एतत्ते पूजनं विष्णोः षोडशोपायसंभवम्
ईश्वर उवाच
एतत्ते पूजनं विष्णोः षोडशोपायसंभवम् ॥
कथितं यद्द्विजः कृत्वा प्राप्नोति परमं पदम्
॥१॥तथा च क्षत्रियविशां करणान्मुक्तिरुत्तमा ॥
शूद्राणां नाधिकारोऽस्मिन्स्त्रीणां नैव कदाचन
॥२॥कार्तिकेय उवाच
शूद्राणां च तथा स्त्रीणां धर्मं विस्तरतो वद ॥
केन मुक्तिर्भवेत्तेषां कृष्णस्याराधनं विना
॥३॥ईश्वर उवाच
सच्छूद्रैरपि नो कार्या वेदाक्षरविचारणा ॥
न श्रोतव्या न पठ्या च पठन्नरकभाग्भवेत्
॥४॥पुराणानां नैव पाठः श्रवणं कारयेत्सदा ॥
स्मृत्युक्तं सुगुरोर्ग्राह्यं न पाठः श्रवणादिकम्
॥५॥स्कंद उवाच
सच्छूद्राः के समाख्यातास्तांश्च विस्तरतो वद ॥
के संतः के च शूद्राश्च सच्छूद्रा नामतश्च के
॥६॥ईश्वर उवाच
धर्मोढा यस्य पत्नी स्यात्स सच्छूद्र उदाहृतः ॥
समानकुलरूपा च दशदोषविवर्जिता
॥७॥उद्वोढा वेदविधिना स सच्छूद्रः प्रकीर्तितः ॥
अक्लीवाऽव्यंगिनी शस्ता महारोगाद्यदूषिता
॥८॥अनिंदिता शुभकला चक्षुरोगविवर्जिता ॥
बाधिर्यहीना चपला कन्या मधुरभाषिणी
॥९॥दूषणैर्दशभिर्हीना वेदोक्तविधिना नरैः ॥
विवाहिता च सा पत्नी गृहिणी यस्य सर्वदा
॥१०॥सच्छूद्रः स तु विज्ञेयो देवादीनां विभागकृत् ॥
पुण्यकार्येषु सर्वेषु प्रथमं सा प्रकीर्तिता
॥११॥तया सुविहितो धर्मः संपूर्णफलदायकः ॥
चातुर्मास्ये विशेषेण तया सह गुणाधिकः
॥१२॥भार्यारतिः शुचिर्भृत्यादीनां पोषणतत्परः ॥
श्राद्धादिकारको नित्यमिष्टापूर्त्तप्रसाधकः
॥१३॥नमस्कारान्तमन्त्रेण नामसंकीर्तनेन च ॥
देवा स्तस्य च तुष्यन्ति पंचयज्ञादिकैः शुभैः
॥१४॥स्नानं च तर्पणं चैव वह्निहोमोऽप्यमंत्रकः ॥
ब्रह्मयज्ञोऽतिथेः पूजा पंचयज्ञान्न संत्यजेत्
॥१५॥कार्यं स्त्रीभिश्च शूद्रैश्च ह्यमंत्रं पंचयज्ञकम् ॥
पंचयज्ञैश्च संतुष्टा यथैषां पितृदेवताः
॥१६॥तथा पतिव्रतायाश्च पतिशुश्रूषया सदा ॥
पतिव्रताया देहे तु सर्वे देवा वसंति हि
॥१७॥अतस्ताभ्यां समेताभ्यां धर्मादीनां समागमः ॥
यदोभयोर्मते पृष्टे संतुष्टाः पितृदेवताः
॥१८॥कार्यादीनां च सर्वेषां संगमस्तत्र नित्यदा ॥
चातुर्मास्ये समायाते विष्णुभक्त्या तयोः शिवम्
॥१९॥समानजातिसंभूता पत्नी यस्य धृता भवेत् ॥
पूर्वो भर्त्ताऽर्द्धभागी स्याद्द्वितीयस्य न किंचन
॥२०॥अर्थकार्याधिकारोऽस्यास्तेन धर्मार्धधारिणी ॥
स्वंस्वं कृतं सदैव स्यात्तयोः कर्म शुभाशुभम्
॥२१॥याऽनुगच्छति भर्तारं मृतं सुतपसा द्विज ॥
साध्वी सा हि परिज्ञेया तया चोद्ध्रियते कुलम्
॥२२॥अन्यजातेर्मृतस्याथ धृता वापि विवाहिता ॥
वैश्वानरस्य मार्गेण सा तमुद्धरते पतिम्
॥२३॥यथा जलाच्च जंबालः कृष्यते धार्मिकैर्नृभिः ॥
एवमुद्धरते साध्वी भर्त्तारं याऽनुग च्छति
॥२४॥अन्यजातिसमुद्भूता अन्येन विधृता यदि ॥
तावुभौ धर्मकार्येषु संत्याज्यौ नित्यदा मतौ
॥२५॥स्वंस्वं कर्म प्रकुरुतः सत्कर्म जं स्वकं फलम् ॥
तस्माद्वरिष्ठा हीना वा सत्कुल्या शूद्रसंभवैः
॥२६॥धृता न कार्या सा पत्नी यत्करोति न वर्द्धते ॥
