मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २४६

3
नागरखण्डः · 246

शापप्रदानवृत्तान्तवर्णनम्

गालव उवाच

शक्रादयस्तु देवेशा दुःखसंतप्तमानसाः ॥

ईश्वरादर्शनभ्रांतमनः कर्मेंद्रिया रतिम्

॥१॥

न प्रापुर्लोकनाथं ते कृत्वा यः प्रतिमाकृतिम् ॥

तपसाराधयामासुः सर्वभूतहृदिस्थितम्

॥२॥

कपर्दशिरसं देवं शूलहस्तं पिनाकिनम् ॥

कपालखट्वांगधरं दशहस्तं किरीटिनम्

॥३॥

उमासहितमीशानं पंचवक्त्रं महाभुजम् ॥

कर्पूरगौरदेहाभं सितभूतिविभूषितम्

॥४॥

नागयज्ञोपवीतेन गजचर्मसमन्वितम् ॥

कृष्णसारत्वचा चापि कृतप्रावरणं विभुम्

॥५॥

कृतध्यानाः सुरास्तत्र वृक्षाधारे समाश्रिताः ॥

व्रतचर्यां समाश्रित्य प्रचक्रुस्तप उत्तमम्

॥६॥

षडक्षरेण मंत्रेण शैवेन विहिताः सुराः ॥

शूद्र उवाच ॥

व्रतचर्या त्वया या सा प्रोक्ता संजा यते कथम्

॥७॥

ब्रह्मन्विस्तरतो ब्रूहि न तृप्येते वचोऽमृतैः

॥८॥

गालव उवाच

जपन्भस्म च खट्वांगं कपालं स्फाटिकं तथा ॥

रुंडमालां पंचवक्त्रमर्द्धचंद्रं च मूर्द्धनि

॥९॥

चित्रकृत्तिपरीधानं कौपीनकुण्डलद्वयम् ॥

घंटायुग्मं त्रिशूलं च सूत्रं चर्यास्वरूपकम्

॥१०॥

अमीभिर्लक्षणैर्लक्ष्यं मयोक्तं तव शूद्रज ॥

अनेन विधिना सर्वे देवा वह्निपुरोगमाः

॥११॥

सर्व आराधयामासुः सर्वोपायैर्वरप्रदम् ॥

चातुर्मास्ये च संपूर्णे सपूर्णे कार्तिकेऽमले

॥१२॥

चीर्णव्रतान्सुरान्दृष्ट्वा विशुद्धांश्च महेश्वरः ॥

मतिं तेषां ददौ तुष्टो जीवात्मा सर्वभूतदृक्

॥१३॥

शतरुद्रीयजाप्येन विधानसहितेन च ॥

ध्यानेन दीपदानेन चातुर्मास्ये तुतोष सः

॥१४॥

पूजनैः षोडशविधैर्यथा विष्णोस्तथा हरे ॥

कुर्वाणान्भक्तिभावेन ज्ञात्वा देवान्समागतान्

॥१५॥

प्रहृष्टो भगवान्रुद्रो ददौ तेषां शुभा मतिम् ॥

ततः संमंत्र्य ते देवा वह्निं स्तुत्वा यथार्थतः

॥१६॥

प्रसन्नवदनं चक्रुः कार्यसाधनतत्परम् ॥

कर्मसाक्षी महातेजाः कृत्वा पारावतं वपु

॥१७॥

प्रविवेश ततो मध्ये द्रष्टुं देवं महेश्वरम् ॥

चकार गतिविक्षेपं गुंठनैरवगुंठनैः

॥१८॥

लुंठनैः सर्पणैश्चैव चारुरूपोऽद्भुतां गतिम् ॥

तं दृष्ट्वा भगवांस्तत्र कारणं समबुद्ध्यत

॥१९॥

ऊर्ध्वरेतास्ततस्तस्मिन्ससर्जादौ दधार तत् ॥

वीर्यं वह्निमुखे चैव सोत्पपात गृहाद्बहिः

॥२०॥

गते तस्मिन्पतंगेऽथ पार्वती विफलश्रमा ॥

संक्रुद्धा सर्वदेवानां सा शशाप महेश्वरी

॥२१॥

यस्मान्ममेच्छा विहता भवद्भिर्दुष्टबुद्धिभिः ॥

तस्मात्पाषाणतामाशु व्रजंतु त्रिदिवौकसः

॥२२॥

निरपत्या निर्दयाश्च सर्वे देवा भविष्यथ ॥

ततः प्रसादयामासुः प्रणताः शापयंत्रिताः

॥२३॥

महद्दुःखं संप्रविष्टाः पुनः पुनरथाब्रुवन्

॥२४॥

देवा ऊचुः

त्वं माता सर्वदेवानां सर्वसाक्षी सनातनी ॥

उत्पत्तिस्थितिसंहारकारणं जगतां सदा

॥२५॥

भूतप्रकृतिरूपा त्वं महाभूतसमाश्रिता ॥

अपर्णा तपसां धात्री भूतधात्री वसुन्धरा

॥२६॥

मंत्राराध्या मन्त्रबीजं विश्वबीजलयस्थितिः ॥

यज्ञादिफलदात्री च स्वाहारूपेण सर्वदा

॥२७॥

मन्त्रयन्त्रसमोपेता ब्रह्मविष्णुशिवादिषु ॥

नित्यरूपा महारूपा सर्वरूपा निरञ्जना

॥२९८॥

दोषत्रयसमाक्रान्त जननैः श्रेयसप्रदा ॥

महालक्ष्मीर्महाकालीमहादेवी महेश्वरी

॥२९॥

विश्वेश्वरी महामाया मायाबीजवरप्रदा ॥

वररूपा वरेण्या त्वं वरदात्री वरासुता

॥३०॥

बिल्वपत्रैः शुभैर्ये त्वां पूजयन्ति नराः सदा ॥

तेषां राज्यप्रदात्री च कामदा सिद्धिदा सदा

॥३१॥

चातुर्मास्येऽर्चिता यैस्त्वं बिल्वपत्रैर्विशेषतः ॥

तेषां वांछितसिद्ध्यर्थं जाता कामदुघा स्वयम्

॥३२॥

येऽर्चयंति सदा लोके महेश्वरसमन्विताम् ॥

बिल्वपत्रैर्महाभक्त्या न तेषां दुःखदुष्कृती

॥३३॥

चातुर्मास्ये विशेषेण तव पूजा महाफला ॥

अद्यप्रभृति यैर्लोकैर्बिल्वपत्रैस्तु पूजिता

॥३४॥

विधास्यसि महेशानि तेषां ज्ञानमनुत्तमम् ॥

चातुर्मास्येऽधिकफलं बिल्वपत्रं वरानने

॥३५॥

उमामहेश्वरप्रीत्यै दत्तं विधिवदक्षयम् ॥

यथा श्रीस्तुलसीवृक्षे तथा बिल्वे च पार्वती

॥३६॥

त्वं मूर्त्या दृश्यसे विश्वं सकलाभीष्टदायिनी ॥

चातुर्मास्ये विशेषेण सेवितौ द्वौ महाफलौ

॥३७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्य माहात्म्ये पैजवनोपाख्याने पार्वत्येन्द्रादीनां शापप्रदानवृत्तान्तवर्णनंनाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ २४६ ॥