मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय १२५

3
नागरखण्डः · 125

सत्यसन्धनृपतिवृत्तान्तवर्णनम्

सूत उवाच

ततः कर्णोत्पलातीर्थं विख्यातं चास्ति शोभनम् ॥

यत्र स्नातो नरः सम्यङ्न वियोगमवाप्नुयात्

॥१॥

कथंचिदपि चेष्टेन धनेनालिजनेन च ॥

पराक्रमेण धर्मेण कलत्रेण विशेषतः

॥२॥

सत्यसंध इति ख्यातः पुरासीत्पृथिवीपतिः ॥

इक्ष्वाकुकुलसंभूतः सर्वरूपगुणैर्युतः

॥३॥

तस्य कर्णोत्पलानाम जाता कन्या सुशोभना ॥

बहुपुत्रस्य चैका सा सर्वलक्षणलक्षिता

॥४॥

अथ तस्याः पिता नाम चक्रे द्वादशमे दिने ॥

संमंत्र्य ब्राह्मणैः सार्धं भृत्यामात्यैर्मुहुर्मुहुः

॥५॥

यस्मात्कर्णोत्पला चेयं जाता मम कुमारिका ॥

तस्मात्कर्णोत्पलानाम जाता कन्या सुशोभना

॥६॥

बहु पुत्रस्य चैका सा सर्वलक्षणलक्षिता ॥

तस्मात्कर्णोत्पलानाम जायतां द्विजसत्तमाः

॥७॥

कृतनामाऽथ सा बाला वृद्धिं याति दिनेदिने ॥

आह्लादकारिणी नित्यं कला चांद्रमसी यथा

॥८॥

अथ सा क्रमशः प्राप्ता यौवनं बंधुलालिता ॥

हस्ताद्धस्तं प्रगच्छंती सर्वेषां द्विजसत्तमाः

॥९॥

अथ तां यौवनोपेतां दृष्ट्वा स पृथिवीपतिः ।

चिंतयामास चित्तेन कस्येमां प्रददाम्यहम्

॥१०॥

न तस्याः सदृशः कश्चिद्वरोऽत्र धरणीतले ॥

न स्वर्गे न च पाताले किं कृत्यं मेऽधुना भवेत्

॥११॥

स एवं बहुधा ध्यात्वा तदर्थं पृथिवीपतिः ॥

निश्चयं प्राकरोच्चित्ते प्रष्टव्योऽत्र पितामहः ॥

१२ मयाद्य विषये चास्मिन्स देवः प्रेरयिष्यति ॥

तस्मै पुत्रीं प्रदास्यामि नान्यस्मै वै कथंचन

॥१३॥

स एवं निश्चयं कृत्वा तामादाय ततः परम् ॥

ब्रह्मलोकं जगामाथ प्रष्टुं तस्याः कृते वरम्

॥१४॥

अथ यावत्स संप्राप्तो ब्रह्मलोकं नरेश्वरः ॥

तावत्संध्या समुत्पन्ना ब्राह्मी ब्राह्मणसत्तमाः

॥१५॥

एतस्मिन्नंतरे ब्रह्मा सायंतनक्रियोत्सुकः ॥

उपविष्टः समाधिस्थस्तत्कालं समपद्यत

॥१६॥

सत्यसंधोऽपि तं दृष्ट्वा समाधिस्थं पितामहम् ॥

समाध्यंतं प्रतीक्षन्स उपविष्टः समीपतः

॥१७॥

ततो विलोक्य चात्मानमात्मनि प्रपितामहः ॥

पद्मे प्रवर्तिते सम्यगष्टपत्रे हृदि स्थिते

॥१८॥

कर्णिकामध्यगं दीप्तं बहुवर्णमतिस्थिरम् ॥

आनंदाश्रुपरिक्लिन्नवदनः पुलकांकितः

॥१९॥