तया सह कृतं पुण्यं वर्द्धते दशधोत्तरम्
॥२७॥अनन्ततृप्तिदं नैव तत्सुतैरपि वा तथा ॥
क्रयक्रीता च या कन्या दासी सा परिकीर्तिता
॥२८॥सच्छूद्रस्याधिकारे सा कदाचिन्नैव जायते ॥
या कन्या स्वयमुद्यम्य पित्रा दत्ता वराय च
॥२९॥विवाहविधिनोदूढा पितृदेवार्थसाधिनी ॥
सुलक्षणा विनीता सा विवेकादिगुणा शुभा
॥३०॥सच्चरित्रा पतिपरा सा तेभ्यो दातुमर्हति ॥
विशुद्धकुलजा कन्या धर्मोढा धर्मचारिणी
॥३१॥सा पुनाति कुलं सर्वं मातृतः पितृतस्तथा ॥
एष एव मया प्रोक्तः सच्छूद्राणां परो विधिः
॥३२॥अधोजातिसमुद्भूता सच्छूद्रात्क्रमहीनजा ॥
विवाहो दशधा तेषां दशधा पुत्रता भवेत्
॥३३॥चत्वार उत्तमाः प्रोक्ता विवाहा मुनिसत्तम ॥
शेषाः सर्वप्रकृतिषु कथिताश्च पुराविदैः
॥३४॥प्राजापत्यस्तथा ब्राह्मो दैवार्षो चातिशोभना ॥
गांधर्वश्चासुरश्चैव राक्षसश्च पिशाचकः
॥३५॥प्रातिभो घातनश्चेति विवाहाः कथिता दश ॥
एते हि हीनजातीनां विवाहाः परिकीर्तिताः
॥३६॥औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ॥
गूढोत्पन्नोऽपविद्धश्च कानीनश्च सहोढजः
॥३७॥क्रीतः पौनर्भवश्चापि पुत्रा दशविधाः स्मृताः ॥
औरसादपि हीनाश्च तेऽपि तेषां शुभावहाः
॥३८॥अष्टादशमिता नीचाः प्रकृतानां यथातथा ॥
विधिनैव क्रिया नैव स्मृति मार्गोऽपि नैव च
॥३९॥तासां ब्राह्मणशुश्रूषा विष्णुध्यानं शिवार्चनम् ॥
अमन्त्रात्पुण्यकरणं दानं देयं च वै सदा
॥४॥न दानस्य क्षयो लोके श्रद्धया यत्प्रदीयते ॥
अश्रद्धयाऽशुचितया दानं वैरस्यकारणम्
॥४१॥अहिंसादि समादिष्टो धर्मस्तासां महाफलः ॥
चातुर्मास्ये विशेषेण त्रिदिवेशादिसेवया
॥४२॥सुदर्शनैस्तथा धर्मः सेव्यते ह्यविरोधिभिः [।
सच्छूद्रैर्दानपुण्यैश्च द्विजशुश्रूषणादिभिः
॥४३॥वृत्तिश्च सत्यानृतजा वाणिज्यव्यव हारजा ॥
अशीतिभागमारद्याद्व्याजाद्वार्धुषिकः शते
॥४४॥सपादभागवृद्धिस्तु क्षत्त्रियादिषु गृह्यते ॥
एवं न बन्धो भवति पातकस्य कदाचन
॥४५॥प्रातःकर्म सुरेशानां मध्याह्ने द्विजसेवनम् ॥
अपराह्णेऽथ कार्याणि कुर्वन्मर्त्यः सुखी भवेत्
॥४६॥गृहस्थैश्च सदा भाव्यं यावज्जीवं क्रियापरैः ॥
पंचयज्ञरतैश्चैवातिथिद्विजसुपूजकैः
॥४७॥विष्णुभक्तिरतैश्चैव वेदमन्त्रविपाठकैः ॥
सततं दानशीलैश्च दीनार्तजनवत्सलैः
॥४८॥क्षमादिगुणसंयुक्तैर्द्वादशाक्षरपूजकैः ॥
षडक्षरमहोद्गारपरमानन्दपूरितैः
॥४९॥सदपत्यैः सदाचारैः सतां शुश्रूषणैरपि ॥
विमत्सरैः सदा स्थेयं तापक्लेशविवर्जितैः
॥५०॥प्रव्रज्यावर्जनैरेवं सच्छूद्रैर्धर्मतत्परैः ॥
तोषणं सर्वभूतानां कार्यं वित्तानुसारतः
॥५१॥सदा विष्णुशिवादीनां ये भक्तास्ते नराः सदा ॥
देववद्दिवि दीव्यंति चातुर्मास्ये विशेषतः
॥५२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये शेषशाय्युपाख्यान ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये तपोऽधिकारे सच्छूद्रकथनंनामैकचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४१ ॥