नरादित्यमाहात्म्यवर्णनम्
ऋषय ऊचुः
माहित्थेयं त्वयाख्याता या पुरा सूतनन्दन ॥
केन संस्थापिता तत्र वद सर्वमशेषतः
॥१॥सूत उवाच
शोषणीनाम या विद्या पुरागस्त्येन साधिता ॥
आथर्वणेन मन्त्रेण स्वयं च परमेश्वरी
॥२॥ततः संशोषितस्तेन स समुद्रो महात्मना ॥
मित्रावरुणपुत्रेण सा प्रोक्ता पुरतः स्थिता
॥३॥माहित्थं साधितं यस्मात्त्वया मे सकलं शुभम् ॥
माहित्थानाम तस्मात्त्वं देवता संभविष्यसि
॥४॥चमत्कारपुरक्षेत्रे पूजां प्राप्स्यस्यनुत्तमाम् ॥
यस्त्वामाथर्वणैर्मन्त्रैस्तत्रस्थां भक्तिसंयुतः
॥५॥पूजयिष्यति वृद्धिं च सर्वकालमवाप्स्यति ॥
तस्मात्तत्र द्रुतं गच्छ मया सार्द्धं पुरोत्तमे
॥६॥द्विजानां रक्षणार्थाय नित्यं संनिहिता भव ॥
एवं सा तत्र संभूता माहित्था वरदेवता
॥७॥ययाऽयं चलितः शैलः स्वशक्त्या निश्चलीकृतः ॥
स्कन्देनेह द्विजश्रेष्ठाः शक्त्या विद्धस्तदग्रतः ॥
नरादित्यस्ततश्चान्यो यो नरेण प्रतिष्ठितः ॥
षष्ठ्यां तं सूर्यवारेण दृष्ट्वा पापात्प्रमुच्यते
॥९॥न शत्रूणां पराभूतिं प्रयास्यति यथार्जुनः ॥
रोगी विमुच्यते रोगाद्दरिद्रो धनमाप्नुयात्
॥१०॥तथा गोवर्धनधरं तत्र देवं जनार्दनम् ॥
यः पश्येत्कार्तिके शुक्ले संप्राप्ते प्रथमे दिने ॥
तस्य गावः प्रभूताः स्युर्नीरोगा द्विसत्तमाः
॥११॥नरसिंहवपुः साक्षात्तथा देवो हरिः स्वयम् ॥
तथा विनायकस्तत्र सर्वकामप्रदायकः ॥
सर्वविघ्नहरश्चैव स्थापितश्चार्जुनेन हि
॥१२॥यस्तं पूजयते भक्त्या चतुर्थ्यां मोदकाशनैः ॥
स सर्वविघ्ननिर्मुक्तो लभते वांछितं फलम् ॥
तत्र स्थितो द्विजेंद्राणां हिताय द्विजसत्तमाः ४१३ ॥
यस्तमाथर्वणैर्मंत्रैः पूजयेद्द्वादशीदिने ॥
कार्तिकस्य सिते पक्षे स याति परमां गतिम्
॥१४॥तथा तत्र द्विजश्रेष्ठा नरनारायणावुभौ ॥
देवौ परमतेजस्वी यस्तौ पश्यति भक्तितः
॥१५॥पूजयेच्च द्विजश्रेष्ठा द्वादश्या दिवसे स्वयम् ॥
स याति परमं स्थानं जरामरणवर्जितम्
॥१६॥तीर्थयात्राकृतारंभः कुन्तीपुत्रो धनंजयः ॥
हाटकेश्वरजे क्षेत्रे समायातो द्विजोत्तमाः
॥१७॥दृष्ट्वा तत्पावनं क्षेत्रं तीर्थपूगप्रपूरितम् ॥
आदित्यं स्थापयामास प्रासादे सुमनोहरे
॥१८॥नरनारायणौ देवौ तस्याग्रे स्थापितौ ततः ॥
तथा गोवर्धनधरस्तत्र देवः प्रतिष्ठितः
॥१९॥नरसिंहं तथैवान्यं श्रद्धया परया युतः ॥
एवं संस्थाप्य कौंतेयो देवगृहसुपंचकम्
॥२०॥ततो विप्रान्समाहूय सर्वांस्तान्पुरसंभवान् ॥
प्रोवाच प्रणतो भक्त्या धनं दत्त्वा सुपुष्कलम्
॥२१॥मया संस्थापितः सूर्यः सर्वरोगक्षयावहः ॥
तथार्पितश्च युष्माकं चिंतनीयं सदैव तु
॥२२॥विप्रा ऊचुः
गच्छ त्वं पांडवश्रेष्ठ सुविश्रब्धः स्वमालयम् ॥
वयं सर्वे करिष्यामस्तवश्रेयोऽभिवर्धनम्
॥२३॥ततोऽर्जुनः प्रहृष्टात्मा तेभ्यो दत्त्वा धनं बहु ॥
तानामंत्र्य नमस्कृत्य जगाम स्वपुरं प्रति
॥२४॥सूत उवाच
एतद्वः सर्वमाख्यातं नरादित्यस्य संभवम् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः शृण्वतां पापनाशनम्
॥२५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नरादित्यमाहात्म्यवर्णनंनाम षष्टितमोऽध्यायः ॥ ६० ॥