तत आचम्य प्रक्षाल्य चरणौ सर्वतोदिशम् ॥

अपश्यत्प्रणतः सर्वैर्ब्रह्मलोकनिवासिभिः

॥२०॥

एतस्मिन्नंतरे राजा तामादाय शुभाननाम् ॥

नमस्कृत्य तया सार्धं ततः प्रोवाच सादरम्

॥२१॥

अहं देव समायातो मर्त्यलोकात्तवांतिकम् ॥

सत्यसंधो महीपाल आनर्त भुवि विश्रुतः

॥२२॥

इयं कर्णोत्पलानाम मम कन्या सुशोभना ॥

अस्या भुवि मया लब्धो न समोऽत्र पतिः क्वचित्

॥२३॥

सदृशस्तेन चायातस्तव पार्श्वे सुरोत्तम ॥

तस्मान्मे ब्रूहि भर्त्तारमस्या येन ददाम्यहम्

॥२४॥

सूत उवाच

तस्य तद्वचनं श्रुत्वा ततः प्रोवाच पद्मजः ॥

विहस्य सर्वदेवानां समाजे द्विजसत्तमाः

॥२५॥

यदि पृच्छसि मे भूप कन्याधर्मपतिं प्रति ॥

तन्नैषा कस्यचिद्देया सांप्रतं शृणु कारणम्

॥२६॥

आत्मश्रेणिप्रसूताय वयोज्येष्ठाय भूपते ॥

कन्या देया च धर्माय यशसे कुलवृद्धये

॥२७॥

सेयं तव सुता मर्त्ये ज्येष्ठभावं समाश्रिता ॥

सर्वेषां भूमिपालानां यत्तत्त्वं कारणं शृणु

॥२८॥

ममांतिकं प्रपन्नस्य तव जातं युगत्रयम् ॥

अतीता भूतले मर्त्या ये दृष्टाः प्राक्त्वया नृप

॥२९॥

अन्या सृष्टिः समुत्पन्ना सांप्रतं धरणीतले ॥

न त्वं जानासि माहात्म्यान्मम लोकसमुद्भवात्

॥३०॥

न देवा मानुषीं भार्यां कुर्वन्ति च कथंचन ॥

श्लेष्ममूत्रपुरीषाणां संस्थानं या विगर्हिता

॥३१॥

तस्मादत्रैव तिष्ठ त्वं सुतया सहितो नृप ॥

हस्त्यश्वादि च यत्किंचित्तत्सर्वं ते क्षयं गतम्

॥३२॥

पुत्राः पौत्रास्तथा भृत्या ये चान्ये बांधवास्तव ॥

ते सर्वे निधनं प्राप्ता ये चान्ये भवतेक्षिताः

॥३३॥

स तथेति प्रतिज्ञाय स्थितः पार्थिवसत्तमः ॥

यावत्तावत्सुदुःखार्ता रुदतीसाऽब्रवीत्सुता

॥३४॥

नाहं तात वसिष्यामि स्थानेस्मिन्ब्रह्मसंभवे ॥

सखीजनपरित्यक्ता बंधुवर्गविनाकृता

॥३५॥

तस्माद्यास्यामि तत्रैव यत्र सा जननी मम ॥

ताश्च सख्यः कृतानंदा याभिः संक्रीडितं मया

॥३६॥

भर्त्रा विनाकृता नाहं नयिष्ये कालसंस्थितिम् ॥

तस्मात्तत्र द्रुतं गच्छ यत्र मे जननी स्थिता

॥३७॥

तस्यास्तद्वचनं श्रुत्वा स्नेहार्द्रेण स चेतसा ॥

तामादाय ततः प्राप्तः स्वं देशं पार्थिवोत्तमः

॥३८॥

यावत्पश्यति तावत्स स्थलस्थाने जलाशयान् ॥

जलस्थानेषु संजाताः स्थलसंघाः सुदुर्गमाः

॥३९॥

