मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २००

3
नागरखण्डः · 200

भर्तृयज्ञकृतनागरज्ञातिमर्यादावर्णनम्

विश्वामित्र उवाच

ततः प्रभाते संजाते प्रोद्गते रविमण्डले ॥

सा चापि दुहिता तस्य दीक्षितस्य महात्मनः

॥१॥

रोरूयमाणाऽभ्यगमत्पितरं मातरं प्रति ॥

प्रोवाच गद्गदं वाक्यं बाष्पव्याकुललोचना

॥२॥

ताताम्ब किमिदं पापं युवाभ्यां समनुष्ठितम् ॥

अन्त्यजस्य प्रदत्ताऽहं यत्पापस्य दुरात्मनः

॥३॥

स नष्टो रजनीवक्त्रे ममावेद्य निजं कुलम् ॥

तस्मादहं प्रवेक्ष्यामि प्रदीप्ते हव्यवाहने

॥४॥

तस्यास्तद्वचनं श्रुत्वा दीक्षितः स सुभद्रकः ॥

निश्चेष्टः पतितो भूमौ वातभग्न इव द्रुमः

॥५॥

ततः स शीततोयेन संसिक्तश्च पुनःपुनः ॥

लब्ध्वाशु चेतनां कृच्छ्रात्स्वजनैः परिवारितः ॥

प्रलापान्विविधांश्चक्रे ताडयन्स्वशिरो मुहुः

॥६॥

अथ ते ब्राह्मणाः सर्वे तस्य संपर्कदूषिताः ॥

भर्तृयज्ञं समासाद्य तेनैव सहितास्ततः

॥७॥

प्रोचुर्विनयसंयुक्ताः प्रोच्चैस्तत्सुतया सह ॥

सुभद्रेण निजे हर्म्ये सुतां दत्त्वा निवेशितः

॥८॥

चण्डालो द्विजरूपोत्र चंद्रप्रभ इति स्मृतः

॥९॥

यावत्संवत्सरं सार्धं दैवे पित्र्ये च योजितः ॥

पापकर्मा न विज्ञातः सोऽधुना प्रकटोऽभवत्

॥१०॥

सुभद्रस्यानुषंगेण स्थानं सर्वं प्रदूषितम् ॥

अन्त्यजेन महाभाग तत्कुरुष्व विनिग्रहम्

॥११॥

कैश्चित्तस्य गृहे भुक्तं जलं पीतं तथा परैः ॥

अन्यैश्च गृहमानीय प्रदत्तं भोजनं तथा

॥१२॥

किं वा ते बहुनोक्तेन न स कोऽस्ति द्विजोत्तम ॥

संकरो यस्य नो जातस्तस्य पापस्य संभवः

॥१३॥

त्वया स्थानमिदं पुण्यं कृतं पूर्वं महामते ॥

सर्वेषां च गुरुस्त्वं हि तस्माच्छुद्धिं वदस्व नः

॥१४॥

ततः संचिन्त्य सुचिरं स्मृतिशास्त्राण्यनेकशः ॥

प्रायश्चित्तं ददौ तेषां सर्वेषां स द्विजन्मनाम्

॥१५॥

चांद्रायणशतं प्रादात्सुभद्रायाहिताग्नये ॥

सर्वभंडपरित्यागं पुनराधानमेव च

॥१६॥

लक्षहोमविधानं च गृहमध्यविशुद्धये ॥

वह्निप्रवेशनं तस्यास्तत्सुतायाः प्रकीर्तितम्

॥१७॥

येन यावंति भोज्यानि तस्य भुक्तानि मंदिरे ॥

तस्य तावंति कृच्छ्राणि तेनोक्तानि महात्मना

॥१८॥

यैर्जलानि प्रपीतानि यावन्मात्राणि तद्गृहे ॥

प्राजापत्यानि दत्तानि तेभ्यस्तावंति पार्थिव

॥१९॥

