशे च जन्म ये हेतुवादकाः ॥
नित्यं तर्पणदानेन तेषां तृप्तिः प्रजायते
॥७२॥स्वामिद्रोहरता ये च कुराज्ये जन्म चाप्नुयुः ॥
हंतकारप्रदानेन तेषां तृप्तिः प्रजायते
॥७३॥अदत्त्वा ये नरोऽश्नंति पितृदेवद्विजातिषु ॥
दुर्भिक्षे जन्म तेषां तु तेन पापेन जायते
॥७४॥क्षयाहे श्राद्धसंप्राप्तौ तत स्तृप्तिः प्रजायते
॥७५८॥ये प्रकुर्वंति दम्पत्योर्भेदं वै सानुरागयोः ॥
परस्परमसत्यानि तेषां भार्याऽसती भवेत्
॥७६॥एकस्मिन्वचने प्रोक्ते दश ब्रूते क्रुधान्विता ॥
विरूपा भ्रममाणा च सर्वलोकविगर्हिता ॥
कन्यादानफलैस्तेषां तत्रासां च सुखं भवेत्
॥७७॥कन्यकादानविघ्नं हि विक्रयं वा करोति यः ॥
स कन्याः केवलाः सूते न पुत्रं केवलं क्वचित्
॥७८॥जायंते ताश्च बंधक्यो विधवा दुर्भगास्तथा ॥
कन्यादानफल प्राप्त्या तासां सौख्यं प्रजायते
॥७९॥यैर्हृतानि च रत्नानि तथा शास्त्रांतराणि च ॥
ते दरिद्राः प्रजायंते मूकाः खंजा विचक्षुषः ॥
तेषां शास्त्र प्रदानेन इह सौख्यं प्रजायते
॥८०॥एते तु नरकाः प्रोक्ता मर्त्यलोकसमुद्भवाः ॥
एतैर्विज्ञायते सर्वं कृतं कर्म शुभाशुभम्
॥८१॥तीर्थयात्राफलैस्तस्य ततः शुद्धिः प्रजायते
॥८२॥भीष्म उवाच
एतत्ते सर्वमाख्यातं यत्पृष्टोस्मि नराधिप ॥
एकविंशत्प्रमाणं च नरकाणां यथा स्थितम्
॥८३॥भूयश्च पृच्छ राजेंद्र संदेहो यो हृदि स्थितः
॥८४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागर खण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्राद्धकल्पे भीष्मयुधिष्ठिरसंवादे तत्तद्दुरितप्राप्यैकविंशतिनरकयातनातन्निवारणोपायवर्णनंनाम षड्विंशत्युत्तरद्विशत तमोऽध्यायः ॥ २२६ ॥