अन्ये लोकास्तथा धर्मास्तेषां मध्ये व्यवस्थिताः ॥

पृच्छन्नपि न जानाति संबंधं केनचित्सह

॥४०॥

तथा मर्त्यानिलस्पृष्टन्द्यतत्त्कणात्स महीपतिः ॥

सा च कन्या जराग्रस्ता संजाता श्वेतमूर्द्धजा

॥४१॥

वलिभिः पूर्णितांगी च शीर्णदंता कुचच्युता ॥

अमनोज्ञा विरूपांगी चिपिटाक्षी द्विजोत्तमाः

॥४२॥

सोपि राजा तथाभूतो वेपमानः पदेपदे ॥

पप्रच्छ भूपतिः कोत्र देशः कोयं पुरं च किम्

॥४३॥

अथ प्रोचुर्जनास्तस्य देश आनर्त इत्ययम् ॥

अयं भूपोत्र विख्यातः सुधर्मज्ञो बृहद्बलः

॥४४॥

एतत्प्राप्तिपुरंनाम एषा साभ्रमती नदी ॥

गर्तातीर्थमिदं पुण्यमेतस्याः परिकीर्तितम्

॥४९॥

यत्रैते मुनयः शांता दांताश्चाष्टगुणे रताः ॥

तपरता महाभागाः स्नानजप्ययपरायणाः

॥४६॥

ततः स तु समाकर्ण्य रुरोद कृतनिःस्वनः ॥

स्वसुतां तां समालिंग्य दुःखशोकसमन्वितः

॥४७॥

तौ च वृद्धतमौ दृष्ट्वा रुदतौ कृपयान्विताः ॥

सर्वे लोकाः समाजग्मुः पप्रच्छुश्च सुदुःखिताः

॥४८॥

किं त्वं वृद्ध सुदुःखार्तः प्ररोदिषि निरर्गलम् ॥

अनया वृद्धया सार्धं तस्मान्नः कारणं वद

॥४९॥

किं ते नष्टः प्रियः कश्चित्किं वा जातो धनक्षयः ॥

पराभूतोसि वा किं त्वं केनापि वद मा चिरम्

॥५०॥

धर्मज्ञो दुष्टहंता च साधूनां पालने रतः ॥

राजा बृहद्बलोस्माकं येन ते कुरुते सुखम्

॥५१॥

सत्यसंध उवाच

आनर्त्ताधिपतिश्चाहं सत्यसंध इति स्मृतः ॥

मम कर्णोत्पलानाम सुतेयं दयिता सदा ॥

सोहमस्याः प्रदानार्थं ब्रह्मलोकमितो गतः ॥

प्रष्टुं पितामहं देवं स्थितस्तत्र मुहूर्तवत्

॥९३॥

ततो भूयः समायातो यावत्पश्यामि भूतलम् ॥

तावद्विलोमतां प्राप्तं सर्वं नो वेद्मि किञ्चन

॥५४॥

तच्छ्रुत्वा ते जना गत्वा विस्मयोत्फुल्ललोचनाः ॥

बृहद्बलाय तत्सर्वमाचख्युस्तुष्टिसंयुताः

॥५५॥

सोऽपि तत्सर्वमाकर्ण्य ततः शीघ्रतरं गतः ॥

पद्भ्यामेव स्थितो यत्र सत्यसन्धो महीपतिः

॥५६॥

ततस्तं प्रणिपत्योच्चैः कृतांजलिपुटः स्थितः ॥

स्वागतं ते महीपाल भूयः सुस्वागतं च ते

॥५७॥

इदं राज्यं निजं भूयो मया भृत्येन सादरम् ॥

कुरुष्व स्वेच्छया देहि दानानि विविधानि च

॥५८॥

ततस्तं च समालिंग्य शिरस्याधाय चासकृत् ॥

उवाचाश्रुपरिक्लिन्नवदनो गद्गदाक्षरम्

॥५९॥

