मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १०५

3
नागरखण्डः · 105

राक्षसलिंगच्छेदनम्

सूत उवाच

अथ प्राप्ते दिनाधीशे तुलायां द्विजसत्तमाः ॥

प्रेता लिंगोद्भवां भूमिं पूरयामासुरेव हि

॥१॥

यत्किंचित्तत्र संस्थं तु आद्यतीर्थं सुरालयम् ॥

तत्सर्वं व्यन्तरैस्तैश्च पांसुभिः परिपूरितम्

॥२॥

ततः क्षेमं समुत्पन्नं क्षेत्रे तत्र द्विजोत्तमाः ॥

अन्येषामपि लोकानां लिंगैस्तैर्लुप्तिमागतैः

॥३॥

कस्यचित्त्वथ कालस्य बृहदश्वो महीपतिः ॥

शाल्वदेशात्समायातः कस्मिश्चिद्युगपर्यये

॥४॥

स दृष्ट्वा विपुलां भूमिं प्रासादैः परिवर्जिताम् ॥

प्रासादार्थं मतिं चक्रे तत्र क्षेत्रे द्विजोत्तमाः

॥५॥

शिल्पिनश्च समाहूयानेकांस्तत्र सहस्रशः ॥

शोधयामास तां भूमिमधस्ताद्बहुविस्तृताम्

॥६॥

भूमौ निखन्यमानायां ततो लिंगानि भूरिशः ॥

चतुर्वक्त्राणि तान्येव यांति दृष्टेश्च गोचरम्

॥७॥

ततः स पार्थिवस्तैश्च लिंगैर्दृष्ट्वा वृतां भुवम् ॥

तत्क्षणान्मृत्युमापन्नः शिल्पिभिश्च समन्वितः

॥८॥

ततःप्रभृति नो तत्र कश्चिन्मर्त्यो महीतले ॥

प्रासादं कुरुते भीत्या तडागं कूपमेव च

॥९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्र माहात्म्ये राक्षसलिंगच्छेदनंनाम पञ्चोत्तरशततमोऽध्यायः ॥ १०५ ॥