दीपदानादिसायुज्यचिन्तनान्तभक्तिनिरूपणम्
ब्रह्मोवाच
हरेर्दीपस्तु मद्दीपादधिकोऽयं प्रकुर्वतः ॥
वैकुण्ठवास एव स्यान्ममैश्वर्यमवांछितम्
॥१॥नारद उवाच
दीपोऽयं विष्णुभवने मन्त्रवद्विहितो नरैः ॥
सदा विशेषफलदश्चातुर्मास्येऽधिकः कथम्
॥२॥ब्रह्मोवाच
विष्णुर्नित्याधिदैवं मे विष्णुः पूज्यः सदा मम ॥
विष्णुमेनं सदा ध्याये विष्णुर्मत्तः परो हि सः
॥३॥स विष्णु वल्लभो दीपः सर्वदा पापहारकः ॥
चातुर्मास्ये विशेषेण कामनासिद्धिकारकः
॥४॥विष्णुर्दीपेन संतुष्टो यथा भवति पुत्रक ॥
तथा यज्ञसहस्रैश्च वरं नैव प्रयच्छति
॥५॥स्वल्प व्ययेन दीपस्य फलमानंतकं नृणाम् ॥
अनंतशयने प्राप्ते पुण्यसंख्या न विद्यते
॥६॥तस्मात्सर्वात्मभावेन श्रद्धया संयुतेन च ॥
दीपप्रदानं कुरुते हरेः पापैर्न लिप्यते
॥७॥उपचारैः षोडशकैर्यतिरूपे हरौ पुनः ॥
दीपप्रदाने विहिते सर्वमुद्द्योतितं जगत्
॥८॥दीपादनंतरं ब्रह्मन्नन्नस्य च निवेदनम् ॥
त्रयोदश्या भक्तियुक्तैः कार्यं मोक्षपदस्थितैः
॥९॥अमृतं संपरित्यज्य यदन्नं देवता अपि ॥
स्पृहयंति गृहस्थस्य गृहद्वारगताः सदा
॥१०॥हरौ सुप्ते विशेषेण प्रदेयः प्रत्यहं नरैः ॥
फलैरर्घ्यो विष्णुतुष्ट्यै तत्कालसमुदा हृतैः
॥११॥तांबूलवल्लीपत्रैश्च तथा पूगफलैः शुभैः ॥
द्राक्षाजंब्वाम्रजफलैरक्रोडैर्दाडिमैरपि
॥१२॥बीजपूरफलैश्चैव दद्यादर्घ्यं सुभक्तितः ॥
शंखतोयं समादाय तस्योपरि फलं शुभम्
॥१३॥मंत्रेणानेन विप्रेन्द्र केशवाय निवेदयेत् ॥
पुनराचमनं देयमन्नदानादनंतरम्
॥१४॥आर्तिक्यं च ततः कुर्यात्सर्वपापविनाशनम् ॥
चतुर्दश्या नमस्कुर्याद्विष्णवे यतिरूपिणे
॥१५॥पंचदश्या भ्रमः कार्यः सर्वदिक्षु द्विजैः सह ॥
सप्तसागरजै स्तोयैर्दत्तैर्यत्फलमाप्यते
॥१६॥तत्तोयदानाच्च हरेः प्राप्यते विष्णुवल्लभैः ॥
चतुर्वारभ्रमीभिश्च जगत्सर्वं चराचरम्
॥१७॥क्रांतं भवति विप्राग्र्य तत्तीर्थगमनादिकम् ॥
षोडश्या देवसायुज्यं चिन्तयेद्योगवित्तमः
॥१८॥आत्मनश्च हरेर्नित्यं न मूर्तिं भावयेत्तदा ॥
मूर्तामूर्तस्वरूप त्वाद्दृश्यो भवति योगवित्
॥१९॥तस्मिन्दृष्टे निवर्तेत सदसद्रूपजा क्रिया ॥
आत्मानं तेजसां मध्ये चिन्तयेत्सूर्यवर्चसम्
॥२०॥अहमेव सदा विष्णुरित्यात्मनि विचारयन् ॥
लभते वैष्णवं देहं जीवन्मुक्तो द्विजो भवेत्
॥२१॥चातुर्मास्ये विशेषेण योगयुक्तो द्विजो भवेत् ॥
इयं भक्तिः समादिष्टा मोक्षमार्गप्रदे हरौ
॥२२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्यु पाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये दीपदानादिसायुज्यचिन्तनान्तभक्तिनिरूपणं नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४० ॥
छ