वत्स चीर्णं मया राज्यं दानं दत्तं पृथग्विधम् ॥

वाजिमेधमुखैर्यज्ञैरिष्टं संपूर्णदक्षिणैः

॥६॥

तस्मात्तपश्चरिष्यामि सुतया चानया सह ॥

यथैषा लभते भूयस्तारुण्यं प्राक्तनं शुभम्

॥६॥

बृहद्बल उवाच

पारंपर्येण राजेंद्र मयैतत्सकलं श्रुतम् ॥

सत्यसंधो महीपालः कन्यामादाय निर्गतः

॥६२॥

कुत्रचिन्न समायातः स भूयोऽपि पुरोत्तमे ॥

ततस्तत्सचिवै राज्यं प्रतिपाल्य चिरं नृप ॥

अभिषिक्तस्ततः पुत्रः सुहयोनाम विश्रुतः

॥६३॥

तस्याहं क्रमशो जातः सप्तसप्ततिमो विभो ॥

पुरुषस्तव वंशस्य समुद्भूतो महापतिः

॥६४॥

तस्मादत्रैव कल्याणे स्थानेऽस्मिन्मेध्यतां गते ॥

गर्तातीर्थे कुरु विभो तपस्त्वमनया सह

॥६५॥

येन ते चरणौ नित्यं प्रणिपत्य त्रिसंधिजम् ॥

श्रेयः प्राप्नोम्यसंदिग्धं प्रसादः क्रियतामिति

॥६६॥

सत्यसंध उवाच

हाटकेश्वरजे क्षेत्रे मयासीत्स्थापितं पुरा ॥

लिंगं वृषभनाथस्य तावदस्ति सुपुत्रक

॥६७॥

तत्तस्याराधनं नित्यं करिष्यामि दिवानिशम् ॥

तस्मात्प्रापय मां तत्र अनया सुतया सह

॥६८॥

एवं तयोः प्रवदतोरन्योन्यं भूमिपालयोः ॥

गर्त्तातीर्थात्समायाता ब्राह्मणाः कौतुकान्विताः ॥

श्रुत्वा भूमिपतिं प्राप्तं चिरंतनगुरुं शुभम्

॥६९॥

ततः स पार्थिवस्तेषां दत्त्वार्घं प्रांजलिः स्थितः ॥

प्रोवाच स्वर्गवृत्तांतमास्यतामिति सादरम्

॥७०॥

अथ ते ब्राह्मणाः सर्वे यथाज्येष्ठं यथासुखम् ॥

उपविष्टा नरेंद्रस्य चतुर्दिक्षु सुविस्मिताः ॥

पप्रच्छुस्तं च भूपालं वार्तां ब्रह्मगृहोद्भवाम्

॥७१॥

यथा स तत्र निर्यात आगतश्च यथा पुरा ॥

आलापाः पद्मयोनेश्च यथा जातास्त्वनेकशः

॥७२॥

ततः कथांतमासाद्य सत्यसंधो महीपतिः ॥

किंचिदासाद्य तं प्राह समीपस्थं बृहद्बलम्

॥७३॥

मया इष्टं मखैश्चित्रैरनेकैर्भूरिदक्षिणैः ॥

दानानि च विचित्राणि येषां संख्या न विद्यते

॥७४॥

एकदाहं गतः पुत्र चमत्कारपुरोत्तमे ॥

दृष्टं मया पुरं तच्च समंताद्ब्राह्मणैवृतम्

॥७५॥

जपस्वाध्यायसंपन्नैरग्निहोत्रपरायणैः ॥

गृहस्थधर्मसंपन्नैर्लोकद्वयफलान्वितैः

॥७६॥

ततश्च चिंतितं चित्ते स वन्यो मम पूर्वजः ॥

येनैषोपार्जिता कीर्तिः शाश्वती क्षयवर्जिता

॥७७॥

तस्मादहमपि स्थाप्य पुरमीदृक्समुच्छ्रितम् ॥

ब्राह्मणेभ्यः प्रदास्यामि तत्कीर्तिपरिवृद्धये

