मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २४३

3
नागरखण्डः · 243

शालिग्रामपूजनमाहात्म्यवर्णनम्

ब्रह्मोवाच

शूद्रः पैजवनोनाम गार्हस्थ्याच्छुद्धिमाप्तवान् ॥

धर्ममार्गाविरोधेन तन्निबोध महामते

॥१॥

आसीत्पैजवनः शूद्रः पुरा त्रेतायुगे किल ॥

स्वधर्मनिरतः ख्यातो विष्णुब्राह्मणपूजकः

॥२॥

न्यायागतधनो नित्यं शांतः सर्वजनप्रियः ॥

सत्यवादी विवेकज्ञस्तस्य भार्या च सुन्दरी

॥३॥

धर्मोढा वेदविधिना समानकुलजा शुभा ॥

पतिव्रता महाभागा देवद्विजहिते रता

॥४॥

काश्यां संबंधिता बाला वैजयंत्यां विवाहिता ॥

सा धर्माचरणे दक्षा वैष्णवव्रतचारिणी

॥५॥

भर्त्रा सह तथा सम्यक्चिक्रीडे सुविनीतवत् ॥

सोऽपि रेमे तया काले हस्तिन्येव महागजः

॥६॥

अर्थाप्तिः पूर्वपुण्येन जाता तस्य महात्मनः ॥

वाणिज्यं स्वजनैर्नित्यं स्वदेशपरदेशजम्

॥७॥

कारयत्यर्थजातैश्च परकीयस्वकीयजैः ॥

एवमर्थश्च बहुधा संजातो धर्मदर्शिनः

॥८॥

पुत्रत्रयं च संजातं पितुः शुश्रूषणे रतम् ॥

तस्य पुत्राः पितुर्भक्ता द्रव्यादिमदवर्जिताः

॥९॥

पितृवाक्यरताः श्रेष्ठाः स्वधर्माचारशोभनाः ॥

पित्रोः शुश्रूषणादन्यन्नाभिनंदंति किंचन

॥१०॥

ते सम्बन्धैः सुसंबद्धाः पित्रा धर्मार्थदर्शिना ॥

तत्पत्न्यो मातृपित्रर्चां कारयंत्यनिवारितम्

॥११॥

ऋद्धिमद्भवनं तस्य धनधान्यसमन्वितम् ॥

सोऽपि धर्मरतो नित्यं देवतातिथिपूजकः

॥१२॥

गृहागतो न विमुखो यस्य जातु कदाचन ॥

शीतकाले धनं प्रादादुष्णकाले जलान्नदः

॥१३॥

वर्षा काले वस्त्रदश्च बभूवान्नप्रदः सदा ॥

वापीकूपतडागादिप्रपादेवगृहाणि च

॥१४॥

कारयत्युचिते काले शिवविष्णुव्रतस्थितः ॥

इष्टधर्मस्तु वर्णानां समाचीर्णो महाफलः

॥१५॥

अन्येषां पूर्तधर्माणां तेषां पूर्तकरः सदा ॥

स बभूव धनाढ्योपि व्यसनैर्न समाश्रितः

॥१६॥

विष्णुभक्तिरतो नित्यं चातुर्मास्ये विशेषतः

॥१८॥

एकदा गालवमुनिः शिष्यैर्बहुभिरावृतः

॥१७॥

ब्रह्मज्ञानरतः शांतस्तपोनिष्ठो महावशी ॥

अभ्याजगाम शूद्रस्य गेहे पैजवनस्य सः

॥१८॥

स वाग्भिर्मधुभिस्तस्य अभ्युत्थानासनादिभिः ॥

उपचारैः पुनर्युक्तः कृतार्थ इव मानयन्

॥१९॥

अद्य मे सफलं जन्म जातं जीवितमुत्तमम् ॥

अद्य मे सफलो धर्मः कुशलश्चोद्धृतस्त्वया

॥२०॥

मम पापसहस्राणि दृष्ट्या दग्धानि ते मुने ॥

गृहं मम गृहस्थस्य सकलं पावितं त्वया

॥२१॥

तस्य भक्त्या प्रसन्नोऽभूद्गतमार्गपरिश्रमः ॥

उवाच मुनिशार्दूलः सच्छूद्रं तं कृतांजलिम्

॥२२॥

कच्चित्ते कुशलं सौम्य मनो धर्मे प्रवर्तते ॥

