मुखारतीर्थोत्पत्तिवर्णनम्
सूत उवाच
अथान्यदपि तत्रास्ति मुखारं तीर्थमुत्तमम् ॥
यत्र ते मुनयः श्रेष्ठा विप्राश्चौरेण संगताः ॥
यत्र सिद्धिं समापन्नः स चौरस्तत्प्रभावतः।
वाल्मीकिरिति विख्यातो रामायणनिबंधकृत्
॥२॥चमत्कारपुरे पूर्वं मांडव्यान्वय संभवः ॥
लोहजंघो द्विजो ह्यासीत्पितृमातृपरायणः
॥३॥तस्यैका चाभवत्पत्नी प्राणेभ्योऽपि गरीयसी ॥
पतिव्रता पतिप्राणा पतिप्रियहिते रता
॥४॥अथ तस्य स्थितस्यात्र ब्रह्मवृत्त्याभिवर्ततः ॥
जगाम सुमहान्कालः पितृमातृरतस्य च
॥५॥एकदा भगवाञ्छक्रो न ववर्ष धरातले ॥
आनर्तविषये कृत्स्ने यावद्वादशवत्सराः
॥६॥ततः स कष्टमापन्नो लोहजंघो द्विजोत्तमाः ॥
न प्राप्नोति क्वचिद्भिक्षां न च किंचित्प्रतिग्रहम्
॥७॥ततस्तौ पितरौ द्वौ तु दृष्ट्वा क्षुत्परिपीडितौ ॥
भार्यां च चिंतयामास दुःखेन महतान्वितः
॥८॥किं करोमि क्व गच्छामि कथं स्याद्दर्शनं मम ॥
एताभ्यामपि वृद्धाभ्यां पत्न्याश्चैव विशेषतः
॥९॥ततः स दुःखसंयुक्तः फलार्थं प्रययौ वने ॥
न च किंचिदवाप्नोति सर्वे शुष्का महीरुहाः
॥१०॥अथापश्यत्स वृद्धां स्त्रीं स्तोकसस्यसमन्विताम् ॥
गच्छमानां तथा तेन श्रमेण महतान्विताम् ॥
ततस्तत्सस्यमादाय वस्त्राणि च स निर्दयः ॥
जगाम स्वगृहं हृष्टः पितृभ्यां च न्यवेदयत्
॥१२॥स एवं लब्धलक्षोऽपि दस्युकर्मणि नित्यशः।
कृत्वा चौर्यं पुपोषाथ निजमेव कुटुम्बकम् ॥
सुभिक्षे चापि संप्राप्ते नान्यत्कर्म करोति सः।
ब्राह्मीं वृत्तिं परित्यक्त्वा चौर्यकर्म समाचरत्
॥१४॥कस्यचित्त्वथ कालस्य तीर्थयात्राप्रसंगतः।
तत्र सप्तर्षयः प्राप्ता मरीचिप्रमुखा द्विजाः
॥१५॥ततस्तान्विजने दृष्ट्वा द्रोहकोपसमन्वितः।
यष्टिमुद्यम्य वेगेन तिष्ठध्वमिति चाब्रवीत्
॥१६॥त्रिशिखां भृकुटीं कृत्वा सत्वरं समुपाद्रवत्।
भर्त्समानः स परुषैर्वाक्यैस्तांस्ताडयन्निव
॥१७॥ततस्ते मुनयो दृष्ट्वा यमदूतोपमं च तम्।
यज्ञोपवीतसंयुक्तं प्रोचुस्ते कृपयान्विताः
॥१८॥ऋषय ऊचुः
अहो त्वं ब्राह्मणोऽसीति तत्कस्मादतिगर्हितम्।
करोषि कर्म चैतद्धि म्लेच्छकृत्यं तु बालिश
॥१९॥वयं च मुनयः शांतास्त्यक्ताऽशेषपरिग्रहाः।
नास्माकमपि पार्श्वस्थं किंचिद्गृह्णाति यद्भवनान्
॥२०॥लोहजंघ उवाच
एतानि शुभ्रचीराणि वल्कलान्यजिनानि च।
उपानहसमेतानि शीघ्रं यच्छंतु मे द्विजाः
॥२१॥नो चेद्धत्वाप्रहारेण यष्ट्या वज्रोपमेन च ॥
प्रापयिष्यस्यसंदिग्धं धर्मराजनिवेशनम्
॥२२॥ऋषय ऊचुः
सर्वं दास्यामहे तुभ्यं वयं तावन्मलिम्लुच ॥
किंवदन्तीं वदास्माकं यां पृच्छामः कुतूहलात्
॥२३॥किमर्थं कुरुषे चौर्यं त्वं विप्रोऽसि सुनिर्घृणः ॥