ब्राह्मणानां तथान्येषां तत्र स्थाने निवासिनाम् ॥

तत्स्पर्शदूषितानां च प्राजापत्यं पृथक्पृथक्

॥२०॥

स्त्रीशूद्राणां तदर्धं च तदर्ध बालवृद्धयोः ॥

मृन्मयानां च भांडानां परित्यागो निवेदितः

॥२१॥

सर्वेषामेव लोकानां रसत्यागस्तथैव च ॥

कोटिहोमस्तु निर्दिष्टो ब्रह्मस्थाने यथोदितः ॥

सर्वस्थानविशुद्ध्यर्थं स्थानवित्तेन केवलम्

॥२२॥

अथोवाच पुनर्विप्रान्स कृत्वा चोच्छ्रितं भुजम ॥

तारनादेन महता सर्वांस्तान्नागरोद्भवान्

॥२३॥

सुभद्रेण च सर्वस्वं देयं विप्रेभ्य एव च ॥

चतुर्थांशश्च यैर्भुक्तं तद्गृहे स्वधनस्य च

॥२४॥

अष्टांशं यैर्जलं पीतं गोदानं स्पर्शसंभवम् ॥

शेषाणामपि लोकानां यथाशक्त्या तु दक्षिणा

॥२५॥

दीक्षितेन जपः कार्यो लक्षगायत्रिसंभवः ॥

शेषैर्विप्रैर्यथा वित्तं तथा कार्यो जपोऽखिलः

॥२६॥

अहं चैव करिष्यामि प्राणायामशतत्रयम् ॥

नित्यमेव द्विजश्रेष्ठाः षष्ठकालकृताशनः

॥२७॥

यावत्संवत्सरस्यांतं ततः शुद्धिर्भविष्यति ॥

जन संपर्कसंजाता सैवं तस्य दुरात्मनः

॥२८॥

एवमुक्त्वा ततो भूयः स प्रोवाच द्विजोत्तमान् ॥

अथाऽऽद्यान्मध्यगास्येन ब्रह्मस्थानसमाश्रयान्

॥२९॥

अद्यप्रभृति यः कन्यामविदित्वा तु नागरम् ॥

नागरो दास्यति क्वापि पतितः स भविष्यति

॥३०॥

अश्राद्धेयो ह्यपांक्तेयो नागराणां विशेषतः

॥३१॥

यः श्राद्धं नागरं मुक्त्वा ह्यन्यस्मै संप्रदास्यति ॥

विमुखास्तस्य यास्यंति पितरो विबुधैः सह

॥३२॥

नागरेण विना यस्तु सोमपानं करिष्यति ॥

स करिष्यत्यसंदिग्धं मद्यपानं तु नागरः ॥

तन्मतेन विना यस्तु श्राद्धकर्म करिष्यति ३३ ॥

ततः सर्वं वृथा तस्य भविष्यति न संशयः ॥

विशुद्धिरहितं यस्तु नागरं भोजयिष्यति

॥३४॥

श्राद्धे तस्यापि तत्सर्वं व्यर्थतां संप्रयास्यति ॥

सर्वेषां नागराणां च मर्यादेयं कृता मया

॥३५॥

तस्मात्सर्वप्रयत्नेन शुद्धिः कार्या द्विजोत्तमैः ॥

वर्षेवर्षे तु संप्राप्ते स्वस्थानस्य विशुद्धये

॥३६॥

विश्वामित्र उवाच

एतत्ते सर्वमाख्यातं यत्पृष्टोऽस्मि नृपोत्तम ॥

श्राद्धार्हा नागरा येन नागराणां व्यवस्थिताः ॥

भर्तृयज्ञेन मर्यादा कृता तेषां यथा पुरा

॥३७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये भर्तृयज्ञकृतनागरज्ञातिमर्यादावर्णनं नाम द्विशततमोऽध्यायः ॥ २०० ॥