॥७८॥

एवं चितयमानस्य मम नित्यं महीपते ॥

अवांतरेण संजातं ब्रह्मलोकप्रयाणकम्

॥७९॥

एतदेकं हि मे चित्ते पश्चात्तापकरं स्थितम् ॥

नान्यत्किंचिन्महीपाल कृतकृत्यस्य सर्वतः

॥८०॥

तस्मात्प्रार्थय विप्रेंद्रान्कांश्चिदेषां महात्मनाम् ॥

येन यच्छामि सुस्थानं कृत्वा तेभ्यस्तवाज्ञया

॥८१॥

ततः स प्रार्थयामास तदर्थं ब्राह्मणोत्तमान् ॥

ममोपरि दयां कृत्वा क्रियतां भोः परिग्रहः

॥८२॥

अस्य भूपस्य सद्भक्त्या यच्छतः पुरमुत्तमम् ॥

अहं वः पालयिष्यामि सर्वे मद्वंशजाश्च ते

॥८३॥

ततः कांश्चित्सुकृच्छ्रेण समानीय बृहद्बलः ॥

राज्ञे निवेदयामास एतेभ्यो दीयतामिति

॥८४॥

ततः प्रक्षाल्य सर्वेषां पादान्स पृथिवीपतिः ॥

सत्यसंधो ददौ तेभ्यः पुरार्थं भूमिमुत्तमाम्

॥८५॥

बृहद्बलस्य चादेशं ददौ संप्रस्थितः स्वयम् ॥

त्वयैतद्योग्यतां नेयं पुरं परपुरंजय

॥८६॥

गत्वा च स तया सार्धं तत्क्षेत्रं हाटकेश्वरम् ॥

तल्लिंगं प्राप्य संहृष्टश्चिरं तेपे तपस्ततः

॥८७॥

सापि कर्णोत्पला प्राप्य किंचित्पुण्यं जलाशयम् ॥

तपस्तेपे प्रतिष्ठाप्य गौरीं श्रद्धासमन्विता

॥८८॥

एतस्मिन्नंतरे राजा कालधर्ममुपागतः ॥

आनर्ताधिपतिर्युद्धे हतः पुत्रैः समन्वितः

॥८९॥

ततस्ते ब्राह्मणाः सर्वे गर्तातीर्थसमुद्भवाः ॥

सत्यसंधं समभ्येत्य प्रोचुर्दुःखसमन्विताः

॥९०॥

परिग्रहः कृतोऽस्माभिः केवलं पृथिवीपते ॥

न च किंचित्फलं जातं वृत्तिजं नः पुरोद्भवम्

॥९१॥

तस्मात्कुरु स्थितिं त्वं च स्वधर्मपरिवृद्धये ॥

?।

येन तद्वर्तनोपायो ह्यस्माकं नृपसत्तम

॥९२॥

राजा बृहद्बलो युद्धे कालधर्ममुपागतः ॥

यस्त्वया दर्शितोऽस्माकं वृत्त्यर्थं नृपसत्तम

॥९३॥

सत्यसन्ध उवाच

संन्यस्तोऽहं द्विजश्रेष्ठा वृत्तिं कर्तुं न च क्षमः ॥

यदि मे स्यात्पुमान्कश्चिदन्वयेऽपि न संशयः

॥९४॥

तस्माद्व्रजथ हर्म्यं स्वं प्रसादः क्रियतां मम ॥

अभाग्यैर्भवदीयैश्च हतो राजा बृहद्बलः

॥९५॥

एवमुक्ताश्च ते विप्रा मत्वा तथ्यं च तद्वचः ॥

स्वस्थानं त्वरिता जग्मुः सोऽपि चक्रे तपश्चिरम्

॥९६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये सत्यसन्धनृपतिवृत्तान्तवर्णनंनाम पंचविंशत्यधिकशततमोऽध्यायः ॥ १२५ ॥