अर्थानुबंधाः सततं बन्धुदारसुतादयः ।

गोविन्दे सततं भक्तिस्तथा दाने प्रवर्तते ॥

धर्मार्थकाम कार्येषु सप्रभावं मनस्तव

॥२४॥

विष्णुपादोदकं नित्यं शिरसा धार्यते न वा ॥

पादोद्भवं च गंगोदं द्वादशाब्दफलप्रदम्

॥२५॥

चातुर्मास्ये विशेषेण तत्फलं द्विगुणं भवेत् ॥

हरिभक्तिर्हरिकथा हरिस्तोत्रं हरेर्नतिः

॥२६॥

हरिध्यानं हरेः पूजा सुप्ते देवे च मोक्षकृत् ॥

एवं ब्रुवाणं स मुनिं पुनराह नतिं गतः

॥२७॥

भवद्दृष्ट्याश्रमफलमेतज्जातं न संशयः ॥

तथापि श्रोतुमिच्छामि तव वाणीमनामयीम्

॥२८॥

भवादृशानां गमनं सर्वार्थेषु प्रकल्पते ॥

ततस्तौ सुमुदा युक्तौ संजातौ हृष्टचेतसौ

॥२९॥

मुनिं पैजवनोनाम सच्छूद्रः प्राह संमतः ॥

किमागमनकृत्यं ते कथयस्व प्रसादतः

॥३०॥

को वा तीर्थप्रसंगश्च चातुर्मास्ये समीपगे ॥

गालवः प्राह सच्छूद्रं धार्मिकं सत्यवादिनम्

॥३१॥

मम तीर्थावसिक्तस्य मासा बहुतरा गताः ॥

इदानीमाश्रमं यास्ये चातुर्मास्ये समागते

॥३२॥

आषाढशुक्लैकादश्यां करिष्ये नियमं गृहे ॥

नारायणस्य प्रीत्यर्थं श्रेयोऽर्थं चात्मनस्तथा ॥

प्रत्युवाच मुनिर्धर्मान्विनयानतकन्धरम्

॥३३॥

पैजवन उवाच

मामनुग्रहजां बुद्धिं ब्रूहि त्वं द्विजपुंगव ॥

वेदेऽधिकारो नैवास्ति वेदसारजपस्य वा

॥३४॥

पुराणस्मृतिपाठस्य तस्मात्किंचिद्वदस्व मे ॥

तत्त्वात्मसदृशं किंचिद्भाति रूपं महाफलम्

॥३५॥

चातुर्मास्ये विशेषेण मुक्तिसंसाधकं वद

॥३६॥

गालव उवाच

शालिग्रामगतं विष्णुं चक्रांकित पुटं सदा ॥

येऽर्चयन्ति नरा नित्यं तेषां भुक्तिस्त्वदूरतः

॥३७॥

शालिग्रामे मनो यस्य यत्किंचित्क्रियते शुभम् ॥

अक्षय्यं तद्भवेन्नित्यं चातुर्मास्ये विशेषतः ॥

३८ शालिग्रामशिला यत्र यत्र द्वारावती शिला ॥

उभयोः संगमः प्राप्तो मुक्तिस्तस्य न दुर्लभा

॥३९॥

शालिग्रामशिला यस्यां भूमौ संपूज्यते नृभिः ॥

पञ्चक्रोशं पुनात्येषा अपि पापशतान्वितैः

॥४०॥

तैजसं पिंडमेतद्धि ब्रह्मरूपमिदं शुभम् ॥

यस्याः संदर्शनादेव सद्यः कल्मषनाशनम्

॥४१॥

सर्वतीर्थानि पुण्यानि देवतायतनानि च ॥

नद्यः सर्वा महाशूद्र तीर्थत्वं प्राप्नुवंति हि

॥४२॥

सन्निधानेन वै तस्याः क्रिया सर्वत्रशोभनाः ॥

व्रजंति हि क्रियात्वं च चातुर्मास्ये विशेषतः

॥४३॥

पूज्यते भवने यस्य शालिग्राम शिला शुभा ॥

कोमलैस्तुलसीपत्रैर्विमुखस्तत्र वै यमः

॥४४॥

ब्राह्मणक्षत्रियविशां सच्छूद्राणामथापि वा ॥

शालिग्रामाधिकारोऽस्ति न चान्येषां कदाचन

॥४५॥

सच्छूद्र उवाच

ब्रह्मन्वेदविदां श्रेष्ठ सर्वशास्त्रविशारद ॥