किं जितो व्यसनै रौद्रैः किं वा व्याधद्विजो भवान्
॥२४॥लोहजंघ उवाच
व्यसनार्थं न मे कृत्यमेतच्चौर्यसमुद्भवम् ॥
कुटुम्बार्थं विजानीथ धर्ममेतन्न संशयः
॥२५॥पितरौ मम वार्द्धक्ये वर्तमानौ व्यवस्थितौ ॥
तथा पतिव्रता पत्नी गृहधर्मविचक्षणा
॥२६॥उपार्ज्जयामि यत्किञ्चिदहमेतेन कर्मणा ॥
तत्सर्वं तत्कृते नूनं सत्येनात्मानमालभे
॥२७॥तस्मान्मुंचथ प्राक्सर्वं विभवं किं वृथोक्तिभिः ॥
कृताभिः स्फुरते हस्तो ममायं हन्तुमेव हि
॥२८॥ऋषय ऊचुः
यद्येवं चौर तद्गत्वा त्वं पृच्छस्व कुटुम्बकम् ॥
ममपापांशभागी त्वं किं भविष्यसि किं न वा
॥२९॥यदि ते संविभागेन पापस्यांशोऽपि गच्छति ॥
तत्कुरुष्वाथवा पाप दुर्वहं ते भविष्यति
॥३०॥सकलं रौरवे रौद्रे पतितस्य सुदुर्मते ॥
वयं त्वा ब्राह्मणं मत्वा ब्रूम एतदसंशयम्
॥३१॥कृपाविष्टाः सहास्माभिः सञ्जातेऽपि सुदर्शने ॥
मुनीनां यतचित्तानां दर्शनाद्धि शुभं भवेत्
॥३२॥एकः पापानि कुरुते फलं भुंक्ते महाजनः ॥
भोक्तारो विप्रमुच्यंते कर्ता दोषेण लिप्यते
॥३३॥सूत उवाच
स तेषां तद्वचः श्रुत्वा चौरः किंचिद्भयान्वितः ॥
सत्यमेतन्न संदेहो यदेतैर्व्याहृतं वचः
॥३४॥तस्मात्पृच्छामि तद्गत्वा निजमेव कुटुम्बकम् ॥
यदि स्यात्संविभागो मे पापांशस्य करोमि वै
॥३९॥एतत्कर्म न गृह्णंति यदि वा संत्यजाम्यहम् ॥
महद्भयं समुत्पन्नं मम चेतसि सांप्रतम्
॥३६॥यदि यूयं न चान्यत्र प्रयास्यथ मुनीश्वराः ॥
पलायनपरा भूत्वा तद्गत्वा निजमंदिरम्
॥३७॥पृच्छामि पोष्यवर्गं च युष्मद्वाक्यं विशेषतः ॥
यदि तत्पातकांशं मे ग्रहीष्यति कुटुम्बकम् ॥
तद्युष्माकं ग्रहीष्यामि यत्किंचित्पार्श्वसंस्थितम्
॥३८॥अथवा प्रतिषेधं मे पापस्यास्य करिष्यति ॥
तत्त्यजिष्याम्यसंदिग्धं सर्वान्वः सपरिच्छदान्
॥३९॥ततस्ते शपथान्कृत्वा तस्य प्रत्ययकारणात् ॥
तस्योपरि दयां कृत्वा मुमुचुस्तं गृहं प्रति
॥४०॥सोऽपि गत्वाऽथ पप्रच्छ प्रगत्वा पितरं निजम् ॥
शृणु तात वचोऽस्माकं ततः प्रत्युत्तरं कुरु
॥४१॥यत्कृत्वाहमकृत्यानि चौर्यादीनि सहस्रशः ॥
पुष्टिं करोमि ते नित्यस् तद्भागस्तेऽस्ति वा न वा
॥४२॥पापस्य मम प्रब्रूहि पृच्छतोऽत्र यथातथम् ॥
अत्र मे संशयो जातस्तस्माच्छीघ्रं प्रकीर्तय
॥४३॥पितोवाच
बाल्ये पुत्र मया नीतस्त्वं पुष्टिं व्याकुलात्मना ॥
शुभाऽशुभानि कृत्यानि कृत्वा स्निग्धेन चेतसा
॥४४॥एतदर्थं पुनर्येन वार्धक्ये समुपस्थिते ॥
गां पालयसि भूयोऽपि कृत्वा कर्म शुभाऽशुभम्
॥४५॥न तस्य विद्यते भागस्तव स्वल्पोऽपि पुत्रक ॥
शुभस्य वाऽथ पापस्य सांप्रतं च तथा मम
॥४६॥आत्मनैव कृतं कर्म स्वयमेवोपभुज्यते ॥
