मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — नागरखण्डः, अध्याय २७३

3
नागरखण्डः · 273

युगप्रमाणवर्णनम्

सूत उवाच

एतेषां तु सहस्रेण भवेद्ग्राह्यं दिनं द्विजाः ॥

चतुर्दश सहस्राक्षा जायंते तत्र वासरे

॥१॥

सप्तमस्तु सहस्राक्षः सांप्रतं वर्ततेऽत्र यः ॥

एकसप्ततिसंवर्तचतुर्दशदिने विधेः

॥२॥

युगानां कुरुते राज्यं मनवश्च तथा परे ॥

स्वायंभुवप्रभृतयो यथा शक्रास्तथा स्थिताः

॥३॥

जायन्तो नाम शक्रोऽयं सांप्रतं वर्तते तु यः ॥

वैवस्वतो मनुश्चैव अष्टाविंशत्प्रमाणकः

॥४॥

चतुर्युगस्य संजातो गतेस्मिञ्छेषमात्रके ॥

भविष्यति बलिः शक्रो वासुदेवप्रसादतः

॥५॥

तेन तस्य प्रतिज्ञातं राज्यं चैवाष्टमे मनौ

॥६॥

एवं सर्वे सुराश्चान्ये त्रयस्त्रिंशत्प्रमाणतः ॥

कोटयः प्रभविष्यंति यथा चैव तथा पुरा

॥७॥

योऽयं ब्रह्मा स्थितो विप्राः सांप्रतं सृष्टिकारकः ॥

तस्यानेन प्रमाणेन जातं संवत्सराष्टकम्

॥८॥

षण्मासाश्च दिनार्धं च प्रथमं शुक्लपूर्वकम् ॥

सौरसावनचंद्रार्क्षैर्मानैरेभिश्चतुर्विधैः

॥९॥

कलौ निर्याति सर्वेषां भूतानां क्षितिमण्डले ॥

पंचषष्ट्याऽधिकैश्चैव दिनानां च शतैस्त्रिभिः ॥

भवेत्संवत्सरं सौरं पञ्चोनैस्तैश्च सावनम्

॥१०॥

चांद्र एकादशोनस्तु त्रिंशद्धीन उडूद्भवः ॥

शीतातपौ तथा वृष्टिः सौरमानेन जायते

॥११॥

वृक्षाणां फलनिष्पत्तिः सस्यानां च तथा परा ।

अग्निष्टोमादयो यज्ञा वर्तंते ये धरातले

॥१२॥

उत्साहाश्च विवाहाश्च सावनेन भवंति च ॥

कुसीदाद्याश्च ये केचिद्व्यवहाराश्च वृत्तिजाः

॥१३॥

अधिमासप्रयुक्तेन ते स्युश्चांद्रेण निर्मिताः ॥

नाक्षत्रेण तु मानेन सिध्यंते ग्रहचारिकाः

॥१४॥

नान्यत्किंचिद्धरापृष्ठ एतन्मानचतुष्टयात् ॥

एतेन तु प्रमाणेन देवदैत्याश्च मानवाः

॥१५॥

वर्त्तंते ब्राह्मणश्रेष्ठाः श्रुतिरेषा पुरातनी ॥

एतद्युगप्रमाणं तु यः पठेद्भक्तिसंयुतः

॥१६॥

एतेषामेव लिंगानां सप्तानां ब्राह्मणोत्तमाः ॥

नापमृत्यु भयं तस्य कथंचित्संभविष्यति

॥१७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये युगप्रमाणवर्णनंनाम त्रिसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७३