स्त्रीशूद्रादिनिषेधोऽयं शालिग्रामे हि श्रूयते

॥४६॥

मादृशस्त्वं कथं शालिग्रामपूजाविधिं वद

॥४७॥

गालव उवाच

असच्छूद्रगतं दास निषेधं विद्धि मानद ॥

स्त्रीणामपि च साध्वीनां नैवाभावः प्रकीर्तितः

॥४८॥

मा भूत्संशयस्तेनात्र नाऽऽप्नुषे संशयात्फलम् ॥

शालिग्रामार्चनपराः शुद्धदेहा विवेकिनः

॥४९॥

न ते यमपुरं यांति चातुर्मास्ये च पूजकाः ॥

शालिग्रामार्पितं माल्यं शिरसा धारयंति ये

॥५०॥

तेषां पापसहस्राणि विलयं यांति तत्क्षणात् ॥

शालिग्राम शिलाग्रे तु ये प्रयच्छंति दीपकम्

॥५१॥

तेषां सौरपुरे वासः कदाचिन्नैव हीयते ॥

शालिग्रामगतं विष्णुं सुमनोभिर्मनोहरैः ॥

येऽर्चयंति महाशूद्र सुप्ते देवे हरौ तथा

॥५२॥

पंचामृतेन स्नपनं ये कुर्वंति सदा नराः ॥

शालिग्रामशिलायां च न ते संसारिणो नराः

॥५३॥

मुक्तेर्निदानममलं शालिग्रामगतं हरिम् ॥

हृदि न्यस्य सदा भक्त्या यो ध्यायति स मुक्तिभाक्

॥५४॥

तुलसीदलजां मालां शालिग्रामोपरि न्यसेत् ॥

चातुर्मास्ये विशेषेण सर्वकामानवाप्नुयात्

॥५५॥

न तावत्पुष्पजा माला शालिग्रामस्य वल्लभा ॥

सर्वदा तुलसी देवी विष्णोर्नित्यं शुभा प्रिया

॥५६॥

तुलसी वल्लभा नित्यं चातुर्मास्ये विशेषतः ॥

शालिग्रामो महाविष्णुस्तुलसी श्रीर्न संशयः

॥५७॥

अतो वासितपानीयैः स्नाप्यं चंदनचर्चितैः ॥

मंजरीभिर्युतं देवं शालग्रामशिलाहरिम्

॥५८॥

तुलसीसंभवाभिश्च कृत्वा कामानवाप्नुयात् ॥

पत्रे तु प्रथमे ब्रह्मा द्वितीये भगवाञ्छिवः

॥५९॥

मंजर्यां भगवान्विष्णुस्तदेकस्थत्रया सदा ॥

मंजरी दलसंयुक्ता ग्राह्या बुधजनैः शुभा

॥६०॥

तां निवेद्य गुरौ भक्त्या जन्मादिक्षयकारणम् ॥

शालिग्रामे धूपराशिं निवेद्य हरितत्परः

॥६१॥

चातुर्मास्ये विशेषेण मनुष्यो नैव नारकी ॥

शालिग्रामं नरो दृष्ट्वा पूजितं कुसुमैः शुभैः

॥६२॥

सर्वपापविशुद्धात्मा याति तन्मयतां हरौ ॥

य स्तौत्यश्मगतं विष्णुं गंडकीजलसंभवम्

॥६३॥

श्रुतिस्मृतिपुराणैश्च सोऽपि विष्णुपदं व्रजेत् ॥

शालिग्रामशिलायाश्च चतुर्विंशतिसंख्यकाः ॥

भेदाः संति महाशूद्र ताञ्छृणुष्व महामते

॥६४॥

इमाः पूज्याश्च लोकेऽत्र चतुर्विंशतिसंख्यकाः ॥

तासां च दैवतं विष्णुं नामानि च वदाम्यहम्

॥६५॥

स एव मूर्त्तश्चतुरुत्तरासिर्विंशद्भिरेको भगवान्यथाऽऽद्यः ॥

स एव संवत्सरनामसंज्ञः स एव ग्रावागत आदिदेवः

॥६६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने शालिग्रामपूजनमाहात्म्यवर्णनंनाम त्रिचत्वारिंशत्युत्तरद्विशततमोऽध्यायः ॥ २४३ ॥