शुभं वा यदि वा पापं भोक्तारोन्यजनाः स्मृताः
॥४७॥साधुत्वेनाथ चौर्येण कृष्या वा वाणिजेन वा ॥
त्वमुपानयसे भोज्यं न मे चिन्ता प्रजायते
॥४८॥तस्मान्नैतद्धृदि स्थाप्यं कर्मनिंद्यं करिष्यसि ॥
यत्तस्यांशं प्रभोक्ता त्वं वयं सर्वे प्रभुंजकाः
॥४९॥सूत उवाच
स एतद्वचनं श्रुत्वा व्याकुलेनान्त्तरात्मना ॥
पप्रच्छ मातरं गत्वा तमेवार्थं प्रयत्नतः
॥५०॥ततस्तयापि तच्चोक्तं यत्पित्रा तस्य जल्पितम् ॥
असामान्यं शुभे पापे कृत्ये तस्य द्विजोत्तमाः
॥५१॥ततः पप्रच्छ तां भार्यां गत्वा दुःखसमन्वितः ॥
साऽप्युवाच ततस्तादृक्पापं गुरुजनोद्भवम्
॥५२॥ततः स शोकसंतप्तः पश्चात्तापेन संयुतः ॥
गर्हयन्नेव चात्मानं ययौ ते यत्र तापसाः
॥५३॥ततः प्रणम्य तान्सर्वान्कृतांजलिपुटः स्थितः।
गम्यतां गम्यतां विप्राः क्षम्यतां क्षम्यतां मम
॥५४॥यन्मया मौर्ख्यमास्थाय युष्मन्निर्भर्त्सना कृता ॥
सुपाप्मना विमूढेन तस्मात्कार्या क्षमाद्य मे
॥५५॥युष्मदीयं वचः कृत्स्नं मद्गुरुभ्यां प्रजल्पितम् ॥
भार्यया च द्विजश्रेष्ठास्तेन मे दुःखमागतम्
॥५६॥तस्मात्कुर्वंतु मे सर्वे प्रसादं मुनिसत्तमाः ॥
उपदेशप्रदानेन येन पापं क्षपाम्यहम्
॥५७॥मया कर्म कृतं निंद्यं सदैव द्विजसत्तमाः ॥
स्त्रियोऽपि च द्विजेंद्राश्च तापसाश्च विशेषतः
॥५८॥ये ये दीनतरा लोका न समर्थाः प्रयोधितुम् ॥
ते मया मुषिताः सर्वे न समर्थाः कदाचन
॥५९॥कुटुम्बार्थं विमूढेन साधुसंगविवर्जिना ॥
यथैव पठता शास्त्रं तन्मेऽद्य पतितं हृदि
॥६०॥यदि न स्याद्भवद्भिर्मे दर्शनं चाद्य सत्तमाः ॥
तदन्यान्यपि पापानि कर्ताहं स्यां न संशयः
॥६१॥तेषां मध्यगतश्चासीत्पुलहो नाम सन्मुनिः ॥
हास्यशीलः स तं प्राह विप्लवार्थं द्विजोत्तमम्
॥६२॥अहं ते कीर्तयिष्यामि मन्त्रमेकं सुशोभनम् ॥
यं ध्यायञ्जप्यमानस्त्वं सिद्धिं यास्यसि शाश्वतीम्
॥६३॥जाटघोटेतिमन्त्रोऽयं सर्वसिद्धिप्रदायकः ॥
(टि. जाटघोटा = जातिगोत्र?) तमेनं जप विप्र त्वं दिवारात्रमतंद्रितः
॥६४॥ततो यास्यसि संसिद्धिं दुर्लभां त्रिदशैरपि
॥६५॥एवमुक्त्वाथ ते विप्रास्तीर्थयात्रां ततो ययुः ॥
सोऽपि तत्रैव चौरस्तु स्थितो जपपरायणः
॥६६॥अनन्यमनसा तेन प्रारब्धः स तदा जपः ॥
यथाऽभवत्समाधिस्थो येनावस्थां परां गतः
॥६७॥तस्यैवं स्मरमाणस्य तं मन्त्रं ब्राह्मणस्य च ॥
निश्चलत्वं गतः कायः कार्ये च निश्चलः स्थितः
॥६८॥ततः कालेन महता वल्मीकेन समावृतः ॥
समंताद्ब्राह्मणश्रेष्ठा ध्यानस्थस्य महात्मनः
॥६९॥तौ मातापितरौ तस्य सा च भार्या मनस्विनी ॥
याता मृत्युवशं सर्वे तमन्वेष्य प्रयत्नतः
