मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २३४

3
नागरखण्डः · 234

चातुर्मास्यनियमविधिमाहात्म्यवर्णनम्

ब्रह्मोवाच

पितॄणां तर्पणं कुर्याच्छ्रद्धायुक्तेन चेतसा ॥

स्नानावसाने नित्यं च गुप्ते देवे महाफलम्

॥१॥

संगमे सरितोस्तत्र पितॄन्संतर्प्य देवताः ॥

जपहोमादिकर्माणि कृत्वा फलमनंतकम्

॥२॥

गोविंदस्मरणं कृत्वा पश्चात्कार्याः शुभाः क्रियाः ॥

एष एव पितृदेवमनुष्यादिषु तृप्तिदः

॥३॥

श्रद्धां धर्मयुतां नाम स्मृतिपूतानि कारयेत् ॥

कर्माणि सकलानीह चातुर्मास्ये गुणोत्तरे

॥४॥

सत्संगो द्विजभक्तिश्च गुरुदेवाग्नि तर्पणम् ॥

गोप्रदानं वेदपाठः सत्क्रियासत्यभाषणम्

॥५॥

गोभक्तिर्दानभक्तिश्च सदा धर्मस्य साधनम् ॥

कृष्णे सुप्ते विशेषेण नियमोऽपि महा फलः

॥६॥

नारद उवाच

नियमः कीदृशो ब्रह्मन्फलं च नियमेन किम् ॥

नियमेन हरिस्तुष्टो यथा भवति तद्वद

॥७॥

ब्रह्मोवाच

नियमश्चक्षुरादीनां क्रियासु विविधासु च ॥

कार्यो विद्यावता पुंसा तत्प्रयोगान्महासुखम्

॥८॥

एतत्षड्वर्गहरणं रिपुनिग्रहणं परम् ॥

अध्यात्ममूलमेतद्धि परमं सौख्यकारणम्

॥९॥

तत्र तिष्ठंति नियतं क्षमासत्यादयो गुणाः ॥

विवेकरूपिणः सर्वे तद्विष्णोः परमं पदम्

॥१०॥

कृत्वा भवति यज्ञान्यत्कृतकृत्यत्वमत्र तत् ॥

स्यात्तस्य तत्पूर्वजानां येन ज्ञातमिदं पदम्

॥११॥

तन्मुहूर्त्तमपि ध्यात्वा पापं जन्मशतोद्भवम् ॥

भस्म साद्याति विहितं निरंजननिषेवणात्

॥१२॥

प्रत्यहं संकुचत्यस्य क्षुत्पिपासादिकः श्रमः ॥

स योगी नियमी नित्यं हरौ सुप्ते विशिष्यते

॥१३॥

चातुर्मास्ये नरो भक्त्या योगाभ्यासरतो न चेत् ॥

तस्य हस्तात्परिभ्रष्टममृतं नात्र संशयः

॥१४॥

मनो नियमितं येन सर्वेच्छासु सदागतम् ॥

तस्य ज्ञाने च मोक्षे च कारणं मन एव हि

॥१५॥

मनोनियमने यत्नः कार्यः प्रज्ञावता सदा ॥

मनसा सुगृहीतेन ज्ञानाप्तिरखिला ध्रुवम्

॥१६॥

तन्मनः क्षमया ग्राह्यं यथा वह्निश्च वारिणा ॥

एकया क्षमया सर्वो नियमः कथितो बुधैः

॥१७॥

सत्यमेकं परो धर्मः सत्यमेकं परं तपः ॥

सत्यमेकं परं ज्ञानं सत्ये धर्मः प्रतिष्ठितः

॥१८॥

धर्ममूलमहिंसा च मनसा तां च चितयन् ॥

कर्मणा च तथा वाचा तत एतां समाचरेत्

॥१९॥

परस्वहरणं चौर्यं सर्वदा सर्वमानुषैः ॥

चातुर्मास्ये विशेषेण ब्रह्मदेवस्ववर्जनम्

॥२०॥

अकृत्यकरणं चैव वर्जनीयं सदा बुधैः ॥

अहीनः सर्वकार्येषु यः सदा विप्र वर्तते

॥२१॥

स च योगी महाप्राज्ञः प्रज्ञाचक्षुरहं नधीः ॥

? अहंकारो विषमिदं शरीरे वर्त्तते नृणाम्

॥२२॥

तस्मात्स सर्वदा त्याज्यः सुप्ते देवे विशेषतः ॥

अनीहया जितक्रोधो जितलोभो भवेन्नरः

॥२३॥

तस्य पापसहस्राणि देहाद्यांति सहस्रधा ॥

मोहं मानं पराजित्य शमरूपेण शत्रुणा

॥२४॥

विचारेण शमो ग्राह्यः सन्तोषेण तथा हि सः ॥

मात्सर्यमृजुभावेन नियच्छेत्स मुनीश्वरः

॥२५॥

चातुर्मास्ये दयाधर्मो न धर्मो भूतविद्रुहाम् ॥

सर्वदा सर्व दानेषु भूतद्रोहं विवर्जयेत्

॥२६॥

एतत्पापसहस्राणां मूलं प्राहुर्मनीषिणः ॥

तस्मात्सर्वप्रयत्नेन कार्या भूतदया नृभिः

॥२७॥

सर्वेषामेव भूतानां हरिर्नित्यं हृदि स्थितः ॥

स एव हि पराभूतो यो भूतद्रोहकारकः

॥२८॥

यस्मिन्धर्मे दया नैव स धर्मो दूषितो मतः ॥

दयां विना न विज्ञानं न धर्मो ज्ञानमेव च

॥२९॥

तस्मात्सर्वात्मभावेन दयाधर्मः सनातनः ॥

सेव्यः स पुरुषैर्नित्यं चातुर्मास्ये विशेषतः

॥३०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चातुर्मास्यमाहात्म्ये शेपशाय्युपाख्याने ब्रह्म नारदसंवादे चातुर्मास्यनियमविधिमाहात्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३४ ॥