॥७०॥न विज्ञातश्च तत्रस्थः संन्यस्तः स महाव्रतः ॥
संसारभावनिर्मुक्तस्तस्मान्मुनिसमागमात्
॥७१॥कस्यचित्त्वथ कालस्य तेन मार्गेण ते पुनः ॥
तीर्थयात्राप्रसंगेन मुनयः समुपस्थिताः
॥७२॥प्रोचुश्चैतद्द्विजाः स्थानं यत्र चौरेण संगमः ॥
आसीद्वस्तेन रौद्रेण ब्राह्मणच्छद्मधारिणा
॥७३॥ततो वल्मीकमध्यस्थं शुश्रुवुर्निस्वनं च ते ॥
जाटघोटेतिमंत्रस्य तस्यैव च महात्मनः
॥७४॥अथ भूम्यां प्रहारास्ते सस्वनुः सर्वतोदिशम् ॥
ते वल्मीकं ततो दृष्ट्वा तं चौरं तस्य मध्यगम्
॥७५॥जपमानं तु तं मन्त्रं पुलहेन निवेदितः ॥
हास्यरूपेण यस्तस्य सिद्धिं च द्विजसत्तमाः
॥७६॥यद्वा सत्यमिदं प्रोक्तमाचार्यैः शास्त्रदृष्टिभिः ॥
स्तोकं सिद्धिकृते तस्य यस्मात्सिद्धिरुपस्थिता
॥७७॥मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ॥
यादृशी भावना यस्य सिद्धिर्भवति तादृशी
॥७८॥अथ तं वीक्ष्य संसिद्धं कुमन्त्रेणापि तस्करम् ॥
ते विप्रा विस्मयाविष्टाः कृपाविष्टा विशेषतः
॥७९॥समाध्यर्हैस्ततो द्रव्यैस्तैलैस्तद्भेषजैरपि
॥८०॥ममर्दुस्तस्य तद्गात्रं समाधिस्थं चिरं द्विजाः ॥
ततः स चेतनां लब्धा आलोक्य च मुहुर्मुहुः ॥
प्रोवाच विस्मयाविष्टस्तान्मुनीन्प्रकृतानिति
॥८१॥लोहजंघ उवाच
किमर्थं न गता यूयं मया मुक्ता द्विजोत्तमाः ॥
नाहं किंचिद्ग्रहीष्यामि युष्मदीयं कथंचन ॥
कुटुंबार्थं यतस्तस्माद्व्रजध्वं स्वेच्छयाऽधुना
॥८२॥मुनय ऊचुः
चिरकालाद्वयं प्राप्ताः पुनर्भ्रांत्वाऽत्र कानने ॥
समाधिस्थेन न ज्ञातः कालोऽतीतस्त्वया बहु
॥८३॥तौ मातापितरौ वृद्धौ त्वया मुक्तौ क्षयं गतौ ।
त्वं च संसिद्धिमापन्नः परामस्मत्प्रसादतः
॥८४॥वल्मीकांतः स्थितो यस्मात्संसिद्धिं परमां गतः ॥
वल्मीकिर्नाम विख्यातस्तस्माल्लोके भविष्यसि
॥८५॥अत्रस्थेन यतो मुष्टास्त्वया लोकाः पुरा द्विज ॥
मुखाराख्यं ततस्तीर्थमेतत्ख्यातिं गमिष्यति
॥८६॥येऽत्र स्नानं करिष्यंति श्रावण्यां श्रद्धया द्विजाः ॥
क्षालयिष्यंति ते पापं चौर्य कर्मसमुद्भवम्
॥८७॥सूत उवाच
एवमुक्त्वाथ ते विप्रास्तमामंत्र्य मुनिं ततः ॥
प्रणतास्तेन संजग्मुर्वांछिताशां ततः परम्
॥८८॥तपःस्थः सोऽपि तत्रैव वाल्मीकिरिति यः स्मृतः
॥८९॥मुनीनां प्रवरः श्रेष्ठः संजातश्च ततः परम् ॥
अद्यापि तिष्ठते मूर्तः स तत्रस्थो मुनीश्वरः
॥९०॥यस्तं प्रपूजयेद्भक्त्या स कविर्जायते भुवम् ॥
अष्टम्यां च विशेषेण सम्यक्छ्रद्धासमन्वितः
॥९१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मुखारतीर्थोत्पत्तिवर्णनंनाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥ १२४ ॥